Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
कदा वा विरक्तिः कदा वा सुभक्तिः
कदा वा महायोगि संसेव्य मुक्तिः ।
हृदाकाशमध्ये सदा संवसन्तं
सदानन्दरूपं शिवं साम्बमीडे ॥ १ ॥
सुधीराजहंसैः सुपुण्यावतंसैः
सुरश्री समेतैः सदाचारपूतैः ।
अदोषैः सुरुद्राक्षभूषाविशेषै-
-रदीनैर्विभूत्यङ्गरागोज्ज्वलाङ्गैः ॥ २ ॥
शिवध्यानसंसक्त शुद्धान्तरङ्गैः
महाशैवपञ्चाक्षरी मन्त्रसिद्धैः ।
तमो मोचकै रेचकैः पूरकाद्यैः
समुद्दीपिताधार मुख्याब्जषट्कैः ॥ ३ ॥
हठल्लम्बिका राजयोग प्रभावा-
-ल्लुठत्कुण्डली व्यक्त मुक्तावकाशाम् ।
सहस्रारपद्मस्थितां पारवारां
सुधामाधुरीं साधुरीत्या पिबद्भिः ॥ ४ ॥
सदानन्द कन्दैर्महायोगिबृन्दैः
सदासेव्यमानं समुज्जृम्भमाणम् ।
महापुण्यपाके पुनःपुण्डरीके
सदा संवसन्तं चिदानन्दरूपम् ॥ ५ ॥
तटित्पुञ्ज चञ्चज्जटाजूट वाटी
नटज्जह्नुकन्या तटिन्या समेतम् ।
महानर्घ माणिक्य कोटीरहीर
प्रभापूरितार्धेन्दुरेखावतंसम् ॥ ६ ॥
फणाभृन्मणी कुण्डलालोलकर्ण
द्वयी चारुता दर्पणाद्गण्डभागम् ।
सुनेत्रालिकं सादर भ्रूविलासं
समन्दस्मिताऽऽस्यारविन्दं श्रयन्तम् ॥ ७ ॥
लसत्पीवरांसद्वयं नीलकण्ठं
महोरस्स्थलं सूक्ष्म मध्यप्रदेशम् ।
वलिद्योतमानोदरं दिव्यनाभिं
कुठारैण शाबाञ्चिताभ्यां कराभ्याम् ॥ ८ ॥
मुखाब्जैः स्तुवन्तं कराब्जैर्नमन्तं
विधिं मानयन्तं मुनीन्लालयन्तम् ।
गणान्पोषयन्तं मृदूक्तीर्वदन्तं
गुहं चैकदन्तं करेण स्पृशन्तम् ॥ ९ ॥
महादेवमन्तर्भजेऽहं भजेऽहं
सदा पार्वतीशं भजेऽहं भजेऽहम् ।
सदानन्दरूपं भजेऽहं भजेऽहं
चिदानन्दरूपं भजेऽहं भजेऽहम् ॥ १० ॥
भुजङ्गप्रयातस्तवं साम्बमूर्ते-
-रिमं ध्यानगम्यं तदेकाग्रचित्तः ।
पठेद्यः सुभक्तः समर्थः कृतार्थः
सदा तस्य साक्षात्प्रसन्नः शिवः स्यात् ॥ ११ ॥
इति श्रीशङ्करभगवत्पाद विरचितं श्री साम्बसदाशिवभुजङ्गप्रयात स्तोत्रम् ॥
इतर श्री शिव स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.