Sri Samba Sada Shiva Bhujanga Prayata Stotram – श्री साम्बसदाशिव भुजङ्ग प्रयात स्तोत्रम्



कदा वा विरक्तिः कदा वा सुभक्तिः
कदा वा महायोगि संसेव्य मुक्तिः ।
हृदाकाशमध्ये सदा संवसन्तं
सदानन्दरूपं शिवं साम्बमीडे ॥ १ ॥

सुधीराजहंसैः सुपुण्यावतंसैः
सुरश्री समेतैः सदाचारपूतैः ।
अदोषैः सुरुद्राक्षभूषाविशेषै-
-रदीनैर्विभूत्यङ्गरागोज्ज्वलाङ्गैः ॥ २ ॥

शिवध्यानसंसक्त शुद्धान्तरङ्गैः
महाशैवपञ्चाक्षरी मन्त्रसिद्धैः ।
तमो मोचकै रेचकैः पूरकाद्यैः
समुद्दीपिताधार मुख्याब्जषट्कैः ॥ ३ ॥

हठल्लम्बिका राजयोग प्रभावा-
-ल्लुठत्कुण्डली व्यक्त मुक्तावकाशाम् ।
सहस्रारपद्मस्थितां पारवारां
सुधामाधुरीं साधुरीत्या पिबद्भिः ॥ ४ ॥

सदानन्द कन्दैर्महायोगिबृन्दैः
सदासेव्यमानं समुज्जृम्भमाणम् ।
महापुण्यपाके पुनःपुण्डरीके
सदा संवसन्तं चिदानन्दरूपम् ॥ ५ ॥

तटित्पुञ्ज चञ्चज्जटाजूट वाटी
नटज्जह्नुकन्या तटिन्या समेतम् ।
महानर्घ माणिक्य कोटीरहीर
प्रभापूरितार्धेन्दुरेखावतंसम् ॥ ६ ॥

फणाभृन्मणी कुण्डलालोलकर्ण
द्वयी चारुता दर्पणाद्गण्डभागम् ।
सुनेत्रालिकं सादर भ्रूविलासं
समन्दस्मिताऽऽस्यारविन्दं श्रयन्तम् ॥ ७ ॥

लसत्पीवरांसद्वयं नीलकण्ठं
महोरस्स्थलं सूक्ष्म मध्यप्रदेशम् ।
वलिद्योतमानोदरं दिव्यनाभिं
कुठारैण शाबाञ्चिताभ्यां कराभ्याम् ॥ ८ ॥

मुखाब्जैः स्तुवन्तं कराब्जैर्नमन्तं
विधिं मानयन्तं मुनीन्लालयन्तम् ।
गणान्पोषयन्तं मृदूक्तीर्वदन्तं
गुहं चैकदन्तं करेण स्पृशन्तम् ॥ ९ ॥

महादेवमन्तर्भजेऽहं भजेऽहं
सदा पार्वतीशं भजेऽहं भजेऽहम् ।
सदानन्दरूपं भजेऽहं भजेऽहं
चिदानन्दरूपं भजेऽहं भजेऽहम् ॥ १० ॥

भुजङ्गप्रयातस्तवं साम्बमूर्ते-
-रिमं ध्यानगम्यं तदेकाग्रचित्तः ।
पठेद्यः सुभक्तः समर्थः कृतार्थः
सदा तस्य साक्षात्प्रसन्नः शिवः स्यात् ॥ ११ ॥

इति श्रीशङ्करभगवत्पाद विरचितं श्री साम्बसदाशिवभुजङ्गप्रयात स्तोत्रम् ॥


इतर श्री शिव स्तोत्राणि पश्यतु ।


మా తదుపరి ప్రచురణ: తెలుగు తాత్పర్యాలతో "శ్రీ బగళాముఖీ స్తోత్రనిధి" పుస్తకము ముద్రించుటకు ఆలోచన చేయుచున్నాము.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed