Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
जय तुङ्गातटवसते वर मन्त्रालयमूर्ते ।
कुरु करुणां मयि भीते परिमलततकीर्ते ॥
तव पादार्चनसक्ते तव नामामृतमत्ते
दिशदिव्यां दृशमूर्ते तव सन्तत भक्ते ॥
कृतगीतासुविवृत्ते कविजनसंस्तुतवृत्ते ।
कुरु वसतिं मम चित्ते परिवृत भक्तार्ते ॥
योगीन्द्रार्चितपादे योगिजनार्पितमोदे ।
तिम्मण्णान्वयचन्द्रे रमतां मम हृदयम् ॥
तप्तसुकाञ्चनसदृशे दण्डकमण्डलहस्ते ।
जपमालावरभूषे रमतां मम हृदयम् ॥
श्रीरामार्पितचित्ते काषायाम्बरयुक्ते ।
श्रीतुलसीमणिमाले रमतां मम हृदयम् ॥
मध्वमुनीडिततत्त्वं व्याख्यान्तं परिवारे ।
ईडेहं सततं मे सङ्कटपरिहारम् ॥
वैणिकवंशोत्तंसं वरविद्वन्मणिमान्यम् ।
वरदाने कल्पतरुं वन्दे गुरुराजम् ॥
सुशमीन्द्रार्यकुमारै-र्विद्येन्द्रैर्गुरुभक्त्या ।
रचिता श्रीगुरुगाथा सज्जनमोदकरी ॥
इति श्री सुविद्येन्द्रतीर्थ विरचित श्री राघवेन्द्र अष्टकम् ॥
इतर श्री राघवेन्द्र स्तोत्राणि पश्यतु ।
इतर श्री गुरु स्तोत्राणि पश्यतु ।
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.