Sri Pavanaja Ashtakam – श्री पवनजाष्टकम्


भवभयापहं भारतीपतिं
भजकसौख्यदं भानुदीधितिम् ।
भुवनसुन्दरं भूतिदं हरिं
भजत सज्जना मारुतात्मजम् ॥ १ ॥

अमितविक्रमं ह्यञ्जनासुतं
भयविनाशनं त्वब्जलोचनम् ।
असुरघातिनं ह्यब्धिलङ्घिनं
भजत सज्जना मारुतात्मजम् ॥ २ ॥

परभयङ्करं पाण्डुनन्दनं
पतितपावनं पापहारिणम् ।
परमसुन्दरं पङ्कजाननं
भजत सज्जना मारुतात्मजम् ॥ ३ ॥

कलिविनाशकं कौरवान्तकं
कलुषसंहरं कामितप्रदम् ।
कुरुकुलोद्भवं कुम्भिणीपतिं
भजत सज्जना मारुतात्मजम् ॥ ४ ॥

मतविवर्धनं मायिमर्दनं
मणिविभञ्जनं मध्वनामकम् ।
महितसन्मतिं मानदायकं
भजत सज्जना मारुतात्मजम् ॥ ५ ॥

द्विजकुलोद्भवं दिव्यविग्रहं
दितिजहारिणं दीनरक्षकम् ।
दिनकरप्रभं दिव्यमानसं
भजत सज्जना मारुतात्मजम् ॥ ६ ॥

कपिकुलोद्भवं केसरीसुतं
भरतपङ्कजं भीमनामकम् ।
विबुधवन्दितं विप्रवंशजं
भजत सज्जना मारुतात्मजम् ॥ ७ ॥

पठति यः पुमान् पापनाशकं
पवनजाष्टकं पुण्यवर्धनम् ।
परमसौख्यदं ज्ञानमुत्तमं
भुवि सुनिर्मलं याति सम्पदम् ॥ ८ ॥

इति श्री पवनजाष्टकम् ॥


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed