Sri Matangi Kavacham 3 – श्री मातङ्गी कवचम् – ३



अस्य श्रीमातङ्गी कवचमन्त्रस्य महायोगीश्वरऋषिः अनुष्टुप् छन्दः श्रीमातङ्गीश्वरी देवता श्रीमातङ्गीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

नीलोत्पलप्रतीकाशामञ्जनाद्रिसमप्रभाम् ।
वीणाहस्तां गानरतां मधुपात्रं च बिभ्रतीम् ॥ १ ॥

सर्वालङ्कारसम्युक्तां श्यामलां मदशालिनीम् ।
नमामि राजमातङ्गीं भक्तानामिष्टदायिनीम् ॥ २ ॥

एवं ध्यात्वा जपेन्नित्यं कवचं सर्वकामदम् ।
ओम् । शिखां मे श्यामला पातु मातङ्गी मे शिरोऽवतु ॥ ३ ॥

ललाटं पातु चण्डेशी भ्रुवौ मे मदशालिनी ।
कर्णौ मे पातु मातङ्गी शङ्खी कुण्डलशोभिता ॥ ४ ॥

नेत्रे मे पातु रक्ताक्षी नासिकां पातु मे शिवा ।
गण्डौ मे पातु देवेशी ओष्ठौ बिम्बफलाधरा ॥ ५ ॥

जिह्वां मे पातु वागीशी दन्तान् कल्याणकारिणी ।
पातु मे राजमातङ्गी वदनं सर्वसिद्धिदा ॥ ६ ॥

कण्ठं मे पातु हृद्याङ्गी वीणाहस्ता करौ मम ।
हृदयं पातु मे लक्ष्मीर्नाभिं मे विश्वनायिका ॥ ७ ॥

मम पार्श्वद्वयं पातु सूक्ष्ममध्या महेश्वरी ।
शुकश्यामा कटिं पातु गुह्यं मे लोकमोहिनी ॥ ८ ॥

ऊरू मे पातु भद्राङ्गी जानुनी पातु शाङ्करी ।
जङ्घाद्वयं मे लोकेशी पादौ मे परमेश्वरी ॥ ९ ॥

प्रागादिदिक्षु मां पातु सर्वैश्वर्यप्रदायिनी ।
रोमाणि पातु मे कृष्णा भार्यां मे भववल्लभा ॥ १० ॥

शङ्करी सर्वतः पातु मम सर्ववशङ्करी ।
महालक्ष्मीर्मम धनं विश्वमाता सुतान् मम ॥ ११ ॥

श्रीमातङ्गीश्वरी नित्यं मां पातु जगदीश्वरी ।
मातङ्गी कवचं नित्यं य एतत् प्रपठेन्नरः ॥ १२ ॥

सुखित्वा सकलान् लोकान् दासीभूतान् करोत्यसौ ।
प्राप्नोति महतीं कान्तिं भवेत् कामशतप्रभः ॥ १३ ॥

लभते महतीं लक्ष्मीं त्रैलोक्ये चापि दुर्लभाम् ।
अणिमाद्यष्टसिद्धोऽयं सञ्चरत्येष मानवः ॥ १४ ॥

सर्वविद्यानिधिरयं भवेद्वागीश्वरेश्वरः ।
ब्रह्मराक्षसवेतालभूतप्रेतपिशाचकैः ॥ १५ ॥

ज्वलन्वह्न्यादिवत्त्रस्तैर्वीक्ष्यते भूतपूर्वकैः ।
परमं योगमाप्नोति दिव्यज्ञानं समश्नुते ॥ १६ ॥

पुत्रान् पौत्रानवाप्नोति श्रीर्विद्याकान्ति सम्युतान् ।
तद्भार्या दुर्भगा चापि कान्त्या रतिसमा भवेत् ॥ १७ ॥

सर्वान् कामानवाप्नोति महाभोगान् सुदुर्लभान् ।
मुक्तिमन्ते समाप्नोति साक्षात्परशिवो भवेत् ॥ १८ ॥

इति श्री महागमरहस्ये दत्तात्रेय वामदेव संवादे सप्तमपरिच्छेदे श्री मातङ्गी कवचम् ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed