Sri Mangala Gauri Stotram – श्री मङ्गलगौरी स्तोत्रम्


देवि त्वदीयचरणाम्बुजरेणु गौरीं
भालस्थलीं वहति यः प्रणतिप्रवीणः ।
जन्मान्तरेऽपि रजनीकरचारुलेखा
तां गौरयत्यतितरां किल तस्य पुंसः ॥ १ ॥

श्रीमङ्गले सकलमङ्गलजन्मभूमे
श्रीमङ्गले सकलकल्मषतूलवह्ने ।
श्रीमङ्गले सकलदानवदर्पहन्त्रि
श्रीमङ्गलेऽखिलमिदं परिपाहि विश्वम् ॥ २ ॥

विश्वेश्वरि त्वमसि विश्वजनस्य कर्त्री
त्वं पालयित्र्यसि तथा प्रलयेऽपि हन्त्री ।
त्वन्नामकीर्तनसमुल्लसदच्छपुण्या
स्रोतस्विनी हरति पातककूलवृक्षान् ॥ ३ ॥

मातर्भवानि भवती भवतीव्रदुःख-
-सम्भारहारिणि शरण्यमिहास्ति नान्या ।
धन्यास्त एव भुवनेषु त एव मान्या
येषु स्फुरेत्तवशुभः करुणाकटाक्षः ॥ ४ ॥

ये त्वा स्मरन्ति सततं सहजप्रकाशां
काशीपुरीस्थितिमतीं नतमोक्षलक्ष्मीम् ।
तां संस्मरेत्स्मरहरो धृतशुद्धबुद्धी-
-न्निर्वाणरक्षणविचक्षणपात्रभूतान् ॥ ५ ॥

मातस्तवाङ्घ्रियुगलं विमलं हृदिस्थं
यस्यास्ति तस्य भुवनं सकलं करस्थम् ।
यो नामतेज एति मङ्गलगौरि नित्यं
सिद्ध्यष्टकं न परिमुञ्चति तस्य गेहम् ॥ ६ ॥

त्वं देवि वेदजननी प्रणवस्वरूपा
गायत्र्यसि त्वमसि वै द्विजकामधेनुः ।
त्वं व्याहृतित्रयमिहाऽखिलकर्मसिद्ध्यै
स्वाहास्वधासि सुमनः पितृतृप्तिहेतुः ॥ ७ ॥

गौरि त्वमेव शशिमौलिनि वेधसि त्वं
सावित्र्यसि त्वमसि चक्रिणि चारुलक्ष्मीः ।
काश्यां त्वमस्यमलरूपिणि मोक्षलक्ष्मीः
त्वं मे शरण्यमिह मङ्गलगौरि मातः ॥ ८ ॥

स्तुत्वेति तां स्मरहरार्धशरीरशोभां
श्रीमङ्गलाष्टक महास्तवनेन भानुः ।
देवीं च देवमसकृत्परितः प्रणम्य
तूष्णीं बभूव सविता शिवयोः पुरस्तात् ॥ ९ ॥

इति श्रीस्कान्दपुराणे काशीखण्डे रविकृत श्रीमङ्गलगौरी स्तोत्रम् ।


इतर देवी स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed