Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ध्यानम् ।
श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ।
वह्निशुद्धांशुकाधानां नागयज्ञोपवीतिनीम् ॥ १ ॥
महाज्ञानयुतां चैव प्रवरां ज्ञानिनां सताम् ।
सिद्धाधिष्टातृदेवीं च सिद्धां सिद्धिप्रदां भजे ॥ २ ॥
पञ्चोपचार पूजा ।
ओं नमो मनसायै – गन्धं परिकल्पयामि ।
ओं नमो मनसायै – पुष्पं परिकल्पयामि ।
ओं नमो मनसायै – धूपं परिकल्पयामि ।
ओं नमो मनसायै – दीपं परिकल्पयामि ।
ओं नमो मनसायै – नैवेद्यं परिकल्पयामि ।
मूलमन्त्रम् ।
ओं ह्रीं श्रीं क्लीं ऐं मनसादेव्यै स्वाहा ॥
इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे षट्चत्वारिंशत्तमोऽध्याये द्वादशाक्षर मूलमन्त्रम् ॥
इतर नागदेवता स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.