Sri Mahadeva Stotram – श्री महादेव स्तोत्रम्


बृहस्पतिरुवाच ।
जय देव परानन्द जय चित्सत्यविग्रह ।
जय संसारलोकघ्न जय पापहर प्रभो ॥ १ ॥

जय पूर्णमहादेव जय देवारिमर्दन ।
जय कल्याण देवेश जय त्रिपुरमर्दन ॥ २ ॥

जयाऽहङ्कारशत्रुघ्न जय मायाविषापहा ।
जय वेदान्तसंवेद्य जय वाचामगोचरा ॥ ३ ॥

जय रागहर श्रेष्ठ जय विद्वेषहराग्रज ।
जय साम्ब सदाचार जय देवसमाहित ॥ ४ ॥

जय ब्रह्मादिभिः पूज्य जय विष्णोः परामृत ।
जय विद्या महेशान जय विद्याप्रदानिशम् ॥ ५ ॥

जय सर्वाङ्गसम्पूर्ण नागाभरणभूषण ।
जय ब्रह्मविदाम्प्राप्य जय भोगापवर्गदः ॥ ६ ॥

जय कामहर प्राज्ञ जय कारुण्यविग्रह ।
जय भस्ममहादेव जय भस्मावगुण्ठितः ॥ ७ ॥

जय भस्मरतानां तु पाशभङ्गपरायण ।
जय हृत्पङ्कजे नित्यं यतिभिः पूज्यविग्रहः ॥ ८ ॥

श्रीसूत उवाच ।
इति स्तुत्वा महादेवं प्रणिपत्य बृहस्पतिः ।
कृतार्थः क्लेशनिर्मुक्तो भक्त्या परवशो भवेत् ॥ ९ ॥

य इदं पठते नित्यं सन्ध्ययोरुभयोरपि ।
भक्तिपारङ्गतो भूत्वा परम्ब्रह्माधिगच्छति ॥ १० ॥

गङ्गा प्रवाहवत्तस्य वाग्विभूतिर्विजृम्भते ।
बृहस्पति समो बुद्ध्या गुरुभक्त्या मया समः ॥ ११ ॥

पुत्रार्थी लभते पुत्रान् कन्यार्थी कन्यकामिमात् ।
ब्रह्मवर्चसकामस्तु तदाप्नोति न संशयः ॥ १२ ॥

तस्माद्भवद्भिर्मुनयः सन्ध्ययोरुभयोरपि ।
जप्यं स्तोत्रमिदं पुण्यं देवदेवस्य भक्तितः ॥ १३ ॥

इति श्री महादेव स्तोत्रम् ॥


इतर श्री शिव स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed