Sri Lakshmi Ashtaka Stotram – श्री लक्ष्म्यष्टक स्तोत्रम्


महालक्ष्मि भद्रे परव्योमवासि-
-न्यनन्ते सुषुम्नाह्वये सूरिजुष्टे ।
जये सूरितुष्टे शरण्ये सुकीर्ते
प्रसादं प्रपन्ने मयि त्वं कुरुष्व ॥ १ ॥

सति स्वस्ति ते देवि गायत्रि गौरि
ध्रुवे कामधेनो सुराधीश वन्द्ये ।
सुनीते सुपूर्णेन्दुशीते कुमारि
प्रसादं प्रपन्ने मयि त्वं कुरुष्व ॥ २ ॥

सदा सिद्धगन्धर्वयक्षेशविद्या-
-धरैः स्तूयमाने रमे रामरामे ।
प्रशस्ते समस्तामरी सेव्यमाने
प्रसादं प्रपन्ने मयि त्वं कुरुष्व ॥ ३ ॥

दुरितौघनिवारणे प्रवीणे
कमले भासुरभागधेय लभ्ये ।
प्रणवप्रतिपाद्यवस्तुरूपे
स्फुरणाख्ये हरिवल्लभे नमस्ते ॥ ४ ॥

सिद्धे साध्ये मन्त्रमूर्ते वरेण्ये
गुप्ते दृप्ते नित्य मुद्गीथविद्ये ।
व्यक्ते विद्वद्भाविते भावनाख्ये
भद्रे भद्रं देहि मे संश्रिताय ॥ ५ ॥

सर्वाधारे सद्गतेऽध्यात्मविद्ये
भाविन्यार्ते निर्वृतेऽध्यात्मवल्लि ।
विश्वाध्यक्षे मङ्गलावासभूमे
भद्रे भद्रं देहि मे संश्रिताय ॥ ६ ॥

अमोघसेवे निजसद्गुणौघे
विदीपितानुश्रवमूर्थभागे ।
अहेतुमीमांस्य महानुभावे
विलोकने मां विषयी कुरुष्व ॥ ७ ॥

उमाशचीकीर्तिसरस्वती धी-
-स्वाहादिनानाविधशक्तिभेदे ।
अशेषलोकाभरणस्वरूपे
विलोकने मां विषयी कुरुष्व ॥ ८ ॥

इत्यहिर्बुध्न्यसंहितायां लक्ष्म्यष्टकम् ॥


इतर श्री लक्ष्मी स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed