Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
महानीलमेघातिभाव्यं सुहासं शिवब्रह्मदेवादिभिस्संस्तुतं च ।
रमामन्दिरं देवनन्दापदाहं भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ १ ॥
रसं वेदवेदान्तवेद्यं दुरापं सुगम्यं तदीयादिभिर्दानवघ्नम् ।
चलत्कुण्डलं सोमवंशप्रदीपं भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ २ ॥
यशोदादिसंलालितं पूर्णकामं दृशोरञ्जनं प्राकृतस्थस्वरूपम् ।
दिनान्ते समायान्तमेकान्तभक्त्यै भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ ३ ॥
कृपादृष्टिसम्पातसिक्तस्वकुञ्जं तदन्तस्थितस्वीयसम्यग्दशादम् ।
पुनस्तत्र तैस्सत्कृतैकान्तलीलं भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ ४ ॥
गृहे गोपिकाभिर्धृते चौर्यकाले तदक्ष्णोश्च निक्षिप्य दुग्धं चलन्तम् ।
तदा तद्वियोगादिसम्पत्तिकारं भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ ५ ॥
चलत्कौस्तुभव्याप्तवक्षःप्रदेशं महावैजयन्तीलसत्पादयुग्मम् ।
सुकस्तूरिकादीप्तफालप्रदेशं भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ ६ ॥
गवां दोहने दृष्टराधामुखाब्जं तदानीं च तन्मेलनव्यग्रचित्तम् ।
समुत्पन्नतन्मानसैकान्तभावं भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ ७ ॥
अतः कृष्णचन्द्राष्टकं प्रेमयुक्तः पठेत्कृष्णसान्निध्यमाप्नोति नित्यम् ।
कलौ यः स संसारदुःखातिरिक्तं प्रयात्येव विष्णोः पदं निर्भयं तत् ॥ ८ ॥
इति श्रीरघुनाथाचार्यकृतं श्रीकृष्णचन्द्राष्टकम् ॥
इतर श्री कृष्ण स्तोत्राणि पश्यतु ।
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.