Sri Kali Pratah Smarana Stotram – श्री काली प्रातः स्मरण स्तोत्रम्


प्रातः स्मरामि मदिरारुणपूर्णनेत्रां
कालीं करालवदनां कमनीयमात्राम् ।
उद्यन्नितानतगतां विगतां स्वसंस्थान्
धात्रीं समस्त जगतां करुणार्द्रचित्ताम् ॥ १ ॥

प्रातर्भजामि भुजगाभरणामपर्णां
श्रीदक्षिणां ललितवाललतां सपर्णाम् ।
कारुण्यपूर्णनयनां नगराजकन्यां
धन्यां वराऽभयकरां परमार्तिहन्त्रीम् ॥ २ ॥

प्रातर्नमामि नगराजकुलोद्भवां तां
कान्तां शिवस्य करवालकपालहस्ताम् ।
त्रैलोक्यपालनपरां प्रणवादिमात्रां
नागेन्द्रहारकलितां ललितां त्रिनेत्राम् ॥ ३ ॥

श्लोकत्रयमिमं पुण्यं प्रातः प्रातः पठेन्नरः ।
तमोबुद्धिं समुत्तीर्य सपश्येत् कालिकापदम् ॥ ४ ॥

इति श्री काली प्रातः स्मरण स्तोत्रम् ।


इतर श्री कालिका स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed