Sri Harihara Ashtottara Shatanama Stotram – श्री हरिहर अष्टोत्तर शतनाम स्तोत्रम्


श्री हरिहर अष्टोत्तर शतनामावली >>

गोविन्द माधव मुकुन्द हरे मुरारे
शम्भो शिवेश शशिशेखर शूलपाणे ।
दामोदराऽच्युत जनार्दन वासुदेव
त्याज्या भटा य इति सन्ततमामनन्ति ॥ १ ॥

गङ्गाधराऽन्धकरिपो हर नीलकण्ठ
वैकुण्ठ कैटभरिपो कमठाऽब्जपाणे ।
भूतेश खण्डपरशो मृड चण्डिकेश
त्याज्या भटा य इति सन्ततमामनन्ति ॥ २ ॥

विष्णो नृसिंह मधुसूदन चक्रपाणे
गौरीपते गिरिश शङ्कर चन्द्रचूड ।
नारायणाऽसुरनिबर्हण शार्ङ्गपाणे
त्याज्या भटा य इति सन्ततमामनन्ति ॥ ३ ॥

मृत्युञ्जयोग्र विषमेक्षण कामशत्रो
श्रीकान्त पीतवसनाऽम्बुदनील शौरे ।
ईशान कृत्तिवसन त्रिदशैकनाथ
त्याज्या भटा य इति सन्ततमामनन्ति ॥ ४ ॥

लक्ष्मीपते मधुरिपो पुरुषोत्तमाद्य
श्रीकण्ठ दिग्वसन शान्त पिनाकपाणे ।
आनन्दकन्द धरणीधर पद्मनाभ
त्याज्या भटा य इति सन्ततमामनन्ति ॥ ५ ॥

सर्वेश्वर त्रिपुरसूदन देवदेव
ब्रह्मण्यदेव गरुडध्वज शङ्खपाणे ।
त्र्यक्षोरगाभरण बालमृगाङ्कमौले
त्याज्या भटा य इति सन्ततमामनन्ति ॥ ६ ॥

श्रीराम राघव रमेश्वर रावणारे
भूतेश मन्मथरिपो प्रमथाधिनाथ ।
चाणूरमर्दन हृषीकपते मुरारे
त्याज्या भटा य इति सन्ततमामनन्ति ॥ ७ ॥

शूलिन् गिरीश रजनीशकलावतंस
कंसप्रणाशन सनातन केशिनाश ।
भर्ग त्रिनेत्र भव भूतपते पुरारे
त्याज्या भटा य इति सन्ततमामनन्ति ॥ ८ ॥

गोपीपते यदुपते वसुदेवसूनो
कर्पूरगौर वृषभध्वज फालनेत्र ।
गोवर्धनोद्धरण धर्मधुरीण गोप
त्याज्या भटा य इति सन्ततमामनन्ति ॥ ९ ॥

स्थाणो त्रिलोचन पिनाकधर स्मरारे
कृष्णाऽनिरुद्ध कमलाकर कल्मषारे ।
विश्वेश्वर त्रिपथगार्द्रजटाकलाप
त्याज्या भटा य इति सन्ततमामनन्ति ॥ १० ॥

अष्टोत्तराधिकशतेन सुचारुनाम्नां
सन्दर्भितां ललितरत्नकदम्बकेन ।
सन्नायकां दृढगुणां निजकण्ठगतां यो
कुर्यादिमां स्रजमहो स यमं न पश्येत् ॥ ११ ॥

गणावूचुः –
इत्थं द्विजेन्द्र निजभृत्यगणान्सदैव
संशिक्षयेदवनिगान्स हि धर्मराजः ।
अन्येऽपि ये हरिहराङ्कधरा धरायां
ते दूरतः पुनरहो परिवर्जनीयाः ॥ १२ ॥

अगस्त्य उवाच –
यो धर्मराज रचितां ललितप्रबन्धां
नामावळिं सकलकल्मषबीजहन्त्रीम् ।
धीरोऽत्र कौस्तुभभृतः शशिभूषणस्य
नित्यं जपेत् स्तनरसं न पिबेत्स मातुः ॥ १३ ॥

इति शृण्वन्कथां रम्यां शिव शर्मा प्रियेऽनघाम् ।
प्रहर्षवक्त्रः पुरतो ददर्श सरसीं पुरीम् ॥ १४ ॥

इति श्रीस्कन्दमहापुराणे काशीखण्डपूर्वार्धे यमप्रोक्तं श्रीहरिहराष्टोत्तर शतनामस्तोत्रं सम्पूर्णम् ॥


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed