Sri Hanumath Stotram 2 (Vibhishana Krutam) – श्री हनुमत् स्तोत्रम् – २ (विभीषण कृतम्)


विभीषण उवाच ।
सीतावियुक्ते श्रीरामे शोकदुःखभयापह ।
तापत्रयाग्निसंहारिन्नाञ्जनेय नमोऽस्तु ते ॥ १ ॥

आधिव्याधिमहामारिग्रहपीडापहारिणे ।
प्राणापहर्त्रे दैत्यानां रामप्रियहितात्मने ॥ २ ॥

संसारसागरावर्तगतनिश्रान्तचेतसा ।
शरणागतसञ्जीवी सौमित्रिप्राणरक्षकः ॥ ३ ॥

सुचरित्रः सदानन्दः सर्वदा भक्तवत्सलः ।
सुरद्विषां सुसंहारी सुग्रीवानन्दवर्धनः ॥ ४ ॥

य इदं हनुमत् स्तोत्रं पठेन्नित्यं नरोत्तमः ।
सिद्ध्यन्ति सर्वकार्याणि धनधान्यसमृद्धयः ॥ ५ ॥

मृत्युदारिद्र्यनाशं च सङ्ग्रामे विजयी भवेत् ।
लाभं च राजवश्यं च सत्यं पावनकीर्तनम् ॥ ६ ॥

परं मन्त्रं परं तन्त्रं परयन्त्रं निवारयेत् ।
परविद्याविनाशं च ह्यात्ममन्त्रस्य रक्षकम् ॥ ७ ॥

इति विभीषण कृत श्री हनुमत् स्तोत्रम् ।


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed