Sri Hanuman Mangala Ashtakam – श्री हनुमान् मङ्गलाष्टकम्


वैशाखे मासि कृष्णायां दशम्यां मन्दवासरे ।
पूर्वाभाद्रा प्रभूताय मङ्गलं श्रीहनूमते ॥ १ ॥

करुणारसपूर्णाय फलापूपप्रियाय च ।
माणिक्यहारकण्ठाय मङ्गलं श्रीहनूमते ॥ २ ॥

सुवर्चलाकलत्राय चतुर्भुजधराय च ।
उष्ट्रारूढाय वीराय मङ्गलं श्रीहनूमते ॥ ३ ॥

दिव्यमङ्गलदेहाय पीताम्बरधराय च ।
तप्तकाञ्चनवर्णाय मङ्गलं श्रीहनूमते ॥ ४ ॥

भक्तरक्षणशीलाय जानकीशोकहारिणे ।
सृष्टिकारणभूताय मङ्गलं श्रीहनूमते ॥ ५ ॥

रम्भावनविहाराय गन्धमादनवासिने ।
सर्वलोकैकनाथाय मङ्गलं श्रीहनूमते ॥ ६ ॥

पञ्चाननाय भीमाय कालनेमिहराय च ।
कौण्डिन्यगोत्रजाताय मङ्गलं श्रीहनूमते ॥ ७ ॥

केसरीपुत्र दिव्याय सीतान्वेषपराय च ।
वानराणां वरिष्ठाय मङ्गलं श्रीहनूमते ॥ ८ ॥

इति श्री हनुमान् मङ्गलाष्टकम् ।


इतर श्री हनुमान् स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed