Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
गोपनारी मुखाम्भोजभास्करं वेणुवाद्यकम् ।
राधिकारसभोक्तारं गोवर्धनधरं भजे ॥ १ ॥
आभीरनगरीप्राणप्रियं सत्यपराक्रमम् ।
स्वभृत्यभयभेत्तारं गोवर्धनधरं भजे ॥ २ ॥
व्रजस्त्री विप्रयोगाग्नि निवारकमहर्निशम् ।
महामरकतश्यामं गोवर्धनधरं भजे ॥ ३ ॥
नवकञ्जनिभाक्षं च गोपीजनमनोहरम् ।
वनमालाधरं शश्वद्गोवर्धनधरं भजे ॥ ४ ॥
भक्तवाञ्छाकल्पवृक्षं नवनीतपयोमुखम् ।
यशोदामातृसानन्दं गोवर्धनधरं भजे ॥ ५ ॥
अनन्यकृतहृद्भावपूरकं पीतवाससम् ।
रासमण्डलमध्यस्थं गोवर्धनधरं भजे ॥ ६ ॥
ध्वजवज्रादिसच्चिह्न राजच्चरणपङ्कजम् ।
शृङ्गाररसमर्मज्ञं गोवर्धनधरं भजे ॥ ७ ॥
पुरुहूतमहावृष्टीर्नाशकं गोगणावृतम् ।
भक्तनेत्रचकोरेन्दुं गोवर्धनधरं भजे ॥ ८ ॥
गोवर्धनधराष्टकमिदं यः प्रपठेत् सुधीः ।
सर्वदाऽनन्यभावेन स कृष्णो रतिमाप्नुयात् ॥ ९ ॥
रचितं भक्तिलाभाय धारकानां सनातनम् ।
मुक्तिदं सर्वजन्तूनां गोवर्धनधराष्टकम् ॥ १० ॥
इति श्रीगोकुलचन्द्र कृतं गोवर्धनधराष्टकम् ॥
इतर श्री कृष्ण स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.