Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्री दक्षिणामूर्ति हृदय स्तोत्र महामन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दः श्री दक्षिणामूर्तिर्देवता श्रीदक्षिणामूर्तिप्रीत्यर्थे जपे विनियोगः ॥
आमित्यादि करहृदयादिन्यासः ।
ध्यानम् –
भस्मव्यापाण्डुराङ्गः शशिशकलधरो ज्ञानमुद्राक्षमाला-
-वीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः ।
व्याख्यापीठेनिषण्णो मुनिवरनिकरैः सेव्यमानः प्रसन्नः
सव्यालः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥
लमिति पञ्चपूजा ।
– हृदयम् –
ओं सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु । मा विद्विषावहै । ओं शान्तिः शान्तिः शान्तिः ॥
नारदमुनिर्ब्रह्माणं प्रत्याह । मत्तात लोकेश नमस्करोमि । धातारं त्वा शिरसा । मनसा वेत्सि श्री दक्षिणामूर्ति हृदयं श्रोतुमिच्छामि त्वन्मुखाम्बुजात् । सत्कृपया वद ब्रह्मन् । गुरूपासकस्य देवो भासकः । नास्त्यन्यः सत्यः तस्माद्धृदयं वदामीत्याह प्रजापतिः । मुने इदं संसृष्टं ऋग्यजुः सामाथर्वणोपनिषत् सूक्तं हृदयमिति गायन्ते चतुः षष्टि कलाविद्याः । यद्धृदयं तव वक्तेति ध्यात्वा । भक्त्या श्रद्धया गुरुमादिपूरुषम् । गुरुः सन्तुष्टो भवति । हृदयं वक्तुं क्षमो भवतीति । ध्यानाद्विरराम । असौ हृदयमित्याह । आकाशशरीरं ब्रह्मेति ज्योतिर्जायते । अथ वाऽस्याध्यात्मगोचरं भवति । अथ पिण्डाकृतिः । दक्षिणाभिमुखो वटस्थितो लीलार्थं पुरुषाकृतिर्भजते । स्वरूपाख्यो बोधयति । अणोरणीयानिति श्रुत्या गुरुमूर्तिः स्मृतः । प्रणवं प्रथममन्यद्वेदाः चत्वारो विद्याश्चतुष्षष्टिः ज्ञानम् । सत्यं तपः शमः । धर्मो दमः । श्रद्धा भक्तिः । प्रज्ञा माया इत्यादयो बहवो जायन्ते । अपरिच्छेद्यमयः । अवयवेषु किं भवति । अहं दक्षिणो विष्णुः सव्यभागः । मध्यमः शिवः । त्रिमूर्तिः सम्पृक्तो दक्षिणामूर्तिः । अथ त्रिमूर्तयः । सात्त्विक राजस तामसाः । तस्यैव कथं अहं रजः । सात्त्विको विष्णुः । तामसः शिवः । उमा शक्तिरूपम् । किं विनियोगः । अहं स्रष्टा । विष्णुर्गोप्ता । शिवो हन्ता । ब्रह्म विष्णु शिवात्मको गुरुः वेदान्ते च प्रतिष्ठितः । रोमस्थाः शिरसो वेदाः प्रवर्तन्ते मुनयो गात्ररोमजाः । मुखाश्चतुर्वेदाश्चतुःषष्टिकलाः सप्तकोटि महामन्त्राः । मुखाद्र्बाह्मणो भवति । बाह्वो राजन्यः । ऊर्वोर्वैश्यः । पद्भ्याग्ं शूद्रो अजायत । चन्द्रमा मनसो जातः । तथा लोकाग्ं अकल्पयन् । अर्क वह्नि द्विजाधिप चक्षूंष्यास्ये वर्तन्ते । गिरो वेदाः । रजसं अस मलिनम् । रेतो हिरण्यम् । पृष्ठभागाच्छुक्रशिष्या वर्तन्ते । जिह्वायां किन्नराः । दन्ताः पितरः । साध्याः जटाः । यक्षाः आस्ये । स्वेदाद्वीरभटाः । पदोः त्रिस्रोता वर्ततो । शास्य मौलिमाला । जङ्घाद्धरा । गावः पादाङ्गुष्ठात् । किमस्यायुधम् । मेरुर्भवति । शेषोऽस्यतल्पः । कटकोऽनन्तः । यज्ञसूत्रं वासुकिः । कटिसूत्रं तक्षकः । हारः कर्कटको भवति । पद्मकः कुण्डलः । महस्ताटङ्कम् । ऋक्षा मालाभवन्ति । भस्म च चन्दनम् । शिरोमणिः कौस्तुभम् । अपस्मारः पाशोऽस्य । फालाक्षिवीक्षणात् कामोऽनङ्गो भवति । त्रिपुरं च यमः । पादात्ताडितः । वामबाह्वोः पुस्तकं वह्निः । दक्षिणयोश्चिन्मुद्रा सुधाघटः । रूपं परब्रह्म । अम्बरं दिक् । शुक्लवर्णम् । सदानन्दो भवति । वट आधारोऽस्य । प्रलयच्छिदा दक्षिणामूर्तिः । परब्रह्मतत्त्वम् । ज्ञानमूर्तिः । परः यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य दक्षिणामूर्तिः स्थितः नमो नमः कारणकारणाय नमो नमो मङ्गल मङ्गलात्मने । नमो नमो वेदविदां मनीषिणे उपासनीयाय च वै नमो नमः । ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम् । हिरण्यबाहुं पशूनां पतिं अम्बिकायाश्च नमस्करोमि । महाज्ञानं ज्ञानमूर्तिं नमस्करोमि । तत्त्वमूर्तिं तत्त्वमद्वयं ब्रह्माणं नमस्करोमि । वेदवेद्यं स्वामिनं विद्यादायिनं नमस्करोमि । ज्ञाननाथं जगद्गुरुं मोक्षदं नमस्करोमि । स्वयम्प्रकाशं तपोगुह्यं नमस्करोमि । कालकालान्तकं भवच्छेत्तारं नमस्करोमि । भस्मभूषं शुद्धं स्मरहन्तारं नमस्करोमि । वटमूलनिवासिनं हृदयस्थं दक्षिणामूर्तिं नमस्करोमि । शशिमौलिनं धूर्जटिं गङ्गाधरं नमस्करोमि । महादेवं गुरुं देवदेवं नमस्करोमि । लोकेशं चिरं परमात्मानं नमस्करोमि । वृषभवाहनं शिवं विद्यारूपिणं नमस्करोमि । आनन्ददं योगपीठं परमानन्दं नमस्करोमि । शितिकण्ठं रौद्रं सहस्राक्षं नमस्करोमि । भक्तसेव्यं शम्भुमर्धनारीश्वरं नमस्करोमि । सुधापाणिनं शिवं कृपानिधिं नमस्करोमि ॥
नमो नमो ज्ञानविभूषणाय नमो नमो भोगनिर्वाणहेतवे । नमो नमः परमपुरुषाय तुभ्यं नमो नमो योगगम्याय ते नमः । नमो नमो विश्वसृजे तु तुभ्यं नमो नमो विश्वगोप्त्रे च ते नमः । नमो नमो विश्वहर्त्रे परस्मै नमो नमस्तत्त्वमयाय ते नमः । नमो नमो दक्षिणामूर्तये परस्मै नमो नमो गुरुरूपाय ते नमः । नमो नमो भक्तिगम्याय तुभ्यं नमो नमो भक्तसेव्याय ते नमः ॥
य इदं हृदयं शम्भोर्ब्राह्मणः प्रयतः पठेत् । चतुर्वेद षट्छास्त्रविद्भवति । चतुष्षष्टि कलाविद्या पारगो भवति । आत्मानं वेदयति । ऋग्यजुः सामाथर्वण शीक्षा व्याकरण श्रौत स्मार्त महास्मृतयो गौतमधर्मादय उपनिषन्नाटकालङ्कार चूर्णिका गद्य कविता दयः महाभाष्य वेदान्त तर्क भाट्ट प्रभाकर भरत शास्त्र मन्त्रागमाश्व गो गजशास्त्राणीत्यादयः सर्वाश्चतुष्षष्टिविद्यास्तस्य वाचि एव नृत्यं ते । देवैः सर्वैः सेवितो भवति । एतद्धृदयं ब्राह्मणान् सम्यग्ग्राहयेत् । सोऽपि निर्वाणभूतः स्यात् । पक्षस्यैकवारं यो विप्रः प्रयतः पठेत् । तत्पक्षकृतपापान्मुक्तो भवति । मासस्यैकवारं यो विप्रः प्रयतः पठेत् । तन्मासकृतपापान्मुक्तो भवति । अथवा वर्षस्यैकवारं यो विप्रः प्रयतः पठेत् । तद्वर्षकृतपापान्मुक्तो भवति । अथवा जन्मन्येकवारं यो विप्रः प्रयतः पठेत् । तज्जन्मकृतपापान्मुक्तो भवति । मोक्षं प्रयाति । एतद्धृदयं ब्राह्मणत्रयं धारयेत् । विशिष्टः समानानां भवति । गुर्वन्तेवासिनौ समौ भवतः । गुरोः सायुज्यमवाप्नोति । बन्धुभिः सह वाक्यैकवाक्यार्थप्रयतो धारयेत् । गुरोर्नहीयत इत्याह भगवान् अथर्वेश्वर ब्राह्मणान् ॥
ओं सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु । मा विद्विषावहै । ओं शान्तिः शान्तिः शान्तिः ॥
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

