Sri Chandra Ashtottara Shatanama Stotram – श्री चन्द्र अष्टोत्तरशतनाम स्तोत्रम्


श्रीमान् शशधरश्चन्द्रो ताराधीशो निशाकरः ।
सुधानिधिः सदाराध्यः सत्पतिः साधुपूजितः ॥ १ ॥

जितेन्द्रियो जगद्योनिः ज्योतिश्चक्रप्रवर्तकः ।
विकर्तनानुजो वीरो विश्वेशो विदुषां पतिः ॥ २ ॥

दोषाकरो दुष्टदूरः पुष्टिमान् शिष्टपालकः ।
अष्टमूर्तिप्रियोऽनन्तकष्टदारुकुठारकः ॥ ३ ॥

स्वप्रकाशः प्रकाशात्मा द्युचरो देवभोजनः ।
कलाधरः कालहेतुः कामकृत्कामदायकः ॥ ४ ॥

मृत्युसंहारकोऽमर्त्यो नित्यानुष्ठानदायकः ।
क्षपाकरः क्षीणपापः क्षयवृद्धिसमन्वितः ॥ ५ ॥

जैवातृकः शुची शुभ्रो जयी जयफलप्रदः ।
सुधामयः सुरस्वामी भक्तनामिष्टदायकः ॥ ६ ॥

भुक्तिदो मुक्तिदो भद्रो भक्तदारिद्र्यभञ्जकः ।
सामगानप्रियः सर्वरक्षकः सागरोद्भवः ॥ ७ ॥

भयान्तकृद्भक्तिगम्यो भवबन्धविमोचकः ।
जगत्प्रकाशकिरणो जगदानन्दकारणः ॥ ८ ॥

निस्सपत्नो निराहारो निर्विकारो निरामयः ।
भूच्छायाऽऽच्छादितो भव्यो भुवनप्रतिपालकः ॥ ९ ॥

सकलार्तिहरः सौम्यजनकः साधुवन्दितः ।
सर्वागमज्ञः सर्वज्ञो सनकादिमुनिस्तुतः ॥ १० ॥

सितच्छत्रध्वजोपेतः सिताङ्गो सितभूषणः ।
श्वेतमाल्याम्बरधरः श्वेतगन्धानुलेपनः ॥ ११ ॥

दशाश्वरथसंरूढो दण्डपाणिः धनुर्धरः ।
कुन्दपुष्पोज्ज्वलाकारो नयनाब्जसमुद्भवः ॥ १२ ॥

आत्रेयगोत्रजोऽत्यन्तविनयः प्रियदायकः ।
करुणारससम्पूर्णः कर्कटप्रभुरव्ययः ॥ १३ ॥

चतुरश्रासनारूढश्चतुरो दिव्यवाहनः ।
विवस्वन्मण्डलाग्नेयवासो वसुसमृद्धिदः ॥ १४ ॥

महेश्वरप्रियो दान्तः मेरुगोत्रप्रदक्षिणः ।
ग्रहमण्डलमध्यस्थो ग्रसितार्को ग्रहाधिपः ॥ १५ ॥

द्विजराजो द्युतिलको द्विभुजो द्विजपूजितः ।
औदुम्बरनगावास उदारो रोहिणीपतिः ॥ १६ ॥

नित्योदयो मुनिस्तुत्यो नित्यानन्दफलप्रदः ।
सकलाह्लादनकरः पलाशसमिधप्रियः ॥ १७ ॥

एवं नक्षत्रनाथस्य नाम्नामष्टोत्तरं शतम् ॥

इति श्री चन्द्र अष्टोत्तरशतनाम स्तोत्रम् ।


इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed