Sri Budha Stotram 1 – श्री बुध स्तोत्रम् – १


नमो बुधाय विज्ञाय सोमपुत्राय ते नमः ।
रोहिणीगर्भसम्भूत कुङ्कुमच्छविभूषित ॥ १ ॥

सोमप्रियसुताऽनेकशास्त्रपारगवित्तम ।
रौहिणेय नमस्तेऽस्तु निशाकामुकसूनवे ॥ २ ॥

पीतवस्त्रपरीधान स्वर्णतेजोविराजित ।
सुवर्णमालाभरण स्वर्णदानकरप्रिय ॥ ३ ॥

नमोऽप्रतिमरूपाय रूपानां प्रियकारिणे ।
विष्णुभक्तिमते तुभ्यं चेन्दुराजप्रियङ्कर ॥ ४ ॥

सिंहासनस्थो वरदः कर्णिकारसमद्युतिः ।
खड्गचर्मगदापाणिः सौम्यो वोऽस्तु सुखप्रदः ॥ ५ ॥

स्थिरासनो महाकायः सर्वकर्मावबोधकः ।
विष्णुप्रियो विश्वरूपो महारूपो ग्रहेश्वरः ॥ ६ ॥

बुधाय विष्णुभक्ताय महारूपधराय च ।
सोमात्मजस्वरूपाय पीतवस्त्रप्रियाय च ॥ ७ ॥

अग्रवेदी दीर्घश्मश्रुर्हेमाङ्गः कुङ्कुमच्छविः ।
सर्वज्ञः सर्वदः सर्वः सर्वपूज्यो ग्रहेश्वरः ॥ ८ ॥

सत्यवादी खड्गहस्तो ग्रहपीडानिवारकः ।
सृष्टिकर्ताऽपहर्ता च सर्वकामफलप्रदः ॥ ९ ॥

एतानि बुधनामानि प्रातरुत्थाय यः पठेत् ।
न भयं विद्यते तस्य कार्यसिद्धिर्भविष्यति ॥ १० ॥

इत्येतत् स्तोत्रमुत्थाय प्रभाते पठते नरः ।
न तस्य पीडा बाधन्ते बुद्धिभाक्च भवेत्सुधीः ॥ ११ ॥

सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।
बुधो बुद्धिप्रदाता च सोमपुत्रो महाद्युतिः ।
आदित्यस्य रथे तिष्ठन् स बुधः प्रीयतां मम ॥ १२ ॥

इति श्री बुध स्तोत्रम् ।


इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed