Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
बुधो बुद्धिमतां श्रेष्ठः बुद्धिदाता धनप्रदः ।
प्रियङ्गुकलिकाश्यामः कञ्जनेत्रो मनोहरः ॥ १ ॥
ग्रहपमो रौहिणेयः नक्षत्रेशो दयाकरः ।
विरुद्धकार्यहन्ता च सौम्यो बुद्धिविवर्धनः ॥ २ ॥
चन्द्रात्मजो विष्णुरूपी ज्ञानिज्ञो ज्ञानिनायकः ।
ग्रहपीडाहरो दारपुत्रधान्यपशुप्रदः ॥ ३ ॥
लोकप्रियः सौम्यमूर्तिः गुणदो गुणिवत्सलः ।
पञ्चविंशतिनामानि बुधस्यैतानि यः पठेत् ॥ ४ ॥
स्मृत्वा बुधं सदा तस्य पीडा सर्वा विनश्यति ।
तद्दिने वा पठेद्यस्तु लभते स मनोगतम् ॥ ५ ॥
इतर नवग्रह स्तोत्राणि पश्यतु ।
Report mistakes and corrections in Stotranidhi content.
Facebook Comments