Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ श्रीभगवत्याः पीताम्बरायाः बगलामुखी देवतायाः प्रसाद सिद्ध्यर्थं, न्यायालये अस्मत् पक्ष विजयार्थं, नाना ग्रहोपग्रह प्रयोग शान्त्यर्थे, दुष्टरोग निवारणद्वारा शीघ्रमारोग्य सिद्ध्यर्थं यथाशक्ति श्रीसूक्त विधानेन श्रीबगलामुखी देवि पूजां करिष्ये ॥
ध्यानम् –
सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोल्लासिनीं
हेमाभाङ्गरुचिं शशाङ्कमुकुटां सच्चम्पकस्रग्युताम् ।
हस्तैर्मुद्गरपाशबद्धरसनां सम्बिभ्रतीं भूषणै-
-र्व्याप्ताङ्गीं बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तये ॥ १ ॥
मध्ये सुधाब्धिमणिमण्डपरत्नवेद्यां
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यविभूषिताङ्गीं
देवीं स्मरामि धृतमुद्गरवैरिजिह्वाम् ॥ २ ॥
जिह्वाग्रमादाय करेण देवीं
वामेन शत्रून् परिपीडयन्तीम् ।
गदाभिघातेन च दक्षिणेन
पीताम्बराढ्यां द्विभुजां नमामि ॥ ३ ॥
ओं श्रीबगलामुख्यै नमः ध्यायामि । ध्यानम् समर्पयामि ।
आवाहनम् –
हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥
आगच्छ त्वं महादेवि स्थाने चाऽत्र स्थिरा भव ।
यावत् पूजां करिष्यामि तावत् त्वं सन्निधौ भव ॥
ओं श्रीबगलामुख्यै नमः आवाहयामि ।
आसनम् –
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥
अनेकरत्नसम्युक्तं नानामणिगणान्वितम् ।
इदं हेममयं दिव्यमासनं प्रतिगृह्यताम् ॥
ओं श्रीबगलामुख्यै नमः नवरत्नखचित सुवर्ण सिंहासनं समर्पयामि ।
पाद्यम् –
अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑दप्र॒बोधि॑नीम् ।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षताम् ॥
गङ्गादिसर्वतीर्थेभ्य आनीतं तोयमुत्तमम् ।
पाद्यार्थं ते प्रदास्यामि गृहाण परमेश्वरि ॥
ओं श्रीबगलामुख्यै नमः पादयो पाद्यं समर्पयामि ।
अर्घ्यम् –
कां॒ सो᳚स्मि॒तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।
प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥
गन्धपुष्पाक्षतैर्युक्तमर्घ्यं सम्पादितं मया ।
गृहाण त्वं महादेवि प्रसन्ना भव सर्वदा ॥
ओं श्रीबगलामुख्यै नमः हस्तयोः अर्घ्यं समर्पयामि ।
आचमनीयम् –
च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥
कर्पूरेण सुगन्धेन वासितं स्वादु शीतलम् ।
तोयमाचमनीयार्थं गृहाण परमेश्वरि ॥
ओं श्रीबगलामुख्यै नमः मुखे आचमनीयं समर्पयामि ।
पञ्चामृत स्नानम् –
क्षीरम् –
कामधेनुसमुत्पन्नं सर्वेषां जीवनं परम् ।
पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ॥
ओं श्रीबगलामुख्यै नमः क्षीरस्नानं समर्पयामि ।
दधि –
पयसस्तु समुद्भूतं मधुराम्लं शशीप्रभम् ।
दध्यानीतं महादेवि स्नानार्थं प्रतिगृह्यताम् ॥
ओं श्रीबगलामुख्यै नमः दधिस्नानं समर्पयामि ।
घृतम् –
नवनीतं समुत्पन्नं सर्वसन्तोषकारकम् ।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥
ओं श्रीबगलामुख्यै नमः घृतस्नानं समर्पयामि ।
मधु –
पुष्परेणु समुत्पन्नं सुस्वादु मधुरं मधु ।
तेजः पुष्टि समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥
ओं श्रीबगलामुख्यै नमः मधुस्नानं समर्पयामि ।
शर्करा –
इक्षुसारसमुद्भूतं शर्करां पुष्टिदां शुभाम् ।
मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ॥
ओं श्रीबगलामुख्यै नमः शर्करास्नानं समर्पयामि ।
पयो दधि घृतं चैव मधुशर्कर सम्युतम् ।
पञ्चामृतं मयाऽऽनीतं स्नानार्थं प्रतिगृह्यताम् ॥
ओं श्रीबगलामुख्यै नमः पञ्चामृतस्नानं समर्पयामि ।
गन्धोदक स्नानम् –
मलयाचलसम्भूतं चन्दनागरुमिश्रितम् ।
सलिलं देवदेवेशि शुद्धं स्नानाय गृह्यताम् ॥
ओं श्रीबगलामुख्यै नमः गन्धोदकस्नानं समर्पयामि ।
शुद्धोदकस्नानम् –
आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः ।
तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥
शुद्धं यत् सलिलं दिव्यं गङ्गाजल समं स्मृतम् ।
समर्पितं मया भक्त्या स्नानार्थं प्रतिगृह्यताम् ॥
ओं श्रीबगलामुख्यै नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानन्तरं आचमनीयं समर्पयामि ।
वस्त्रम् –
उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे ॥
पट्टयुग्मं मया दत्तं कञ्चुकेन समन्वितम् ।
परिधेहि कृपां कृत्वा मातः श्रीबगलामुखि ॥
ओं श्रीबगलामुख्यै नमः वस्त्रयुग्मं समर्पयामि ।
यज्ञोपवीतम् –
क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम॑ल॒क्ष्मीं ना॑शया॒म्यहम् ।
अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा॑त् ॥
स्वर्णसूत्रमयं दिव्यं ब्रह्मणा निर्मितं पुरा ।
उपवीतं मया दत्तं गृहाण बगलामुखि ॥
ओं श्रीबगलामुख्यै नमः यज्ञोपवीतं समर्पयामि ।
गन्धम् –
ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरी॑ग्ं सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठे चन्दनं प्रतिगृह्यताम् ॥
ओं श्रीबगलामुख्यै नमः श्रीचन्दनं समर्पयामि ।
ओं श्रीबगलामुख्यै नमः हरिद्रा कुङ्कुम कज्जल कस्तूरी गोरोजनादि सुगन्ध द्रव्याणि समर्पयामि ।
आभरणम् –
मन॑स॒: काम॒माकू॑तिं वा॒चः स॒त्यम॑शीमहि ।
प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒ यश॑: ॥
हार कङ्कण केयूर मेखला कुण्डलादिभिः ।
रत्नाढ्यं हीरकोपेतं भूषणं प्रतिगृह्यताम् ॥
ओं श्रीबगलामुख्यै नमः सर्वाभरणानि समर्पयामि ।
पुष्पाणि –
क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम ।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥
मन्दारपारिजातादिपाटलं केतकानि च ।
जातीचम्पकपुष्पाणि गृहाणेमानि शोभने ॥
ओं श्रीबगलामुख्यै नमः पुष्पं समर्पयामि ।
धूपम् –
आप॑: सृ॒जन्तु॑ स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे ।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
ओं श्रीबगलामुख्यै नमः धूपं आघ्रापयामि ।
दीपम् –
आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ पि॒ङ्ग॒लां प॑द्ममा॒लिनीम्।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥
साज्यं च वर्ति सम्युक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेशि त्रैलोक्यतिमिरापहम् ॥
ओं श्रीबगलामुख्यै नमः दीपं दर्शयामि ।
नैवेद्यम् –
आ॒र्द्रां य॒: करि॑णीं य॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम् ।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आवह ॥
अन्नं चतुर्विधं स्वादुरसैः षड्भिः समन्वितम् ।
नैवेद्यं गृह्यतां देवि भक्तिं मे ह्यचलां कुरु ॥
ओं श्रीबगलामुख्यै नमः नैवेद्यं समर्पयामि ।
ताम्बूलम् –
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हि॑रण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा᳚न्वि॒न्देयं॒ पुरु॑षान॒हम् ॥
एला लवङ्ग कस्तूरी कर्पूरैः पुष्पवासितम् ।
वीटिकां मुखवासार्थमर्पयामि सुरेश्वरि ॥
ओं श्रीबगलामुख्यै नमः ताम्बूलं समर्पयामि ।
नीराजनम् –
यः शुचि॒: प्रय॑तो भू॒त्वा जु॒हुया᳚दाज्य॒ मन्व॑हम् ।
श्रिय॑: प॒ञ्चद॑शर्चं॒ च श्री॒काम॑: सत॒तं ज॑पेत् ॥
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् ।
आरार्तिकमहं कुर्वे पश्य मां वरदा भव ॥
ओं श्रीबगलामुख्यै नमः कर्पूर नीराजनं समर्पयामि ।
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि । नमस्करोमि ।
मन्त्रपुष्पम् –
ओं श्रीबगलामुख्यै नमः सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि ।
प्रदक्षिण –
यानिकानि च पापानि जन्मान्तरकृतानि च
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ।
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहिमां कृपया देवी शरणागतवत्सले ।
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष सुरेश्वरी ।
ओं श्रीबगलामुख्यै नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।
साष्टाङ्ग नमस्कारम् –
नमः सर्वहितार्थायै जगदाधार हेतवे ।
साष्टाङ्गोऽयं प्रणामस्तु प्रयत्नेन मया कृतः ॥
ओं श्रीबगलामुख्यै नमः साष्टाङ्ग नमस्कारां समर्पयामि ।
प्रार्थना –
आराध्ये जगदम्ब दिव्यकविभिः सामाजिकैः स्तोतृभिः
माल्यैश्चन्दनकुङ्कुमैः परिमलैरभ्यर्चिते सादरात् ।
सम्यङ् न्यासि समस्तभूतनिवहे सौभाग्यशोभाप्रदे
श्रीमुग्धे बगले प्रसीद विमले दुःखापहे पाहि माम् ॥
ओं श्रीबगलामुख्यै नमः प्रार्थना नमस्कारान् समर्पयामि ।
क्षमाप्रार्थना –
अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरी ।
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि क्षमस्व परमेश्वरी ।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वरी ।
यत्पूजितं मया देवी परिपूर्णं तदस्तुते ।
समर्पणम् –
अनया श्रीसूक्त विधान पूर्वक ध्यान आवाहनादि षोडशोपचार पूजया भगवती सर्वात्मिका श्रीबगलामुखी देवी सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥
तीर्थप्रसाद ग्रहणम् –
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्रीबगलामुखी पादोदकं पावनं शुभम् ॥
श्रीबगलामुख्यै नमः प्रसादं शिरसा गृह्णामि ।
विसर्जनम् –
इदं पूजा मया देवि यथाशक्त्युपपादिताम् ।
रक्षार्थं त्वं समदाय व्रजस्थानमनुत्तमम् ॥
ओं श्री प्रत्यङ्गिरा देवतायै नमः यथास्थानमुद्वासयामि ।
ओं शान्तिः शान्तिः शान्तिः ॥
इतर श्री बगलामुखी स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

