Sri Bagalamukhi Digbandhana Raksha Stotram – श्री बगलामुखी दिग्बन्धन रक्षा स्तोत्रम्



ब्रह्मास्त्रं प्रवक्ष्यामि बगलां नारदसेविताम् ।
देवगन्धर्वयक्षादि सेवितपादपङ्कजाम् ॥

त्रैलोक्यस्तम्भिनी विद्या सर्वशत्रुवशङ्करी आकर्षणकरी उच्चाटनकरी विद्वेषणकरी जारणकरी मारणकरी जृम्भणकरी स्तम्भनकरी ब्रह्मास्त्रेण सर्ववश्यं कुरु कुरु ओं ह्लीं बगलामुखि हुं फट् स्वाहा ॥

ओं ह्लीं द्राविणि भ्रामिणि एहि-एहि सर्वभूतान् उच्चाटय-उच्चाटय सर्वदुष्टान् निवारय-निवारय भूत प्रेत पिशाच डाकिनी शाकिनीः छिन्धि-छिन्धि खड्गेन भिन्धि-भिन्धि मुद्गरेण संमारय संमारय, दुष्टान् भक्षय-भक्षय, सर्वसैन्यं कीलय-कीलय मुखस्तम्भनं कुरु-कुरु ओं ह्लीं बगलामुखि हुं फट् स्वाहा ॥

आत्मा रक्षा ब्रह्म रक्षा विष्णु रक्षा रुद्र रक्षा इन्द्र रक्षा अग्नि रक्षा यम रक्षा नैरृत रक्षा वरुण रक्षा वायु रक्षा कुबेर रक्षा ईशान रक्षा सर्व रक्षा भूत-प्रेत-पिशाच-डाकिनी-शाकिनी रक्षा अग्निवेताल रक्षा गण गन्धर्व रक्षा तस्मात् सर्वरक्षां कुरु-कुरु, व्याघ्र-गज-सिंह रक्षा रण तस्कर रक्षा तस्मात् सर्वान् बन्धयामि ओं ह्लीं बगलामुखि हुं फट् स्वाहा ॥

ओं ह्लीं बगलामुखि सर्वदुष्टानां वाचं मुखं पदं स्तम्भय जिह्वां कीलय बुद्धिं विनाशय ह्लीं ओं स्वाहा ॥

ओं ऐं ह्रीं श्रीं बगलामुखि एहि-एहि पूर्वदिशायां बन्धय-बन्धय इन्द्रस्य मुखं स्तम्भय-स्तम्भय इन्द्रशस्त्रं निवारय-निवारय सर्वसैन्यं कीलय-कीलय पच-पच मथ-मथ मर्दय-मर्दय ओं ह्लीं वश्यं कुरु-कुरु ओं ह्लां बगलामुखि हुं फट् स्वाहा ॥

ओं ऐं ह्रीं श्रीं पीताम्बरे एहि-एहि अग्निदिशायां बन्धय-बन्धय अग्निमुखं स्तम्भय-स्तम्भय अग्निशस्त्रं निवारय-निवारय सर्वसैन्यं कीलय-कीलय पच-पच मथ-मथ मर्दय-मर्दय ओं ह्लीं अग्निस्तम्भं कुरु-कुरु ओं ह्लां बगलामुखि हुं फट् स्वाहा ॥

ओं ऐं ह्रीं श्रीं महिषमर्दिनि एहि-एहि दक्षिणदिशायां बन्धय-बन्धय यमस्य मुखं स्तम्भय-स्तम्भय यमशस्त्रं निवारय-निवारय सर्वसैन्यं कीलय-कीलय पच-पच मथ-मथ मर्दय-मर्दय ओं ह्लीं जृम्भणं कुरु-कुरु ओं ह्लां बगलामुखि हुं फट् स्वाहा ॥

ओं ऐं ह्रीं श्रीं चण्डिके एहि-एहि नैरृत्यदिशायां बन्धय-बन्धय नैरृत्य मुखं स्तम्भय-स्तम्भय नैरृत्यशस्त्रं निवारय-निवारय सर्वसैन्यं कीलय-कीलय पच-पच मथ-मथ मर्दय-मर्दय ओं ह्लीं वश्यं कुरु-कुरु ओं ह्लां बगलामुखि हुं फट् स्वाहा ॥

ओं ऐं ह्रीं श्रीं करालनयने एहि-एहि पश्चिमदिशायां बन्धय-बन्धय वरुण मुखं स्तम्भय-स्तम्भय वरुणशस्त्रं निवारय-निवारय सर्वसैन्यं कीलय-कीलय पच-पच मथ-मथ मर्दय-मर्दय ओं ह्लीं वश्यं कुरु-कुरु ओं ह्लां बगलामुखि हुं फट् स्वाहा ॥

ओं ऐं ह्रीं श्रीं कालिके एहि-एहि वायव्यदिशायां बन्धय-बन्धय वायु मुखं स्तम्भय-स्तम्भय वायुशस्त्रं निवारय-निवारय सर्वसैन्यं कीलय-कीलय पच-पच मथ-मथ मर्दय-मर्दय ओं ह्लीं वश्यं कुरु-कुरु ओं ह्लां बगलामुखि हुं फट् स्वाहा ॥

ओं ऐं ह्रीं श्रीं महात्रिपुरसुन्दरि एहि-एहि उत्तरदिशायां बन्धय-बन्धय कुबेर मुखं स्तम्भय-स्तम्भय कुबेरशस्त्रं निवारय-निवारय सर्वसैन्यं कीलय-कीलय पच-पच मथ-मथ मर्दय-मर्दय ओं ह्लीं वश्यं कुरु-कुरु ओं ह्लां बगलामुखि हुं फट् स्वाहा ॥

ओं ऐं ऐं महाभैरवि एहि-एहि ईशानदिशायां बन्धय-बन्धय ईशान मुखं स्तम्भय-स्तम्भय ईशानशस्त्रं निवारय-निवारय सर्वसैन्यं कीलय-कीलय पच-पच मथ-मथ मर्दय-मर्दय ओं ह्लीं वश्यं कुरु-कुरु ओं ह्लां बगलामुखि हुं फट् स्वाहा ॥

ओं ऐं ऐं गाङ्गेश्वरि एहि-एहि ऊर्ध्वदिशायां बन्धय-बन्धय ब्रह्माणं चतुर्मुखं मुखं स्तम्भय-स्तम्भय ब्रह्मशस्त्रं निवारय-निवारय सर्वसैन्यं कीलय-कीलय पच-पच मथ-मथ मर्दय-मर्दय ओं ह्लीं वश्यं कुरु-कुरु ओं ह्लां बगलामुखि हुं फट् स्वाहा ॥

ओं ऐं ऐं ललितादेवि एहि-एहि अन्तरिक्षदिशायां बन्धय-बन्धय विष्णु मुखं स्तम्भय-स्तम्भय विष्णुशस्त्रं निवारय-निवारय सर्वसैन्यं कीलय-कीलय पच-पच मथ-मथ मर्दय-मर्दय ओं ह्लीं वश्यं कुरु-कुरु ओं ह्लां बगलामुखि हुं फट् स्वाहा ॥

ओं ऐं ऐं चक्रधारिणि एहि-एहि अधोदिशायां बन्धय-बन्धय वासुकि मुखं स्तम्भय-स्तम्भय वासुकिशस्त्रं निवारय-निवारय सर्वसैन्यं कीलय-कीलय पच-पच मथ-मथ मर्दय-मर्दय ओं ह्लीं वश्यं कुरु-कुरु ओं ह्लां बगलामुखि हुं फट् स्वाहा ॥

दुष्टमन्त्रं दुष्टयन्त्रं दुष्टपुरुषं बन्धयामि शिखां बन्ध ललाटं बन्ध भ्रुवौ बन्ध नेत्रे बन्ध कर्णौ बन्ध नसौ बन्ध ओष्ठौ बन्ध अधरौ बन्ध जिह्वां बन्ध रसनां बन्ध बुद्धिं बन्ध कण्ठं बन्ध हृदयं बन्ध कुक्षिं बन्ध हस्तौ बन्ध नाभिं बन्ध लिङ्गं बन्ध गुह्यं बन्ध ऊरू बन्ध जानू बन्ध जङ्घे बन्ध गुल्फौ बन्ध पादौ बन्ध स्वर्ग मृत्यु पातालं बन्ध-बन्ध रक्ष-रक्ष ओं ह्लीं वश्यं कुरु-कुरु ओं ह्लीं बगलामुखि हुं फट् स्वाहा ॥

ओं ऐं ऐं ओं ह्लीं बगलामुखि इन्द्राय सुराधिपतये ऐरावतवाहनाय श्वेतवर्णाय वज्रहस्ताय सपरिवाराय एहि-एहि मम विघ्नान् निरासय-निरासय विभञ्जय-विभञ्जय ओं ह्लीं अमुकस्य मुखं स्तम्भय-स्तम्भय ओं ह्लीं अमुकस्य मुखं भेदय-भेदय ओं ह्लीं वश्यं कुरु-कुरु ओं ह्लीं बगलामुखि हुं फट् स्वाहा ॥

ओं ऐं ऐं ओं ह्लीं बगलामुखि अग्नये तेजोधिपतये छागवाहनाय रक्तवर्णाय शक्तिहस्ताय सपरिवाराय एहि-एहि मम विघ्नान् विभञ्जय-विभञ्जय ओं ह्लीं अमुकस्य मुखं स्तम्भय-स्तम्भय ओं ह्लीं अमुकस्य मुखं भेदय-भेदय ओं ह्लीं वश्यं कुरु-कुरु ओं ह्लीं बगलामुखि हुं फट् स्वाहा ॥

ओं ऐं ऐं ओं ह्लीं बगलामुखि यमाय प्रेताधिपतये महिषवाहनाय कृष्णवर्णाय दण्डहस्ताय सपरिवाराय एहि-एहि मम विघ्नान् विभञ्जय-विभञ्जय ओं ह्लीं अमुकस्य मुखं स्तम्भय-स्तम्भय ओं ह्लीं अमुकस्य मुखं भेदय-भेदय ओं ह्लीं वश्यं कुरु-कुरु ओं ह्लीं बगलामुखि हुं फट् स्वाहा ॥

ओं ऐं ऐं ओं ह्लीं बगलामुखि वरूणाय जलाधिपतये मकरवाहनाय श्वेतवर्णाय पाशहस्ताय सपरिवाराय एहि-एहि मम विघ्नान् विभञ्जय-विभञ्जय ओं ह्लीं अमुकस्य मुखं स्तम्भय-स्तम्भय ओं ह्लीं अमुकस्य मुखं भेदय-भेदय ओं ह्लीं वश्यं कुरु-कुरु ओं ह्लीं बगलामुखि हुं फट् स्वाहा ॥

ओं ऐं ऐं ओं ह्लीं बगलामुखि वायव्याय मृगवाहनाय धूम्रवर्णाय ध्वजाहस्ताय सपरिवाराय एहि-एहि मम विघ्नान् विभञ्जय-विभञ्जय ओं ह्लीं अमुकस्य मुखं स्तम्भय-स्तम्भय ओं ह्लीं अमुकस्य मुखं भेदय-भेदय ओं ह्लीं वश्यं कुरु-कुरु ओं ह्लीं बगलामुखि हुं फट् स्वाहा ॥

ओं ऐं ऐं ओं ह्लीं बगलामुखि ईशानाय भूताधिपतये वृषवाहनाय कर्पूरवर्णाय त्रिशूलहस्ताय सपरिवाराय एहि-एहि मम विघ्नान् विभञ्जय-विभञ्जय ओं ह्लीं अमुकस्य मुखं स्तम्भय-स्तम्भय ओं ह्लीं अमुकस्य मुखं भेदय-भेदय ओं ह्लीं वश्यं कुरु-कुरु ओं ह्लीं बगलामुखि हुं फट् स्वाहा ॥

ओं ऐं ऐं ओं ह्लीं बगलामुखि ब्रह्मणे ऊर्ध्वदिग्लोकपालाधिपतये हंसवाहनाय श्वेतवर्णाय कमण्डलुहस्ताय सपरिवाराय एहि-एहि मम विघ्नान् विभञ्जय-विभञ्जय ओं ह्लीं अमुकस्य मुखं स्तम्भय-स्तम्भय ओं ह्लीं अमुकस्य मुखं भेदय-भेदय ओं ह्लीं वश्यं कुरु-कुरु ओं ह्लीं बगलामुखि हुं फट् स्वाहा ॥

ओं ऐं ऐं ओं ह्लीं बगलामुखि वैष्णवीसहिताय नागाधिपतये गरुडवाहनाय श्यामवर्णाय चक्रहस्ताय सपरिवाराय एहि-एहि मम विघ्नान् विभञ्जय-विभञ्जय ओं ह्लीं अमुकस्य मुखं स्तम्भय-स्तम्भय ओं ह्लीं अमुकस्य मुखं भेदय-भेदय ओं ह्लीं वश्यं कुरु-कुरु ओं ह्लीं बगलामुखि हुं फट् स्वाहा ॥

ओं ऐं ऐं ओं ह्लीं बगलामुखि नित्यं रविमण्डलमध्यादवतर-अवतर सान्निध्यं कुरु-कुरु । ओं ऐं परमेश्वरीं आवाहयामि नमः । मम सान्निध्यं कुरु कुरु । ओं ह्लीं बगलामुखि हुं फट् स्वाहा ॥

ओं ऐं ह्रीं श्रीं ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः बगले चतुर्भुजे मुद्गरशरसम्युक्ते दक्षिणे जिह्वावज्रसम्युक्ते वामे श्रीमहाविद्ये पीतवस्त्रे पञ्चमहाप्रेताधिरुढे सिद्धविद्याधरवन्दिते ब्रह्मविष्णुरुद्रपूजिते आनन्दस्वरुपे विश्वसृष्टिस्वरुपे महाभैरवरूपधारिणि स्वर्गमृत्युपातालस्तम्भिनी वाममार्गाश्रिते श्रीबगले ब्रह्मविष्णुरुद्ररूपनिर्मिते षोडशकलापरिपूरिते दानवरुप सहस्रादित्यशोभिते त्रिवर्णे एहि-एहि मम हृदयं प्रवेशय प्रवेशय शत्रुमुखं स्तम्भय-स्तम्भय अन्यभूतपिशाचान् खादय-खादय अरिसैन्यं विदारय-विदारय परविद्यां परचक्रं छेदय-छेदय वीरचक्रं धनुषां सम्भारय-सम्भारय त्रिशूलेन छिन्ध-छिन्धि पाशेन बन्धय-बन्धय भूपतिं वश्यं कुरु-कुरु सम्मोहय-सम्मोहय विना जाप्येन सिद्धय-सिद्धय विना मन्त्रेण सिद्धिं कुरु-कुरु सकलदुष्टान् घातय-घातय मम त्रैलोक्यं वश्यं कुरु-कुरु सकलकुलराक्षसान् दह-दह पच-पच मथ-मथ हन-हन मर्दय-मर्दय मारय-मारय भक्षय-भक्षय मां रक्ष-रक्ष विस्फोटकादीन् नाशय-नाशय ओं ह्लीं विषज्वरं नाशय-नाशय विषं निर्विषं कुरु-कुरु ओं ह्लीं बगलामुखि हुं फट् स्वाहा ॥

ओं क्लीं क्लीं ह्लीं बगलामुखि सर्वदुष्टानां वाचं मुखं पदं स्तम्भय-स्तम्भय जिह्वां कीलय-कीलय बुद्धिं विनाशय-विनाशय क्लीं क्लीं ह्लीं स्वाहा ॥

ओं बगलामुखि स्वाहा ।
ओं पीताम्बरे स्वाहा ।
ओं त्रिपुरभैरवि स्वाहा ।
ओं विजयायै स्वाहा ।
ओं जयायै स्वाहा ।
ओं शारदायै स्वाहा ।
ओं सुरेश्वर्यै स्वाहा ।
ओं रुद्राण्यै स्वाहा ।
ओं विन्ध्यवासिन्यै स्वाहा ।
ओं त्रिपुरसुन्दर्यै स्वाहा ।
ओं दुर्गायै स्वाहा ।
ओं भवान्यै स्वाहा ।
ओं भुवनेश्वर्यै स्वाहा ।
ओं महामायायै स्वाहा ।
ओं कमललोचनायै स्वाहा ।
ओं तारायै स्वाहा ।
ओं योगिन्यै स्वाहा ।
ओं कौमार्यै स्वाहा ।
ओं शिवायै स्वाहा ।
ओं इन्द्राण्यै स्वाहा ।
ओं ह्लीं बगलामुखि हुं फट् स्वाहा ॥

ओं ह्लीं शिवतत्त्वव्यापिनि बगलामुखि स्वाहा ।
ओं ह्लीं मायातत्त्वव्यापिनि बगलामुखि हृदयाय स्वाहा ।
ओं ह्लीं विद्यातत्त्वव्यापिनि बगलामुखि शिरसे स्वाहा ।
ओं ह्लीं बगलामुखि हुं फट् स्वाहा ॥

ओं ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः शिरो रक्षतु बगलामुखि रक्ष रक्ष स्वाहा ।
ओं ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः फालं रक्षतु पीताम्बरे रक्ष रक्ष स्वाहा ।
ओं ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः नेत्रे रक्षतु महाभैरवि रक्ष रक्ष स्वाहा ।
ओं ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः कर्णौ रक्षतु विजये रक्ष रक्ष स्वाहा ।
ओं ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः नासौ रक्षतु जये रक्ष रक्ष स्वाहा ।
ओं ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः वदनं रक्षतु शारदे रक्ष रक्ष स्वाहा ।
ओं ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः कण्ठं रक्षतु रुद्राणि रक्ष रक्ष स्वाहा ।
ओं ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः स्कन्धौ रक्षतु विन्ध्यवासिनि रक्ष रक्ष स्वाहा ।
ओं ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः बाहू रक्षतु त्रिपुरसुन्दरि रक्ष रक्ष स्वाहा ।
ओं ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः करौ रक्षतु दुर्गे रक्ष रक्ष स्वाहा ।
ओं ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः हृदयं रक्षतु भवानी रक्ष रक्ष स्वाहा ।
ओं ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः उदरं रक्षतु भुवनेश्वरि रक्ष रक्ष स्वाहा ।
ओं ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः नाभिं रक्षतु महामाये रक्ष रक्ष स्वाहा ।
ओं ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः कटिं रक्षतु कमललोचने रक्ष रक्ष स्वाहा ।
ओं ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः उदरं रक्षतु तारे रक्ष रक्ष स्वाहा ।
ओं ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः सर्वाङ्गं रक्षतु महातारे रक्ष रक्ष स्वाहा ।
ओं ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः अग्रे रक्षतु योगिनि रक्ष रक्ष स्वाहा ।
ओं ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः पृष्ठे रक्षतु कौमारि रक्ष रक्ष स्वाहा ।
ओं ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः दक्षिणपार्श्वे रक्षतु शिवे रक्ष रक्ष स्वाहा ।
ओं ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः वामपार्श्वे रक्षतु इन्द्राणि रक्ष रक्ष स्वाहा ॥

ओं गां गीं गूं गैं गौं गः गणपतये सर्वजनमुखस्तम्भनाय आगच्छ-आगच्छ मम विघ्नान् नाशय-नाशय दुष्टं खादय-खादय दुष्टस्य मुखं स्तम्भय-स्तम्भय अकालमृत्युं हन-हन भो गणाधिपते ओं ह्लीं वश्यं कुरु-कुरु ओं ह्लीं बगलामुखि हुं फट् स्वाहा ।

अष्टौ ब्राह्मणान् ग्राहयित्वा सिद्धिर्भवति नान्यथा ।
भ्रूयुग्मं तु पठेन्नात्र कार्यं सङ्ख्याविचारणम् ॥

यन्त्रिणां बगला राज्ञी सुराणां बगलामुखि ।
शूराणां बगलेश्वरी ज्ञानिनां मोक्षदायिनी ॥

एतत् स्तोत्रं पठेन् नित्यं त्रिसन्ध्यं बगलामुखि ।
विना जाप्येन सिद्ध्येत साधकस्य न संशयः ॥

निशायां पायस तिलाऽऽज्यहोमं नित्यं तु कारयेत् ।
सिद्ध्यन्ति सर्वकार्याणि देवी तुष्टा सदा भवेत् ॥

मासमेकं पठेन्नित्यं त्रैलोक्ये चातिदुर्लभम् ।
सर्वसिद्धिमवाप्नोति देव्या लोकं स गच्छति ॥

श्री बगलामुखिकल्पे वीरतन्त्रे श्री बगला सिद्धि प्रयोगो नाम दिग्बन्धन रक्षा स्तोत्रम् ॥


इतर श्री बगलामुखी स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed