Sri Bagalamukhi Ashtottara Shatanama Stotram 3 (Kalivilasa Tantra) – श्री बगलामुखी अष्टोत्तरशतनाम स्तोत्रम् – ३ (कालीविलासतन्त्रे)



देव्युवाच ।
बगला शतनामानि कथ्यन्तां मे कृपानिधे ।
यन्नोक्तमन्यतन्त्रेषु अधुना कथय प्रभो ॥ १ ॥

अस्य श्रीबगलादेव्याः शतनामस्तोत्रस्य श्रीसदाशिव ऋषिर्गायत्रीछन्दः श्रीबगलामुखी देवता धर्मार्थकाममोक्षार्थ सिद्धये विनियोगः ॥

ईश्वर उवाच ।
वशिनी वशपूज्या च वलिका वसुदा वसुः ।
वाग्वादिनी वयोरूपा बलाबलवती तथा ॥ २ ॥

विषमा विकटा वेधा विशाला विमना विधिः ।
विद्या च वेदरूपा च बन्ध्या च वेषधारिणी ॥ ३ ॥

वेणी च विकटा वेश्या नानावेषपरिच्छदा ।
वयोरूपा च वृद्धा विकला वसुमतीति च ॥ ४ ॥

बगला वामनी देवी विष्णुपूज्या विनोदिनी ।
वैष्णवी शिष्टमाता च वाराही ब्राह्मणी वरा ॥ ५ ॥

बलाबलवती बाला विधेश्च परिपूजिता ।
विशिष्टा ब्रह्मपूज्या च नानावेषविनोदिनी ॥ ६ ॥

वैकुण्ठरूपिणी ब्राह्मी विधिपूज्या विधुन्तुदा ।
वल्लभा बलरूपा च अशेषबलधारिणी ॥ ७ ॥

वेदज्ञा वेदमाता च विशालनयनोज्ज्वला ।
वेदमाता विमाता च वेदगर्भा विमोक्षणी ॥ ८ ॥

विरूपाक्षी बला बाली कृष्णविमलरूपिणी ।
वाराही च वलाका च वलिनी वर्णरूपिणी ॥ ९ ॥

गन्धिनी गन्धरूपा च गयागङ्गाप्रभा तथा ।
गोवर्धनी च गोविन्दपूजिता च गदाधरी ॥ १० ॥

गहना गुह्यरूपा च गोरूपा गोकुलेश्वरी ।
गोलोकवासिनी चैव नित्या गोलोकरूपिणी ॥ ११ ॥

गरिमा च गरिष्ठा नित्या गोवर्धनरूपिणी ।
गङ्गाधरी च गोविन्दा गोविन्दपूजिता गदा ॥ १२ ॥

गहना गुह्यरूपा च तथैव गन्धरूपिणी ।
गणार्हा गानदा गानरूपिणी गणमोहिनी ॥ १३ ॥

नीलमाला मनोन्मत्ता ललज्जिह्वा ललाटिनी ।
आनन्दरूपिणी आद्या आचार्या चांशुरूपिणी ॥ १४ ॥

मूर्तिश्च मुख्यरूपा च महामोक्षप्रदायिनी ।
खेलत् खञ्जनगामी च खेला खलखला तथा ॥ १५ ॥

ईश्वरी ईश्वराराध्या अकार ओंस्वरूपिणी ।
वर्णा च बगलामुख्याः शतनाम इतीरितम् ॥ १६ ॥

अष्टोत्तरशतं नाम यः पठेन्नित्यमुत्तमम् ।
सर्वसिद्धीश्वरो भूत्वा देवीपुत्रो भवेत्तु सः ॥ १७ ॥

त्रिसन्ध्यं यः पठेन्नित्यं तस्य सिद्धिः प्रजायते ।
नान्यथा फलभागीस्यात् कल्पकोटिशतैरपि ॥ १८ ॥

इति श्रीकालीविलासतन्त्रे षोडशपटले श्री बगलामुखी अष्टोत्तरशतनाम स्तोत्रम् ॥


మా తదుపరి ప్రచురణ: తెలుగు తాత్పర్యాలతో "శ్రీ బగళాముఖీ స్తోత్రనిధి" పుస్తకము ముద్రించుటకు ఆలోచన చేయుచున్నాము.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed