Sri Ayyappa Mala Dharana Mantram – श्री अय्यप्प माला धारण मन्त्रम्


ज्ञानमुद्रां शास्त्रमुद्रां गुरुमुद्रां नमाम्यहम् ।
वनमुद्रां शुद्धमुद्रां रुद्रमुद्रां नमाम्यहम् ॥ १ ॥

शान्तमुद्रां सत्यमुद्रां व्रतमुद्रां नमाम्यहम् ।
शबर्याश्रमसत्येन मुद्रां पातु सदापि मे ॥ २ ॥ [माम्]

गुरुदक्षिणया पूर्वं तस्यानुग्रहकारिणे ।
शरणागतमुद्राख्यं त्वन्मुद्रां धारयाम्यहम् ॥ ३ ॥

चिन्मुद्रां खेचरीमुद्रां भद्रमुद्रां नमाम्यहम् ।
शबर्याचलमुद्रायै नमस्तुभ्यं नमो नमः ॥ ४ ॥


व्रतमाला उद्यापन मन्त्रम्

अपूर्वमचलारोह दिव्यदर्शनकारणात् ।
शास्त्रमुद्रात्मक देव देहि मे व्रतमोचनम् ॥


इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed