Sri Angaraka (Mangala) Ashtottara Shatanamavali – श्री अङ्गारक अष्टोत्तरशतनामावली



ओं महीसुताय नमः ।
ओं महाभागाय नमः ।
ओं मङ्गलाय नमः ।
ओं मङ्गलप्रदाय नमः ।
ओं महावीराय नमः ।
ओं महाशूराय नमः ।
ओं महाबलपराक्रमाय नमः ।
ओं महारौद्राय नमः ।
ओं महाभद्राय नमः । ९

ओं माननीयाय नमः ।
ओं दयाकराय नमः ।
ओं मानदाय नमः ।
ओं अमर्षणाय नमः ।
ओं क्रूराय नमः ।
ओं तापपापविवर्जिताय नमः ।
ओं सुप्रतीपाय नमः ।
ओं सुताम्राक्षाय नमः ।
ओं सुब्रह्मण्याय नमः । १८

ओं सुखप्रदाय नमः ।
ओं वक्रस्तम्भादिगमनाय नमः ।
ओं वरेण्याय नमः ।
ओं वरदाय नमः ।
ओं सुखिने नमः ।
ओं वीरभद्राय नमः ।
ओं विरूपाक्षाय नमः ।
ओं विदूरस्थाय नमः ।
ओं विभावसवे नमः । २७

ओं नक्षत्रचक्रसञ्चारिणे नमः ।
ओं क्षत्रपाय नमः ।
ओं क्षात्रवर्जिताय नमः ।
ओं क्षयवृद्धिविनिर्मुक्ताय नमः ।
ओं क्षमायुक्ताय नमः ।
ओं विचक्षणाय नमः ।
ओं अक्षीणफलदाय नमः ।
ओं चक्षुर्गोचराय नमः ।
ओं शुभलक्षणाय नमः । ३६

ओं वीतरागाय नमः ।
ओं वीतभयाय नमः ।
ओं विज्वराय नमः ।
ओं विश्वकारणाय नमः ।
ओं नक्षत्रराशिसञ्चाराय नमः ।
ओं नानाभयनिकृन्तनाय नमः ।
ओं कमनीयाय नमः ।
ओं दयासाराय नमः ।
ओं कनत्कनकभूषणाय नमः । ४५

ओं भयघ्नाय नमः ।
ओं भव्यफलदाय नमः ।
ओं भक्ताभयवरप्रदाय नमः ।
ओं शत्रुहन्त्रे नमः ।
ओं शमोपेताय नमः ।
ओं शरणागतपोषकाय नमः ।
ओं साहसाय नमः ।
ओं सद्गुणाय नमः ।
ओं अध्यक्षाय नमः । ५४

ओं साधवे नमः ।
ओं समरदुर्जयाय नमः ।
ओं दुष्टदूराय नमः ।
ओं शिष्टपूज्याय नमः ।
ओं सर्वकष्टनिवारकाय नमः ।
ओं दुश्चेष्टवारकाय नमः ।
ओं दुःखभञ्जनाय नमः ।
ओं दुर्धराय नमः ।
ओं हरये नमः । ६३

ओं दुःस्वप्नहन्त्रे नमः ।
ओं दुर्धर्षाय नमः ।
ओं दुष्टगर्वविमोचकाय नमः ।
ओं भरद्वाजकुलोद्भूताय नमः ।
ओं भूसुताय नमः ।
ओं भव्यभूषणाय नमः ।
ओं रक्ताम्बराय नमः ।
ओं रक्तवपुषे नमः ।
ओं भक्तपालनतत्पराय नमः । ७२

ओं चतुर्भुजाय नमः ।
ओं गदाधारिणे नमः ।
ओं मेषवाहाय नमः ।
ओं अमिताशनाय नमः ।
ओं शक्तिशूलधराय नमः ।
ओं शक्ताय नमः ।
ओं शस्त्रविद्याविशारदाय नमः ।
ओं तार्किकाय नमः ।
ओं तामसाधाराय नमः । ८१

ओं तपस्विने नमः ।
ओं ताम्रलोचनाय नमः ।
ओं तप्तकाञ्चनसङ्काशाय नमः ।
ओं रक्तकिञ्जल्कसन्निभाय नमः ।
ओं गोत्राधिदेवाय नमः ।
ओं गोमध्यचराय नमः ।
ओं गुणविभूषणाय नमः ।
ओं असृजे नमः ।
ओं अङ्गारकाय नमः । ९०

ओं अवन्तीदेशाधीशाय नमः ।
ओं जनार्दनाय नमः ।
ओं सूर्ययाम्यप्रदेशस्थाय नमः ।
ओं यौवनाय नमः ।
ओं याम्यदिङ्मुखाय नमः ।
ओं त्रिकोणमण्डलगताय नमः ।
ओं त्रिदशाधिपसन्नुताय नमः ।
ओं शुचये नमः ।
ओं शुचिकराय नमः । ९९

ओं शूराय नमः ।
ओं शुचिवश्याय नमः ।
ओं शुभावहाय नमः ।
ओं मेषवृश्चिकराशीशाय नमः ।
ओं मेधाविने नमः ।
ओं मितभाषणाय नमः ।
ओं सुखप्रदाय नमः ।
ओं सुरूपाक्षाय नमः ।
ओं सर्वाभीष्टफलप्रदाय नमः । १०८

इति श्री अङ्गारकाष्टोत्तरशतनामावली ।


इतर नवग्रह स्तोत्राणि पश्यतु । इतर १०८, ३००, १००० नामावल्यः पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed