Skandotpatti (Ramayana Bala Kanda) – स्कन्दोत्पत्ति (रामायण बालकाण्डे)

तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा ।
सेनापतिमभीप्सन्तः पितामहमुपागमन् ॥ १

ततोऽब्रुवन्सुराः सर्वे भगवन्तं पितामहम् ।
प्रणिपत्य सुराः सर्वे सेन्द्राः साग्नि पुरोगमाः ॥ २

यो नः सेनापतिर्देव दत्तो भगवता पुरा ।
स न जातोऽद्य भगवन्नस्मद्वैरिनिबर्हणः ॥ ३

तत्पिता भगवाञ्शर्वो हिमवच्छिखरेऽद्य वै ।
तपः परममास्थाय तप्यते स्म सहोमया ॥ ४

यदत्रानन्तरं कार्यं लोकानां हितकाम्यया ।
संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः ॥ ५

देवतानां वचः श्रुत्वा सर्वलोकपितामहः ।
सान्त्वयन्मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् ॥ ६

शैलपुत्र्या यदुक्तं तन्न प्रजाः सन्तु पत्निषु ।
तस्या वचनमक्लिष्टं सत्यमेतन्न संशयः ॥ ७

इयमाकाशगा गङ्गा यस्यां पुत्रं हुताशनः ।
जनयिष्यति देवानां सेनापतिमरिन्दमम् ॥ ८

ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तत्सुतम् ।
उमायास्तद्बहुमतं भविष्यति न संशयः ॥ ९

तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन ।
प्रणिपत्य सुराः सर्वे पितामहमपूजयन् ॥ १०

ते गत्वा पर्वतं राम कैलासं धातुमण्डितम् ।
अग्निं नियोजयामासुः पुत्रार्थं सर्वदैवताः ॥ ११

देवकार्यमिदं देव संविधत्स्व हुताशन ।
शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज ॥ १२

देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः ।
गर्भं धारय वै देवि देवतानामिदं प्रियम् ॥ १३

तस्य तद्वचनं श्रुत्वा दिव्यं रूपमधारयत् ।
दृष्ट्वा तन्महिमानां स समन्तादवकीर्यत ॥ १४

समन्ततस्तदा देवीमभ्यषिञ्चत पावकः ।
सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन ॥ १५

तमुवाच ततो गङ्गा सर्वदेवपुरोहितम् ।
अशक्ता धारणे देव तव तेजः समुद्धतम् ।
दह्यमानाऽग्निना तेन सम्प्रव्यथितचेतना ॥ १६

अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः ।
इह हैमवते पादे गर्भोऽयं सन्निवेश्यताम् ॥ १७

श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम् ।
उत्ससर्ज महातेजः स्रोतोभ्यो हि तदाऽनघ ॥ १८

यदस्या निर्गतं तस्मात्तप्तजाम्बूनदप्रभम् ।
काञ्चनं धरणीं प्राप्तं हिरण्यममलं प्रभम् ॥ १९

ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभ्यजायत ।
मलं तस्याभवत्तत्र त्रपु सीसकमेव च ।
तदेतद्धरणीं प्राप्य नानाधातुरवर्धत ॥ २०

निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम् ।
सर्वं पर्वतसंनद्धं सौवर्णमभवद्वनम् ॥ २१

तं देशं तु ततो ब्रह्मा सम्प्राप्यैनमभाषत ।
जातस्य रूपं यत्तस्माज्जातरूपं भविष्यति ॥ २२

जातरूपमिति ख्यातं तदाप्रभृति राघव ।
सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् ।
तृणवृक्षलतागुल्मं सर्वं भवति काञ्चनम् ॥ २३

तं कुमारं ततो जातं सेन्द्राः सहमरुद्गणाः ।
क्षीरसम्भावनार्थाय कृत्तिकाः समयोजयन् ॥ २४

ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् ।
ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः ॥ २५

ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् ।
पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः ॥ २६

तेषां तद्वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे ।
स्नापयन्परया लक्ष्म्या दीप्यमानं यथाऽनलम् ॥ २७

स्कन्द इत्यब्रुवन्देवाः स्कन्नं गर्भपरिस्रवात् ।
कार्तिकेयं महाभागं काकुत्स्थ ज्वलनोपमम् ॥ २८

प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् ।
षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः ॥ २९

गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा ।
अजयत्स्वेन वीर्येण दैत्यसैन्यगणान्विभुः ॥ ३०

सुरसेनागणपतिं ततस्तमतुलद्युतिम् ।
अभ्यषिञ्चन्सुरगणाः समेत्याग्निपुरोगमाः ॥ ३१

एष ते राम गङ्गाया विस्तरोऽभिहितो मया ।
कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च ॥ ३२

भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः ।
आयुष्मान्पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत् ॥ ३३

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तत्रिंशः सर्गः ॥ ३७

Facebook Comments

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Not allowed
%d bloggers like this: