Rin Mochaka Angaraka (Mangal) Stotram – ऋण विमोचक अङ्गारक स्तोत्रम्


स्कन्द उवाच ।
ऋणग्रस्तनराणां तु ऋणमुक्तिः कथं भवेत् ।

ब्रह्मोवाच ।
वक्ष्येऽहं सर्वलोकानां हितार्थं हितकामदम् ॥

अस्य श्री अङ्गारक स्तोत्र महामन्त्रस्य गौतम ऋषिः, अनुष्टुप् छन्दः, अङ्गारको देवता मम ऋण विमोचनार्थे जपे विनियोगः ।

ध्यानम् –
रक्तमाल्याम्बरधरः शूलशक्तिगदाधरः ।
चतुर्भुजो मेषगतो वरदश्च धरासुतः ॥ १ ॥

अथ स्तोत्रम् –
मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।
स्थिरासनो महाकायः सर्वकर्मावबोधकः ॥ २ ॥

लोहितो लोहिताङ्गश्च सामगायी कृपाकरः ।
धर्मराजः कुजो भौमो भूमिजो भूमिनन्दनः ॥ ३ ॥

अङ्गारको यमश्चैव सर्वरोगापहारकः ।
सृष्टिकर्ताऽपहर्ता च सर्वकामफलप्रदः ॥ ४ ॥

भूतिदो ग्रहपूज्यश्च वक्त्रो रक्तवपुः प्रभुः ।
एतानि कुजनामानि यो नित्यं प्रयतः पठेत् ।
ऋणं न जायते तस्य धनं प्राप्नोत्यसंशयम् ॥ ५ ॥

रक्तपुष्पैश्च गन्धैश्च दीपधूपादिभिस्तथा ।
मङ्गलं पूजयित्वा तु मङ्गलेऽहनि सर्वदा ॥ ६ ॥

ऋणरेखाः प्रकर्तव्याः दग्धाङ्गारैस्तदग्रतः ।
सप्तविंशतिनामानि पठित्वा तु तदन्तिके ॥ ७ ॥

ताश्च प्रमार्जयेत्पश्चाद्वामपादेन संस्पृशन् ।
एवं कृत्वा न सन्देहो ऋणहीनो धनी भवेत् ॥ ८ ॥

भूमिजस्य प्रसादेन ग्रहपीडा विनश्यति ।
येनार्जिता जगत्कीर्तिर्भूमिपुत्रेण शाश्वती ॥ ९ ॥

शत्रवश्च हता येन भौमेन महितात्मना ।
स प्रीयतां तु भौमोऽद्य तुष्टो भूयात् सदा मम ॥ १० ॥

मूलमन्त्रः –
अङ्गारक महीपुत्र भगवन् भक्तवत्सल ।
नमोऽस्तु ते ममाशेष ऋणमाशु विमोचय ॥ ११ ॥

अर्घ्यम् –
भूमिपुत्र महातेजः स्वेदोद्भव पिनाकिनः ।
ऋणार्तस्त्वां प्रपन्नोऽस्मि गृहाणार्घ्यं नमोऽस्तु ते ॥ १२ ॥

इति ऋण विमोचन अङ्गारक स्तोत्रम् ॥


इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed