Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ध्यानम् –
{ध्यानश्लोकाः}
ओं श्री ______ नमः ध्यायामि ।
आवाहनम् –
स॒हस्र॑शीर्षा॒ पुरु॑षः ।
स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा ।
अत्य॑तिष्ठद्दशाङ्गु॒लम् ।
ओं श्री ______ नमः आवाहयामि ।
आसनम् –
पुरु॑ष ए॒वेदग्ं सर्वम्᳚ ।
यद्भू॒तं यच्च॒ भव्यम्᳚ ।
उ॒तामृ॑त॒त्वस्येशा॑नः ।
य॒दन्ने॑नाति॒रोह॑ति ।
ओं श्री ______ नमः नवरत्नखचित सुवर्ण सिंहासनं समर्पयामि ।
पाद्यम् –
ए॒तावा॑नस्य महि॒मा ।
अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः ।
पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ ।
त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ।
ओं श्री ______ नमः पादयोः पाद्यं समर्पयामि ।
अर्घ्यम् –
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः ।
पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुन॑: ।
ततो॒ विष्व॒ङ्व्य॑क्रामत् ।
सा॒श॒ना॒न॒श॒ने अ॒भि ।
ओं श्री ______ नमः हस्तयोः अर्घ्यं समर्पयामि ।
आचमनीयम् –
तस्मा᳚द्वि॒राड॑जायत ।
वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत ।
प॒श्चाद्भूमि॒मथो॑ पु॒रः ।
ओं श्री ______ नमः मुखे आचमनीयं समर्पयामि ।
पञ्चामृत स्नानम् –
आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम् ।
भवा॒ वाज॑स्य सङ्ग॒थे ॥
ओं श्री ______ नमः क्षीरेण स्नपयामि ।
द॒धि॒क्राव्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिन॑: ।
सु॒र॒भि नो॒ मुखा॑ कर॒त्प्राण॒ आयूग्ं॑षि तारिषत् ॥
ओं श्री ______ नमः दध्ना स्नपयामि ।
शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑सि दे॒वोव॑स्सवि॒तोत्पु॑ना॒तु
अच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभि॑: ।
ओं श्री ______ नमः आज्येन स्नपयामि ।
मधु॒वाता॑ ऋताय॒ते मधु॑क्षरन्ति॒ सिन्ध॑वः ।
माध्वी᳚र्नः स॒न्त्वौष॑धीः ।
मधु॒नक्त॑मु॒तोष॑सि॒ मधु॑म॒त् पार्थि॑व॒ग्ं॒रज॑: ।
मधु॒द्यौर॑स्तु नः पि॒ता ।
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माग्ं अस्तु॒ सूर्य॑: ।
माध्वी॒र्गावो॑ भवन्तु नः ।
ओं श्री ______ नमः मधुना स्नपयामि ।
स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने ।
स्वा॒दुरिन्द्रा᳚य सु॒हवी᳚तु नाम्ने ।
स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ ।
बृह॒स्पत॑ये॒ मधु॑मां॒ अदा᳚भ्यः ।
ओं श्री ______ नमः शर्करेण स्नपयामि ।
याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पायाश्च॑ पु॒ष्पिणी॑: ।
बृह॒स्पति॑ प्रसूता॒स्तानो॑ मुन्च॒न्त्वग्ं ह॑सः ॥
ओं श्री ______ नमः फलोदकेन स्नपयामि ।
स्नानम् –
यत्पुरु॑षेण ह॒विषा᳚ ।
दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ ।
ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः ।
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो व॑: शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह न॑: ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
ओं श्री ______ नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानन्तरं शुद्ध आचमनीयं समर्पयामि ।
वस्त्रम् –
स॒प्तास्या॑सन्परि॒धय॑: ।
त्रिः स॒प्त स॒मिध॑: कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः ।
अब॑ध्न॒न्पुरु॑षं प॒शुम् ।
ओं श्री ______ नमः वस्त्रयुग्मं समर्पयामि ।
यज्ञोपवीतम् –
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ ।
पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अय॑जन्त ।
सा॒ध्या ऋष॑यश्च॒ ये ।
ओं श्री ______ नमः यज्ञोपवीतं समर्पयामि ।
गन्धम् –
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: ।
सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शूग्स्ताग्श्च॑क्रे वाय॒व्यान्॑ ।
आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये ।
ओं श्री ______ नमः दिव्य श्री चन्दनं समर्पयामि ।
आभरणम् –
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: ।
ऋच॒: सामा॑नि जज्ञिरे ।
छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् ।
यजु॒स्तस्मा॑दजायत ।
ओं श्री ______ नमः सर्वाभरणानि समर्पयामि ।
पुष्पाणि –
तस्मा॒दश्वा॑ अजायन्त ।
ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त् ।
तस्मा᳚ज्जा॒ता अ॑जा॒वय॑: ।
ओं श्री ______ नमः नानाविध परिमल पत्र पुष्पाणि समर्पयामि ।
धूपम् –
यत्पुरु॑षं॒ व्य॑दधुः ।
क॒ति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू ।
कावू॒रू पादा॑वुच्येते ।
ओं श्री ______ नमः धूपं समर्पयामि ।
दीपम् –
ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् ।
बा॒हू रा॑ज॒न्य॑: कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्य॑: ।
प॒द्भ्याग्ं शू॒द्रो अ॑जायत ।
ओं श्री ______ नमः दीपं समर्पयामि ।
नैवेद्यम् –
च॒न्द्रमा॒ मन॑सो जा॒तः ।
चक्षो॒: सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ ।
प्रा॒णाद्वा॒युर॑जायत ।
ओं श्री ______ नमः नैवेद्यं समर्पयामि ।
ओं भूर्भुव॑स्सुव॑: । तत्स॑वितु॒र्वरे᳚ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ योन॑: प्रचो॒दया᳚त् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि
(सायंकाले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अमृतोपस्तरणमसि ।
ओं प्राणाय स्वाहा ।
ओं अपानाय स्वाहा ।
ओं व्यानाय स्वाहा ।
ओं उदानाय स्वाहा ।
ओं समानाय स्वाहा ।
मध्ये मध्ये पानीयं समर्पयामि । उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि ।
ताम्बूलम् –
नाभ्या॑ आसीद॒न्तरि॑क्षम् ।
शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिश॒: श्रोत्रा᳚त् ।
तथा॑ लो॒काग्ं अ॑कल्पयन् ।
ओं श्री ______ नमः ताम्बूलं समर्पयामि ।
नीराजनम् –
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ ।
आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीर॑: ।
नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒ यदास्ते᳚ ।
ओं श्री ______ नमः कर्पूर नीराजनं समर्पयामि ।
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि । नमस्करोमि ।
मन्त्रपुष्पम् –
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ ।
श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति ।
नान्यः पन्था॒ अय॑नाय विद्यते ।
ओं श्री ______ नमः सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि ।
आत्मप्रदक्षिण –
यानिकानि च पापानि जन्मान्तरकृतानि च
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ।
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहि मां कृपया देव शरणागतवत्सला ।
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष जनार्दना ।
ओं श्री ______ नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।
साष्टाङ्ग नमस्कारम् –
उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोष्टाङ्गमुच्यते ॥
ओं श्री ______ नमः साष्टाङ्ग नमस्कारान् समर्पयामि ।
सर्वोपचाराः –
ओं श्री ______ नमः छत्रं आच्छादयामि ।
ओं श्री ______ नमः चामरैर्वीजयामि ।
ओं श्री ______ नमः नृत्यं दर्शयामि ।
ओं श्री ______ नमः गीतं श्रावयामि ।
ओं श्री ______ नमः आन्दोलिकान्नारोहयामि ।
ओं श्री ______ नमः अश्वानारोहयामि ।
ओं श्री ______ नमः गजानारोहयामि ।
समस्त राजोपचारान् देवोपचारान् समर्पयामि ।
क्षमा प्रार्थना –
अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर ।
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि क्षमस्व परमेश्वर ।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ।
अनया पुरुषसूक्त विधान पूर्वक ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्री ______ सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥
तीर्थप्रसाद स्वीकरण –
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ॥
समस्तपापक्षयकरं श्री ______ पादोदकं पावनं शुभम् ॥
श्री ______ नमः प्रसादं शीरसा गृह्णामि ।
ओं शान्तिः शान्तिः शान्तिः ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

