Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्री गुरुभ्यो नमः ।
हरिः ओम् ।
शुचिः –
अपवित्रः पवित्रोवा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥
पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्ष ॥
आचम्य –
ओं अच्युताय नमः ।
ओं अनन्ताय नमः ।
ओं गोविन्दाय नमः ॥
ओं केशवाय नमः ।
ओं नारायणाय नमः ।
ओं माधवाय नमः ।
ओं गोविन्दाय नमः । ओं विष्णवे नमः ।
ओं मधुसूदनाय नमः । ओं त्रिविक्रमाय नमः ।
ओं वामनाय नमः । ओं श्रीधराय नमः ।
ओं हृषीकेशाय नमः । ओं पद्मनाभाय नमः ।
ओं दामोदराय नमः ॥
प्रार्थन –
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम् ।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयोभूतिर्धृवा नीतिर्मतिर्मम ॥
स्मृते सकलकल्याणभाजनं यत्र जायते ।
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।
येषां हृदिस्थो भगवान् मङ्गलायतनो हरिः ॥
आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥
नमस्कारम् –
ओं नम॒: सद॑से । नम॒: सद॑स॒स्पत॑ये । नम॒: सखी॑नां पुरो॒गाणां॒ चक्षु॑षे । नमो॑ दि॒वे । नम॑: पृथि॒व्यै । सप्रथ स॒भां मे॑ गोपाय । ये च॒ सभ्या᳚: सभा॒सद॑: । तानि॑न्द्रि॒याव॑तः कुरु । सर्व॒मायु॒रुपा॑सताम् ॥
सर्वेभ्यः श्रीवैष्णवेभ्यो नमः ॥
पवित्र धारणम् –
इ॒दं ब्रह्म॑ पुनीमहे । ब्रह्मा पुनातु ।
आसनम् –
आसन मन्त्रस्य पृथिव्याः, मेरुपृष्ठ ऋषिः, सुतलं छन्दः, श्रीकूर्मो देवता, आसने विनियोगः ॥
अं अनन्तासनाय नमः । रं कूर्मासनाय नमः ।
विं विमलासनाय नमः । पं पद्मासनाय नमः ।
प्राणायामम् –
प्रणवस्य परब्रह्म ऋषिः, देवी गायत्री छन्दः, परमात्मा देवता, प्राणायामे विनियोगः ॥
ओं भूः । ओं भुव॑: । ओग्ं सुव॑: । ओं मह॑: । ओं जन॑: । ओं तप॑: । ओग्ं सत्यम् । ओं तत्स॑वितु॒र्वरे᳚ण्यं॒ भ॒र्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो न॑: प्रचो॒दया᳚त् ॥ ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥
सङ्कल्पम् –
श्रीगोविन्द गोविन्द गोविन्द । श्रीमहाविष्णोराज्ञया भगवत्कैङ्कर्यरूपं शुभाभ्युदयार्थं च शुभे शोभने मङ्गले मुहूर्ते अत्र पृथिव्यां जम्बूद्वीपे भरत वर्षे भरतखण्डे मेरोर्दक्षिणदिग्भागे श्रीरङ्गस्य ___ दिक्प्रदेशे ___, ___ नद्योः मध्यदेशे मङ्गलप्रदेशे समस्तदेवता भगवद्भागवताचार्य सन्निधौ ब्रह्मणः द्वितीयपरार्थे श्रीश्वेतवराहकल्पे वैवस्वत मन्वन्तरे कलियुगे प्रथमपादे अस्मिन् वर्तमान व्यावहारिक चान्द्रमानेन प्रभवादि षष्टि संवत्सराणां मध्ये श्री ___ नाम संवत्सरे ___ अयने ___ ऋतौ ___ मासे ___ पक्षे ___ तिथौ ___ वासरे ___ नक्षत्रे ___ योगे ___ करणे एवं गुण विशेषण विशिष्टायां अस्यां शुभतिथौ श्रीमान् ___ गोत्रोद्भवस्य ___ नामधेयस्य (मम धर्मपत्नी श्रीमतः ___ गोत्रस्य ___ नामधेयः समेतस्य) मम/अस्माकं सहकुटुम्बस्य क्षेम स्थैर्य धैर्य वीर्य विजय अभय आयुः आरोग्य ऐश्वर धन धान्य गृह भू पुत्रपौत्र अभिवृद्ध्यर्थं, धर्म अर्थ काम मोक्ष चतुर्विध पुरुषार्थ फलसिद्ध्यर्थं, आध्यात्मिक आधिदैविक आधिभौतिक तापत्रय निवारणार्थं मनोवाञ्छाफलसिद्ध्यर्थं श्री _____ उद्दिश्य श्री _____ प्रीत्यर्थं सम्भवद्भिः द्रव्यैः सम्भवद्भिः उपचारैश्च सम्भवता नियमेन सम्भविता प्रकारेण यावच्छक्ति ध्यान आवाहनादि षोडशोपचार* पूजां करिष्ये ॥
तदादौ निर्विघ्नेन पूजा परिसमाप्त्यर्थं श्रीविष्वक्सेन पूजां करिष्ये ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

