Nitya Parayana Sloka – नित्यपारायण श्लोक


नीन्द से उठने के बाद

कराग्रे वसते लक्ष्मीः कर मध्ये सरस्वती ।
कर मूले स्थिता गौरी प्रभाते कर दर्शनम् ॥

समुद्र वसने देवि पर्वत स्तन मण्डले ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥

आदित्याय च सोमाय मङ्गलाय बुधाय च ।
गुरु शुक्र शनिभ्यश्च राहवे केतवे नमः ॥

ब्रह्मा मुरारिस्त्रिपुरान्तकारी ।
भानुश्शशी भूमिसुतो बुधश्च ॥

गुरुश्च शुक्रः शनि राहु केतवः ।
कुर्वन्तु सर्वे मम सुप्रभातम् ॥

कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणत क्लेशनाशाय गोविन्दाय नमो नमः ॥

स्नान करने के समय

गङ्गे च यमुने कृष्णे गोदवरि सरस्वति ।
नर्मदे सिन्धु कावेर्यौ जलेऽस्मिन् सन्निधिं कुरु ॥

गङ्गा गङ्गेति यो ब्रूयात् योजनानां शतैरपि ।
मुच्यते सर्व पापाभ्यो विष्णुलोकं स गच्छति ॥

अम्ब त्वद्दर्शनान्मुक्तिः न जाने स्नानजं फलम् ।
स्वर्गारोहण सोपानं महापुण्य तरङ्गिणीं ।
वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥

गङ्गे मां पुनीहि ।

सूर्य भगवान के दर्शन करते हुये

ब्रह्म स्वरूपमुदये मध्याह्नेतु महेश्वरम् ।
सायं ध्यायेत्सदा विष्णुं त्रिमूर्तिं च दिवाकरम् ॥

द्वितीय चन्द्रमा के दर्शन करते हुये

क्षीरसागर सम्पन्न लक्ष्मी प्रिय सहोदर ।
हिरण्यमकुटाभास्वद्बालचन्द्र नमोऽस्तु ते ॥

तुलसी माता के दर्शन करते हुये

यन्मूले सर्वतीर्थानि यन्मध्ये सर्वदेवताः ।
यदग्रे सर्ववेदाश्च तुलसि त्वां नमाम्यहम् ॥

नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे ।
नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिनि ॥

तुलसी पत्तों को लेते समय

तुलस्यमृतजन्मासि सदा त्वं केशवप्रिये ।
केशवार्थं चिनोमि त्वां क्षमस्व हरिवल्लभे

अश्वत्थ वृक्ष के दर्शन करते हुये

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।
अग्रतः शिवरूपाय वृक्षराजाय ते नमः ॥

भोजन से पहले

अहं वैश्वानरोभूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥

ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणाहुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥

एकश्लोकी रामायण
आदौ राम तपोवनादि गमनं हत्वा मृगं काञ्चनम् ।
वैदेही हरणं जटायु मरणं सुग्रीव सम्भाषणम् ॥
वाली निग्रहणं समुद्रतरणं लङ्कापुरीदाहनम् ।
पश्चाद्रावणकुम्भकर्णहननं चेतद्धि रामायणम् ॥

एकश्लोकी भागवतम्
आदौ देवकिदेवि गर्भजननं गोपी गृहेवर्धनं ।
मायापूतन जीवितापहरणं गोवर्धनोद्धारणम् ॥
कंसच्छेदन कौरवादि हननं कुन्तीसुतापालनं ।
ह्येतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ॥

एकश्लोकी भारतम्
आदौ पाण्डवधार्तराष्ट्रजननं लाक्षागृहेदाहनं ।
द्यूतश्रीहरणं वने विचरणं मत्स्य़ालये वर्तनम् ॥
लीलागोग्रहणं रणे विहरणं सन्धिक्रियाजृंभणं ।
भीष्मद्रोणसुयोधनादिमथनं ह्येतन्महाभारतम् ॥

नागस्तोत्रम्
नमस्ते देव देवेश नमस्ते धरणीधर ।
नमस्ते सर्वनागेन्द्र आदिशेष नमोऽस्तु ते ॥

यज्ञेश्वर प्रार्थना
नमस्ते यज्ञभोक्त्रे च नमस्ते हव्यवाहन ।
नमस्ते वीतिहोत्राय सप्तजिह्वाय ते नमः ॥

दवायी लेते समय
अच्युतानन्द गोविन्द नामोच्छारण भेषजात् ।
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥
शरीरे जर्जरी भूते व्य़ाधिग्रस्ते कलेबरे ।
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥

यात्रा करने से पहले
यः शिवो नाम रूपाभ्यां या देवी सर्वमङ्गला ।
तयोः संस्मरणात् पुंसां सर्वतो जय मङ्गलम् ॥

नारायण नारायण नारायण ॥

दीप जलाते हुये
दीपं ज्योतिः परम्ब्रह्म दीपं सर्व तमोऽपहम् ।
दीपेन साध्यते सर्वं सन्ध्या दीप नमोऽस्तु ते ॥

शुभं करोतु कल्याणं आरोग्यं सुख सम्पदम् ।
शत्रुबुद्धिविनाशं च दीप ज्योतिर्नमोऽस्तु ते ॥

सोने से पहले
रामं स्कन्दं हनूमन्तं वैनतेयं वृकोदरम् ।
शयने यः स्मरेन्नित्यं दुःस्वप्नं तस्य नश्यति ॥

अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर ॥

कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसम्मूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥

बुरे सपने आये तो
ब्रह्माणं शङ्करं विष्णुं यमं रामं दनुं बलिम् ।
सप्तैतान् संस्मरेन्नित्यं दुःस्वप्नं तस्य नश्यति ॥

कलि दोष निवारण श्लोक
कर्कोटकस्य नागस्य दमयन्त्या नलस्य च ।
ऋतुपर्णस्य राजर्षेः कीर्तनं कलि नाशनम् ॥

शमी दर्शन श्लोक
शमी शमयते पापं शमी शतृविनाशिनी ।
अर्जुनस्य धनुर्धारी रामस्य प्रियदर्शिनी ॥

दारिद्र्य दुःख निवारण
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः ।
स्वस्थैः स्मृतामतिमतीव शुभां ददासि ॥

दारिद्र्यदुःखभयहारिणि का त्वदन्या ।
सर्वोपकारकरणाय सदार्द्रचित्ता ॥

आपद निवारण
आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥

कलिकल्मषनाशन महामन्त्र
हरे राम हरे राम राम राम हरे हरे ।
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ॥


इतर विविध स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed