Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अथ दशाङ्गरौद्रीकरणम् ॥
(* पद्धतिपाठः – आदौ प्रणवमुच्चार्य व्याहृतिः प्रणवं ततः ।
बीजमंत्रं समुच्चार्य मंत्रान्ते बीजमुच्चरेत् ॥
ललाट नेत्र कर्णेषु मुखे बाह्वोश्च नासिके ।
जठरे नाभि मूर्ध्नोश्च पादयोर्दशदैहिकम् ।
बीजमन्त्रं समुच्चार्य मन्त्रान्ते बीजमुच्चरेत् ॥ *)
ओं भूर्भुव॒स्सुव॑: । ओं ओं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
त्रा॒तार॒मिन्द्र॑ मवि॒तार॒मिन्द्र॒ग्ं॒ हवे॑ हवे सु॒हव॒ग्ं॒ शूर॒मिन्द्र᳚म् ।
हु॒वे नु श॒क्रं पु॑रुहू॒तमिन्द्रग्ग्॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्र॑: ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । ओं ओं ।
पूर्वदिग्भागे ललाटस्थाने इंद्राय नमः ॥ १ ॥
// (तै.सं.१-६-१२-५०) त्रातारं, इन्द्रं, अवितारं, इन्द्रं, हवे-हवे, सु-हवं, शूरं, इन्द्रं, हुवे, नु, शक्रं, पुरु-हूतं, इन्द्रं, स्वस्ति, नः, मघ-वा, धातु, इन्द्रः //
ओं भूर्भुव॒स्सुव॑: । ओं नं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑तम॒: शोशु॑चानो॒ विश्वा॒ द्वेषाग्ं॑सि॒ प्रमु॑मुग्ध्य॒स्मत् ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । नं ओं ।
आग्नेयदिग्भागे नेत्रयोस्थाने अग्नये नमः ॥ २ ॥
// (तै.सं.२-५-१२-७२) त्वं, नः, अग्ने, वरुणस्य, विद्वान्, देवस्य, हेडः, अव, यासिसीष्ठाः, यजिष्ठः, वह्नि-तमः, शोशुचानः, विश्वा, द्वेषांसि, प्र, मुमुग्धि, अस्मत् //
ओं भूर्भुव॒स्सुव॑: । ओं मों ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
सु॒गं न॒: पन्था॒मभ॑यं कृणोतु । यस्मि॒न्नक्ष॑त्रे य॒म एति॒ राजा᳚ ।
यस्मि॑न्नेनम॒भ्यषि॑ञ्चन्त दे॒वाः । तद॑स्य चि॒त्रग्ं ह॒विषा॑ यजाम ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । मों ओं ।
दक्षिणदिग्भागे कर्णयोस्थाने यमाय नमः ॥ ३ ॥
// (तै.ब्रा.३-१-२-११-२३) सुगं, नः, पन्थां, अभयं, कृणोतु, यस्मिन्, नक्षत्रे, यम, एति, राजा, यस्मिन्, एनं, अभ्यषिञ्चन्त, देवाः, तत्, अस्य, चित्रं, हविषा, यजाम //
ओं भूर्भुव॒स्सुव॑: । ओं भं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
असु॑न्वन्त॒मय॑जमानमिच्छ स्ते॒नस्ये॒त्यान्तस्क॑र॒स्यान्वे॑षि ।
अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निर्.ऋते॒ तुभ्य॑मस्तु ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । भं ओं ।
निर्.ऋतिदिग्भागे मुखस्थाने निर्.ऋतये नमः ॥ ४ ॥
// (तै.सं.४-२-५-२१) असुन्वन्तं, अयजमानं, इच्छ, स्तेनस्य, इत्यां, तस्करस्य, अनु, एषि, अन्यं, अस्मत्, इच्छ, सा, ते, इत्या, नमः, देवि, निः-ऋते, तुभ्यं, अस्तु //
ओं भूर्भुव॒स्सुव॑: । ओं गं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भि॑: ।
अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शग्ंस॒ मा न॒ आयु॒: प्रमो॑षीः ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । गं ओं ।
पश्चिमदिग्भागे बाह्वोस्थाने वरुणाय नमः ॥ ५ ॥
// (तै.सं.२-१-११-६५) तत्, त्वा, यामि, ब्रह्मणा, वन्दमानः, तत्, आ, शास्ते, यजमानः, हविः-भिः, अहेडमानः, वरुण, इह, बोधि, उरु-शंस, मा, नः, आयुः, प्र, मोषीः //
ओं भूर्भुव॒स्सुव॑: । ओं वं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
आ नो॑ नि॒युद्भि॑: श॒तिनी॑भिरध्व॒रग्ं स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् ।
वायो॑ अ॒स्मिन् ह॒विषि॑ मादयस्व यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । वं ओं ।
वायव्यदिग्भागे नासिकास्थाने वायवे नमः ॥ ६ ॥
// (तै.ब्रा.२-८-१-२) आ, नः, नियुद्भिः, शतिनीभिः, अध्वरं, सहस्रिणिभिः, उप, याहि, यज्ञं, वायो, अस्मिन्, हविषि, मादयस्व, यूयं, पात, स्वस्तिभिः, सदा, नः //
ओं भूर्भुव॒स्सुव॑: । ओं तें ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
व॒यग्ं सो॑म व्र॒ते तव॑ । मन॑स्त॒नूषु॒ बिभ्र॑तः ।
प्र॒जाव॑न्तो अशीमहि । इ॒न्द्रा॒णी दे॒वी सु॒भगा॑ सु॒पत्नी᳚ ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । तें ओं ।
उत्तरदिग्भागे जठरस्थाने कुबेराय नमः ॥ ७ ॥
// (तै.ब्रा.२-४-२-१८) वयं, सोम, व्रते, तव, मनः, तनूषु, बिभ्रतः, प्रजावन्तः, अशीमहि, इन्द्राणी, देवी, सुभगा, सुपत्नी //
ओं भूर्भुव॒स्सुव॑: । ओं रुं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
तमीशा᳚नं॒ जग॑तस्त॒स्थुष॒स्पतिं᳚ धियं जि॒न्वमव॑से हूमहे व॒यम् ।
पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये᳚ ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । रुं ओं ।
ईशान्यदिग्भागे नाभिस्थाने ईशानाय नमः ॥ ८ ॥
// (ऋ.वे.१-८९-५) तं, ईशानं, जगतः, तस्थुषः, पतिं, धियं-जिन्वं, अवसे, हूमहे, वयं, पूषा, नः, यथा, वेदसां, असत्, वृधे, रक्षिता, पायुः, अदब्धः, स्वस्तये //
ओं भूर्भुव॒स्सुव॑: । ओं द्रां ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषा᳚: ।
यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्मां अ॑वन्तु दे॒वाः ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । द्रां ओं ।
ऊर्ध्वदिग्भागे मूर्ध्निस्थाने आकाशाय नमः ॥ ९ ॥
// (ऋ.वे.८-६३-१२) अस्मे, रुद्राः, मेहना, पर्वतासः, वृत्र-हत्ये, भर-हूतौ, स-जोषाः, यः, शंसते, स्तुवते, धायि, पज्रः, इन्द्र-ज्येष्ठाः, अस्मान्, अवन्तु, देवाः //
ओं भूर्भुव॒स्सुव॑: । ओं यं ।
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
स्यो॒ना पृ॑थिवि॒ भवा॑नृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑ न॒: शर्म॑ स॒प्रथा᳚: ॥
नम॑: श॒म्भवे॑ च मयो॒भवे॑ च॒ नम॑: शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओं नमो भगवते॑ रुद्रा॒य । यं ओं ।
अधोदिग्भागे पादस्थाने पृथिव्यै नमः ॥ १० ॥
[-अप उपस्पृश्य-]
// (तै.आ.ए.का.२-१५) स्योना, पृथिवि, भवान्, ऋक्षरा, निवेशनी, यच्छा, नः, शर्म, सुप्रथाः //
(* पद्धतिपाठः – प्रणवं व्याहृतीर्बीजं शम्भवे च ततः परम् ।
दिङ्मन्त्रं शम्भवे चान्तं बीजं प्रणवमुच्चरेत् ॥ *)
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.