Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अथातः पञ्चाङ्गरुद्राणां (न्यासपूर्वकं) जपहोमार्चनाभिषेकविधिं व्याख्यास्यामः ।
ओंकारमन्त्रसंयुक्तं नित्यं ध्यायन्ति योगिनः ।
कामदं मोक्षदं तस्मै ओंकाराय नमो नमः ॥
नमस्ते देवदेवेश नमस्ते परमेश्वर ।
नमस्ते वृषभारूढ नकाराय नमो नमः ॥
ओं भूर्भुव॒स्सुव॑: । ओं नं ।
नम॑स्ते रुद्र म॒न्यव॑ उ॒तोत॒ इष॑वे॒ नम॑: ।
नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नम॑: ॥
[* या त॒ इषु॑: शि॒वत॑मा शि॒वं ब॒भूव॑ ते॒ धनु॑: ।
शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय ॥ *]
ओं कं खं गं घं ङं । ओं नमो भगवते॑ रुद्रा॒य ।
नं ओं । पूर्वाङ्गरुद्राय नमः ॥ १ ॥
// (तै.सं.४-५) नमः, ते, रुद्र, मन्यवे, उतो, ते, इषवे, नमः, नमः, ते, अस्तु, धन्वने, बाहु-भ्याम्, उत, ते, नमः, या, ते, इषुः, शिव-तमा, शिवम्, बभूव, ते, धनुः, शिवा, शरव्या, या, तव, तया, नः, रुद्र, मृडय //
महादेवं महात्मानं महापातकनाशनम् ।
महापापहरं वन्दे मकाराय नमो नमः ॥
ओं भूर्भुव॒स्सुव॑: । ओं मं ।
निध॑नपतये॒ नमः । निध॑नपतान्तिकाय॒ नमः ।
ऊर्ध्वाय॒ नमः । ऊर्ध्वलिङ्गाय॒ नमः ।
हिरण्याय॒ नमः । हिरण्यलिङ्गाय॒ नमः ।
सुवर्णाय॒ नमः । सुवर्णलिङ्गाय॒ नमः ।
दिव्याय॒ नमः । दिव्यलिङ्गाय॒ नमः ।
भवाय॒ नमः । भवलिङ्गाय॒ नमः ।
शर्वाय॒ नमः । शर्वलिङ्गाय॒ नमः ।
शिवाय॒ नमः । शिवलिङ्गाय॒ नमः ।
ज्वलाय॒ नमः । ज्वललिङ्गाय॒ नमः ।
आत्माय॒ नमः । आत्मलिङ्गाय॒ नमः ।
परमाय॒ नमः । परमलिङ्गाय॒ नमः ।
एतथ्सोमस्य॑ सूर्य॒स्य॒ सर्वलिङ्गग्ग्॑ स्थाप॒य॒ति॒ पाणिमन्त्रं॑ पवि॒त्रम् ॥
ओं चं छं जं झं ञं । ओं नमो भगवते॑ रुद्रा॒य ।
मं ओं । दक्षिणाङ्गरुद्राय नमः ॥ २ ॥
शिवं शान्तं जगन्नाथं लोकानुग्रहकारणम् ।
शिवमेकं परं वन्दे शिकाराय नमो नमः ॥
ओं भूर्भुव॒स्सुव॑: । ओं शिं ।
अपै॑तु मृ॒त्युर॒मृतं॑ न॒ आग॑न् वैवस्व॒तो नो॒ अभ॑यं कृणोतु ।
प॒र्णं वन॒स्पते॑रिवा॒भि न॑: शीयताग्ं र॒यिः सच॑तां न॒: शची॒पति॑: ॥
ओं टं ठं डं ढं णं । ओं नमो भगवते॑ रुद्रा॒य ।
शिं ओं । पश्चिमाङ्गरुद्राय नमः ॥ ३ ॥
// (तै.ब्रा.३-७-१४-१२९) अपैतु, मृत्युः, अमृतं, न, आगन्, वैवस्वतः, नः, अभयं, कृणोतु, पर्णं, वनस्पतेः, इव, अभि, नः, शीयतां, रयिः, सचतां, नः, शचीपतिः //
वाहनं वृषभो यस्य वासुकी कण्ठभूषणम् ।
वामे शक्तिधरं वन्दे वकाराय नमो नमः ॥
ओं भूर्भुव॒स्सुव॑: । ओं वां ।
प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः ।
तेनान्नेना᳚प्याय॒स्व ॥
[* नमो रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि ॥ *]
ओं तं थं दं धं नं । ओं नमो भगवते॑ रुद्रा॒य ।
वां ओं । उत्तराङ्गरुद्राय नमः ॥ ४ ॥
// (तै.सं.४-५) प्राणानां, ग्रन्थिः, असि, रुद्रः, मा, वि-शान्तकः, तेन, अन्नेन, आप्यायस्व, नमः, रुद्राय, विष्णवे, मृत्युः, मे, पाहि //
यत्र कुत्र स्थितं देवं सर्वव्यापिनमीश्वरम् ।
यल्लिङ्गं पूजयेन्नित्यं यकाराय नमो नमः ॥
ओं भूर्भुव॒स्सुव॑: । ओं यं ।
यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो
विश्वा॒ भुव॑नाऽऽवि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥
ओं पं फं बं भं मं । ओं नमो भगवते॑ रुद्रा॒य ।
यं ओं । ऊर्ध्वाङ्गरुद्राय नमः ॥ ५ ॥
// (तै.सं.५-५-९-३९) यः, रुद्रः, अप्-सु, यः, ओषधीषु, यः, रुद्रः, विश्वा, भुवना, आ-विवेश, तस्मै, रुद्राय, नमः, अस्तु //
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

