Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ राज्यनिर्वासकथनम् ॥
ततः क्रोधसमाविष्टं संरब्धं तमुपागतम् ।
अहं प्रसादयाञ्चक्रे भ्रातरं प्रियकाम्यया ॥ १ ॥
दिष्ट्याऽसि कुशली प्राप्तो दिष्ट्यापि निहतो रिपुः ।
अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दनः ॥ २ ॥
इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम् ।
छत्रं सवालव्यजनं प्रतीच्छस्व मयोद्यतम् ॥ ३ ॥
आर्तश्चाथ बिलद्वारि स्थितः संवत्सरं नृप ।
दृष्ट्वाहं शोणितं द्वारि बिलाच्चापि समुत्थितम् ॥ ४ ॥
शोकसंविग्नहृदयो भृशं व्याकुलितेन्द्रियः ।
अपिधाय बिलद्वारं गिरिशृङ्गेण तत्तथा ॥ ५ ॥
तस्माद्देशादपाक्रम्य किष्किन्धां प्राविशं पुनः ।
विषादात्त्विह मां दृष्ट्वा पौरैर्मन्त्रिभिरेव च ॥ ६ ॥
अभिषिक्तो न कामेन तन्मे त्वं क्षन्तुमर्हसि ।
त्वमेव राजा मानार्हः सदा चाहं यथापुरम् ॥ ७ ॥
राजभावनियोगोऽयं मया त्वद्विरहात्कृतः ।
सामात्यपौरनगरं स्थितं निहतकण्टकम् ॥ ८ ॥
न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् ।
मा च रोषं कृथाः सौम्य मयि शत्रुनिबर्हण ॥ ९ ॥
याचे त्वां शिरसा राजन् मया बद्धोऽयमञ्जलिः ।
बलादस्मि समागम्य मन्त्रिभिः पुरवासिभिः ॥ १० ॥
राजभावे नियुक्तोऽहं शून्यदेशजिगीषया ।
स्निग्धमेवं ब्रुवाणं मां स तु निर्भर्त्स्य वानरः ॥ ११ ॥
धिक् त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह ।
प्रकृतीश्च समानीय मन्त्रिणश्चैव सम्मतान् ॥ १२ ॥
मामाह सुहृदां मध्ये वाक्यं परमगर्हितम् ।
विदितं वो यथा रात्रौ मायावी स महासुरः ॥ १३ ॥
मां समाह्वयत क्रूरो युद्धकाङ्क्षी सुदुर्मतिः ।
तस्य तद्गर्जितं श्रुत्वा निःसृतोऽहं नृपालयात् ॥ १४ ॥
अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः ।
स तु दृष्टैव मां रात्रौ सद्वितीयं महाबलः ॥ १५ ॥
प्राद्रवद्भयसन्त्रस्तो वीक्ष्यावां तमनुद्रुतौ ।
अनुद्रुतश्च वेगेन प्रविवेश महाबिलम् ॥ १६ ॥
तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्बिलम् ।
अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः ॥ १७ ॥
अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम् ।
बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम् ॥ १८ ॥
स्थितोऽयमिति मत्वा तु प्रविष्टोऽहं दुरासदम् ।
तं च मे मार्गमाणस्य गतः संवत्सरस्तदा ॥ १९ ॥
स तु दृष्टो मया शत्रुरनिर्वेदाद्भयावहः ।
निहतश्च मया तत्र सोऽसुरो बन्धुभिः सह ॥ २० ॥
तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्बिलम् ।
पूर्णमासीद्दुराक्रामं स्तनतस्तस्य भूतले ॥ २१ ॥
सूदयित्वा तु तं शत्रुं विक्रान्तं तं महासुरम् ।
निष्क्रामन्नैव पश्यामि बिलस्यापिहितं मुखम् ॥ २२ ॥
विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः ।
यदा प्रतिवचो नास्ति ततोऽहं भृशदुःखितः ॥ २३ ॥
पादप्रहारैस्तु मया बहुभिस्तद्विदारितम् ।
ततोऽहं तेन निष्क्रम्य पथा पुरमुपागतः ॥ २४ ॥
अत्रानेनास्मि संरुद्धो राज्यं प्रार्थयताऽऽत्मनः ।
सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम् ॥ २५ ॥
एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः ।
तदा निर्वासयामास वाली विगतसाध्वसः ॥ २६ ॥
तेनाहमपविद्धश्च हृतदारश्च राघव ।
तद्भयाच्च मही कृत्स्ना क्रान्तेयं सवनार्णवा ॥ २७ ॥
ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः ।
प्रविष्टोऽस्मि दुराधर्षं वालिनः कारणान्तरे ॥ २८ ॥
एतत्ते सर्वमाख्यातं वैरानुकथनं महत् ।
अनागसा मया प्राप्तं व्यसनं पश्य राघव ॥ २९ ॥
वालिनस्तु भयार्तस्य सर्वलोकाभयङ्कर ।
कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात् ॥ ३० ॥
एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मसंहितम् ।
वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव ॥ ३१ ॥
अमोघाः सूर्यसङ्काशा ममैते निशिताः शराः ।
तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः ॥ ३२ ॥
यावत्तं नाभिपश्यामि तव भार्यापहारिणम् ।
तावत्स जीवेत् पापात्मा वाली चारित्रदूषकः ॥ ३३ ॥
आत्मानुमानात् पश्यामि मग्नं त्वां शोकसागरे ।
त्वामहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम् ॥ ३४ ॥
तस्य तद्वचनं श्रुत्वा राघवस्यात्मनो हितम् ।
सुग्रिवः परमप्रीतः सुमहद्वाक्यमब्रवीत् ॥ ३५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे दशमः सर्गः ॥ १० ॥
सम्पूर्ण वाल्मीकि रामायणे किष्किन्धकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

