Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओङ्कारनगरस्थं तं निगमान्तवनेश्वरम् ।
नित्यमेकं शिवं शान्तं वन्दे गुहमुमासुतम् ॥ १ ॥
वाचामगोचरं स्कन्दं चिदुद्यानविहारिणम् ।
गुरुमूर्तिं महेशानं वन्दे गुहमुमासुतम् ॥ २ ॥
सच्चिदनन्दरूपेशं संसारध्वान्तदीपकम् ।
सुब्रह्मण्यमनाद्यन्तं वन्दे गुहमुमासुतम् ॥ ३ ॥
स्वामिनाथं दयासिन्धुं भवाब्धेः तारकं प्रभुम् ।
निष्कलङ्कं गुणातीतं वन्दे गुहमुमासुतम् ॥ ४ ॥
निराकारं निराधारं निर्विकारं निरामयम् ।
निर्द्वन्द्वं च निरालम्बं वन्दे गुहमुमासुतम् ॥ ५ ॥
इति गुहपञ्चरत्नम् ॥
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.