Sri Gayatri Ashtakam 1 – श्री गायत्री अष्टकम् १


विश्वामित्रतपःफलां प्रियतरां विप्रालिसंसेवितां
नित्यानित्यविवेकदां स्मितमुखीं खण्डेन्दुभूषोज्ज्वलाम् ।
ताम्बूलारुणभासमानवदनां मार्ताण्डमध्यस्थितां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ १ ॥

जातीपङ्कजकेतकीकुवलयैः सम्पूजिताङ्घ्रिद्वयां
तत्त्वार्थात्मिकवर्णपङ्क्तिसहितां तत्त्वार्थबुद्धिप्रदाम् ।
प्राणायामपरायणैर्बुधजनैः संसेव्यमानां शिवां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ २ ॥

मञ्जीरध्वनिभिः समस्तजगतां मञ्जुत्वसंवर्धनीं
विप्रप्रेङ्खितवारिवारितमहारक्षोगणां मृण्मयीम् ।
जप्तुः पापहरां जपासुमनिभां हंसेन संशोभितां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ ३ ॥

काञ्चीचेलविभूषितां शिवमयीं मालार्धमालादिका-
-न्बिभ्राणां परमेश्वरीं शरणदां मोहान्धबुद्धिच्छिदाम् ।
भूरादित्रिपुरां त्रिलोकजननीमध्यात्मशाखानुतां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ ४ ॥

ध्यातुर्गर्भकृशानुतापहरणां सामात्मिकां सामगां
सायङ्कालसुसेवितां स्वरमयीं दूर्वादलश्यामलाम् ।
मातुर्दास्यविलोचनैकमतिमत्खेटीन्द्रसंराजितां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ ५ ॥

सन्ध्यारागविचित्रवस्त्रविलसद्विप्रोत्तमैः सेवितां
ताराहारसुमालिकां सुविलसद्रत्नेन्दुकुम्भान्तराम् ।
राकाचन्द्रमुखीं रमापतिनुतां शङ्खादिभास्वत्करां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ ६ ॥

वेणीभूषितमालकध्वनिकरैर्भृङ्गैः सदा शोभितां
तत्त्वज्ञानरसायनज्ञरसनासौधभ्रमद्भ्रामरीम् ।
नासालङ्कृतमौक्तिकेन्दुकिरणैः सायन्तमश्छेदिनीं
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ ७ ॥

पादाब्जान्तररेणुकुङ्कुमलसत्फालद्युरामावृतां
रम्भानाट्यविलोकनैकरसिकां वेदान्तबुद्धिप्रदाम् ।
वीणावेणुमृदङ्गकाहलरवान् देवैः कृताञ्छृण्वतीं
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ ८ ॥

हत्यापानसुवर्णतस्करमहागुर्वङ्गनासङ्गमा-
-न्दोषाञ्छैलसमान् पुरन्दरसमाः सञ्च्छिद्य सूर्योपमाः ।
गायत्रीं श्रुतिमातुरेकमनसा सन्ध्यासु ये भूसुरा
जप्त्वा यान्ति परां गतिं मनुमिमं देव्याः परं वैदिकाः ॥ ९ ॥

इति श्रीमच्छङ्कराचार्य विरचितं श्री गायत्र्यष्टकम् ।


इतर श्री गायत्री स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed