Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
जय देव महापोत्रिन् जय भूमिधराच्युत ।
हिरण्याक्षमहारक्षोविदारणविचक्षण ॥ १ ॥
त्वमनादिरनन्तश्च त्वत्तः परतरो न हि ।
त्वमेव सृष्टिकालेऽपि विधिर्भूत्वा चतुर्मुखः ॥ २ ॥
सृजस्येतज्जगत्सर्वं पासि विश्वं समन्ततः ।
कालाग्निरुद्ररूपी च कल्पान्ते सर्वजन्तुषु ॥ ३ ॥
अन्तर्यामी भवन् देव सर्वकर्ता त्वमेव हि ।
निष्कृष्टं ब्रह्मणो रूपं न जानन्ति सुरास्तव ॥ ४ ॥
प्रसीद भगवन् विष्णो भूमिं स्थापय पूर्ववत् ।
सर्वप्राणिनिवासार्थमस्तुवन् विबुधव्रजाः ॥ ५ ॥
इति श्रीस्कन्दपुराणे वेङ्कटाचलमाहात्म्ये देवकृत श्री वराह स्तुतिः ।
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.