Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नाऽहं देहो नेन्द्रियाण्यन्तरङ्गं
नाऽहङ्कारः प्राणवर्गो न चाऽहम् ।
दारापत्यक्षेत्रवित्तादिदूर-
स्साक्षी नित्यः प्रत्यगात्मा शिवोऽहम् ॥ १ ॥
रज्ज्वज्ञानाद्भाति रज्जुर्यथा हि-
स्स्वात्माज्ञानादात्मनो जीवभावः ।
आप्तोक्त्या हि भ्रान्तिनाशे स रज्जु-
र्जीवो नाऽहं देशिकोक्त्या शिवोऽहम् ॥ २ ॥
अभातीदं विश्वमात्मन्यसत्यं
सत्यज्ञानानन्दरूपे विमोहात् ।
निद्रामोहा-त्स्वप्नवत्तन्न सत्त्यं
शुद्धः पूर्णो नित्य एकश्शिवोऽहम् ॥ ३ ॥
मत्तो नान्यत्किञ्चिदत्राप्ति विश्वं
सत्यं बाह्यं वस्तुमायोपक्लुप्तम् ।
आदर्शान्तर्भासमानस्य तुल्यं
मय्यद्वैते भाति तस्माच्छिवोऽहम् ॥ ४ ॥
नाऽहं जातो न प्रवृद्धो न नष्टो
देहस्योक्ताः प्राकृतास्सर्वधर्माः ।
कर्तृत्वादि-श्चिन्मयस्यास्ति नाऽहं
कारस्यैव ह्यात्मनो मे शिवोऽहम् ॥ ५ ॥
नाऽहं जातो जन्ममृत्युः कुतो मे
नाऽहं प्राणः क्षुत्पिपासे कुतो मे ।
नाऽहं चित्तं शोकमोहौ कुतो मे
नाऽहं कर्ता बन्धमोक्षौ कुतो मे ॥ ६ ॥
इति श्रीमच्छङ्करभवत्पादाचार्य स्वामि विरचितात्मपञ्चकम् ॥
इतर विविध स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.