Aranya Kanda Sarga 49 – अरण्यकाण्ड एकोनपञ्चाशः सर्गः (४९)


॥ सीतापहरणम् ॥

सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् ।
हस्ते हस्तं समाहत्य चकार सुमहद्वपुः ॥ १ ॥

स मैथिलीं पुनर्वाक्यं बभाषे च ततो भृशम् ।
नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ ॥ २ ॥

उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः ।
आपिबेयं समुद्रं च हन्यां मृत्युं रणे स्थितः ॥ ३ ॥

अर्कं रुन्ध्यां शरैस्तीक्ष्णैर्निर्भिन्द्यां हि महीतलम् ।
कामरूपिणमुन्मत्ते पश्य मां कामदं पतिम् ॥ ४ ॥

एवमुक्तवतस्तस्य सूर्यकल्पे शिखिप्रभे ।
क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः ॥ ५ ॥

सद्यः सौम्यं परित्यज्य भिक्षुरूपं स रावणः ।
स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः ॥ ६ ॥

संरक्तनयनः श्रीमांस्तप्तकाञ्चनकुण्डलः ।
क्रोधेन महताविष्टो नीलजीमूतसन्निभः ॥ ७ ॥

दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः ।
स परिव्राजकच्छद्म महाकायो विहाय तत् ॥ ८ ॥

प्रतिपद्य स्वकं रूपं रावणो राक्षसाधिपः ।
संरक्तनयनः क्रोधाज्जीमूतनिचयप्रभः ॥ ९ ॥

रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम् ।
स तामसितकेशान्तां भास्करस्य प्रभामिव ॥ १० ॥

वसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत् ।
त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि ॥ ११ ॥

मामाश्रय वरारोहे तवाहं सदृशः पतिः ।
मां भजस्व चिराय त्वमहं श्लाघ्यः प्रियस्तव ॥ १२ ॥

नैव चाहं क्वचिद्भद्रे करिष्ये तव विप्रियम् ।
त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम् ॥ १३ ॥

राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम् ।
कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि ॥ १४ ॥

यः स्त्रिया वचनाद्राज्यं विहाय ससुहृज्जनम् ।
अस्मिन् व्यालानुचरिते वने वसति दुर्मतिः ॥ १५ ॥

इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम् ।
अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः ॥ १६ ॥

जग्राह रावणः सीतां बुधः खे रोहिणीमिव ।
वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः ॥ १७ ॥

ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना ।
तं दृष्ट्वा मृत्युसङ्काशं तीक्ष्णदंष्ट्रं महाभुजम् ॥ १८ ॥

प्राद्रवन् गिरिसङ्काशं भयार्ता वनदेवताः ।
स च मायामयो दिव्यः खरयुक्तः खरस्वनः ॥ १९ ॥

प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः ।
ततस्तां परुषैर्वाक्यैर्भर्त्सयन् स महास्वनः ॥ २० ॥

अङ्केनादाय वैदेहीं रथमारोपयत्तदा ।
सा गृहीता विचुक्रोश रावणेन यशस्विनी ॥ २१ ॥

रामेति सीता दुःखार्ता रामं दूरगतं वने ।
तामकामां स कामार्तः पन्नगेन्द्रवधूमिव ॥ २२ ॥

विवेष्टमानामादाय उत्पपाताथ रावणः ।
ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा ॥ २३ ॥

भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथाऽऽतुरा ।
हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक ॥ २४ ॥

ह्रियमाणां न जानीषे रक्षसा माममर्षिणा ।
जीवितं सुखमर्थांश्च धर्महेतोः परित्यजन् ॥ २५ ॥

ह्रियमाणामधर्मेण मां राघव न पश्यसि ।
ननु नामाविनीतानां विनेतासि परन्तप ॥ २६ ॥

कथमेवंविधं पापं न त्वं शास्सि हि रावणम् ।
ननु सद्योऽविनीतस्य दृश्यते कर्मणः फलम् ॥ २७ ॥

कालोऽप्यङ्गी भवत्यत्र सस्यानामिव पक्तये ।
स कर्म कृतवानेतत् कालोपहतचेतनः ॥ २८ ॥

जीवितान्तकरं घोरं रामाद्व्यसनमाप्नुहि ।
हन्तेदानीं सकामास्तु कैकेयी सह बान्धवैः ॥ २९ ॥

ह्रिये यद्धर्मकामस्य धर्मपत्नी यशस्विनः ।
आमन्त्रये जनस्थाने कर्णिकारान् सुपुष्पितान् ॥ ३० ॥

क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ।
माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरम् ॥ ३१ ॥

क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः ।
हंसकारण्डवाकीर्णां वन्दे गोदावरीं नदीम् ॥ ३२ ॥

क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः ।
दैवतानि च यान्यस्मिन् वने विविधपादपे ॥ ३३ ॥

नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम् ।
यानि कानि चिदप्यत्र सत्त्वानि निवसन्त्युत ॥ ३४ ॥

सर्वाणि शरणं यामि मृगपक्षिगणानपि ।
ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम् ॥ ३५ ॥

विवशाऽपहृता सीता रावणेनेति शंसत ।
विदित्वा मां महाबाहुरमुत्रापि महाबलः ॥ ३६ ॥

आनेष्यति पराक्रम्य वैवस्वतहृतामपि ।
सा तदा करुणा वाचो विलपन्ती सुदुःखिता ॥ ३७ ॥

वनस्पतिगतं गृध्रं ददर्शायतलोचना ।
सा तमुद्वीक्ष्य सुश्रोणी रावणस्य वशं गता ॥ ३८ ॥

समाक्रन्दद्भयपरा दुःखोपहतया गिरा ।
जटायो पश्य मामार्य ह्रियमाणामनाथवत् ॥ ३९ ॥

अनेन राक्षसेन्द्रेण करुणं पापकर्मणा ।
नैष वारयितुं शक्यस्तव क्रूरो निशाचरः ॥ ४० ॥

सत्त्ववान् जितकाशी च सायुधश्चैव दुर्मतिः ।
रामाय तु यथातत्त्वं जटायो हरणं मम ।
लक्ष्मणाय च तत्सर्वमाख्यातव्यमशेषतः ॥ ४१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥


सम्पूर्ण वाल्मीकि रामायणे अरण्यकाण्ड पश्यतु ।

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed