Sri Bagalamukhi Panjara Stotram – श्री बगलामुखी पञ्जर स्तोत्रम्



सूत उवाच ।
सहस्रादित्यसङ्काशं शिवं साम्बं सनातनम् ।
प्रणम्य नारदः प्राह विनम्रो नतकन्धरः ॥ १ ॥

श्रीनारद उवाच ।
भगवन् साम्ब तत्त्वज्ञ सर्वदुःखापहारक ।
श्रीमत्पीताम्बरादेव्याः पञ्जरं पुण्यदं सताम् ॥ २ ॥

प्रकाशय विभो नाथ कृपां कृत्वा ममोपरि ।
यद्यहं तव पादाब्जधूलिधूसरितोऽभवत् ॥ ३ ॥

विनियोगः –
अस्य श्रीमद्बगलामुखी पीताम्बरा पञ्जररूपस्तोत्रमन्त्रस्य भगवान् नारद ऋषिः अनुष्टुप् छन्दः जगद्वश्यकरी श्रीपीताम्बराबगलामुखी देवता ह्लीं बीजं स्वाहा शक्तिः क्लीं कीलकं मम परसैन्य मन्त्र तन्त्र यन्त्रादि कृत्यक्षयार्थं श्रीमत्पीताम्बराबगलामुखी देवता प्रीत्यर्थे जपे विनियोगः ॥

ऋष्यादि न्यासः –
भगवान् नारद ऋषये नमः शिरसि ।
अनुष्टुप् छन्दसे नमः मुखे ।
जगद्वश्यकरी श्रीपीताम्बरा बगलामुखी देवतायै नमः हृदये ।
ह्लीं बीजाय नमः दक्षिणस्तने ।
स्वाहा शक्तये नमो वामस्तने ।
क्लीं कीलकाय नमो नाभौ ।
मम परसैन्य मन्त्र तन्त्र यन्त्रादि कृत्यक्षयार्थं श्रीमत्पीताम्बराबगलामुखी देवता प्रीत्यर्थे जपे विनियोगः नमः सर्वाङ्गे ।

करन्यासः –
ह्लां अङ्गुष्ठाभ्यां नमः ।
ह्लीं तर्जनीभ्यां नमः ।
ह्लूं मध्यमाभ्यां नमः ।
ह्लैं अनामिकाभ्यां नमः ।
ह्लौं कनिष्ठिकाभ्यां नमः ।
ह्लः करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
ह्लां हृदयाय नमः ।
ह्लीं शिरसे स्वाहा ।
ह्लूं शिखायै वषट् ।
ह्लैं कवचाय हुम् ।
ह्लौं नेत्रत्रयाय वौषट् ।
ह्लः अस्त्राय फट् ।

मूलमन्त्रेण करन्यासः –
ओं ह्लीं अङ्गुष्ठाभ्यां नमः ।
ओं बगलामुखि तर्जनीभ्यां नमः ।
ओं सर्वदुष्टानां मध्यमाभ्यां नमः ।
ओं वाचं मुखं पदं स्तम्भय अनामिकाभ्यां नमः ।
ओं जिह्वां कीलय कनिष्ठिकाभ्यां नमः ।
ओं बुद्धिं विनाशय ह्लीं ओं स्वाहा करतलकरपृष्ठाभ्यां नमः ॥

मूलमन्त्रेण अङ्गन्यासः –
ओं ह्लीं हृदयाय नमः ।
ओं बगलामुखि शिरसे स्वाहा ।
ओं सर्वदुष्टानां शिखायै वषट् ।
ओं वाचं मुखं पदं स्तम्भय कवचाय हुम् ।
ओं जिह्वां कीलय नेत्रत्रयाय वौषट् ।
ओं बुद्धिं विनाशय ह्लीं ओं स्वाहा अस्त्राय फट् ॥

ध्यानम् –
मध्ये सुधाब्धिमणिमण्डपरत्नवेद्यां
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यविभूषिताङ्गीं
देवीं स्मरामि धृतमुद्गरवैरिजिह्वाम् ॥

मानसोपचारपूजा –
श्रीपीताम्बरायै नमः लं पृथिव्यात्मकं गन्धं परिकल्पयामि ।
श्रीपीताम्बरायै नमः हं आकाशात्मकं पुष्पं परिकल्पयामि ।
श्रीपीताम्बरायै नमः यं वाय्वात्मकं धूपं परिकल्पयामि ।
श्रीपीताम्बरायै नमः रं वह्न्यात्मकं दीपं परिकल्पयामि ।
श्रीपीताम्बरायै नमः वं अमृतात्मकं नैवेद्यं परिकल्पयामि ॥

इति सम्पूज्य योनिमुद्रां एवं मुद्गरमुद्रां प्रदर्श्य पञ्जरं न्यसेत् ॥

पञ्जर स्तोत्रम्-

श्रीशिव उवाच ।
पञ्जरं तत् प्रवक्ष्यामि देव्याः पापप्रणाशनम् ।
यं प्रविश्य च बाधन्ते बाणैरपि नराः क्वचित् ॥ १ ॥

ओं ऐं ह्लीं श्रीं श्रीमत् पीताम्बरादेवी बगला बुद्धिवर्धिनी ।
पातु मामनिशं साक्षात् सहस्रार्कसमद्युतिः ॥ २ ॥

ओं ऐं ह्लीं श्रीं शिखादिपादपर्यन्तं वज्रपञ्जरधारिणी ।
ब्रह्मास्त्रसञ्ज्ञा या देवी पीताम्बरविभूषिता ॥ ३ ॥

ओं ऐं ह्लीं श्रीं बगला मामवत्यत्र मूर्धभागं महेश्वरी ।
कामाङ्कुशकला पातु बगला शास्त्रबोधिनी ॥ ४ ॥

ओं ऐं ह्लीं श्रीं पीताम्बरा सहस्राक्षा ललाटं कामितार्थदा ।
पातु मां बगला नित्यं पीताम्बरसुधारिणी ॥ ५ ॥

ओं ऐं ह्लीं श्रीं कर्णयोश्चैव युगपद् अतिरत्नप्रपूजिता ।
पातु मां बगलादेवी नासिकां मे गुणाकरा ॥ ६ ॥

ओं ऐं ह्लीं श्रीं पीतपुष्पैः पीतवस्त्रैः पूजिता वेददायिनी ।
पातु मां बगला नित्यं ब्रह्मविष्ण्वादिसेविता ॥ ७ ॥

ओं ऐं ह्लीं श्रीं पीताम्बरा प्रसन्नास्या नेत्रयोर्युगपद् भ्रुवौ ।
पातु मां बगला नित्यं बलदा पीतवस्त्रधृक् ॥ ८ ॥

ओं ऐं ह्लीं श्रीं अधरोष्ठौ तथा दन्तान् जिह्वां च मुखगां मम ।
पातु मां बगलादेवी पीताम्बरसुधारिणी ॥ ९ ॥

ओं ऐं ह्लीं श्रीं गले हस्ते तथा बाह्वोः युगपद् बुद्धिदा सताम् ।
पातु मां बगलादेवी दिव्यस्रगनुलेपना ॥ १० ॥

ओं ऐं ह्लीं श्रीं हृदये च स्तनौ नाभौ करावपि कृशोदरी ।
पातु मां बगला नित्यं पीतवस्त्रघनावृता ॥ ११ ॥

जङ्घायां च तथा चोर्वोर्गुल्फयोश्चातिवेगिनी ।
अनुक्तमपि यत् स्थानं त्वक् केश नख लोमकम् ॥ १२ ॥

असृङ् मांसं तथाऽस्थीनि सन्धयश्चापि मे परा ।
ताः सर्वा बगलादेवी रक्षेन्मे च मनोहरा ॥ १३ ॥

फलश्रुतिः –
इत्येतद्वरदं गोप्यं कलावपि विशेषतः ।
पञ्जरं बगलादेव्याः घोरदारिद्र्यनाशनम् ।
पञ्जरं यः पठेद्भक्त्या स विघ्नैर्नाभिभूतये ॥ १४ ॥

अव्याहतगतिश्चास्य ब्रह्मविष्ण्वादिसत्पुरे ।
स्वर्गे मर्त्ये च पाताले नाऽरयस्तं कदाचन ॥ १५ ॥

न बाधन्ते नरव्याघ्रं पञ्जरस्थं कदाचन ।
अतो भक्तैः कौलिकैश्च स्वरक्षार्थं सदैव हि ॥ १६ ॥

पठनीयं प्रयत्नेन सर्वाऽनर्थविनाशनम् ।
महादारिद्र्यशमनं सर्वमाङ्गल्यवर्धनम् ॥ १७ ॥

विद्याविनयसत्सौख्यं महासिद्धिकरं परम् ।
इदं ब्रह्मास्त्रविद्यायाः पञ्जरं साधु गोपितम् ॥ १८ ॥

पठेत् स्मरेद्ध्यानसंस्थः स जयेन्मरणं नरः ।
यः पञ्जरं प्रविश्यैव मन्त्रं जपति वै भुवि ॥ १९ ॥

कौलिकोऽकौलिको वाऽपि व्यासवद्विचरेद्भुवि ।
चन्द्रसूर्यसमो भूत्वा वसेत्कल्पायुतं दिवि ॥ २० ॥

श्रीसूत उवाच ।
इति कथितमशेषं श्रेयसामादिबीजं
भवशतदुरितघ्नं ध्वस्तमोहान्धकारम् ।
स्मरणमतिशयेन प्राप्तिरेवात्र मर्त्यः
यदि विशति सदा वै पञ्जरं पण्डितः स्यात् ॥ २१ ॥

इति श्री पीताम्बरा पञ्जर स्तोत्रम् ॥


इतर श्री बगलामुखी स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed