Narayaneeyam Dasakam 72 – नारायणीयं द्विसप्ततितमदशकम्



नारायणीयं द्विसप्ततितमदशकम् (७२) – अक्रूरगोकुलयात्रा

कंसोऽथ नारदगिरा व्रजवासिनं त्वा-
-माकर्ण्य दीर्णहृदयः स हि गान्दिनेयम् ।
आहूय कार्मुकमखच्छलतो भवन्त-
-मानेतुमेनमहिनोदहिनाथशायिन् ॥ ७२-१ ॥

अक्रूर एष भवदङ्घ्रिपरश्चिराय
त्वद्दर्शनाक्षममनाः क्षितिपालभीत्या ।
तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वा-
-मानन्दभारमतिभूरितरं बभार ॥ ७२-२ ॥

सोऽयं रथेन सुकृती भवतो निवासं
गच्छन् मनोरथगणांस्त्वयि धार्यमाणान् ।
आस्वादयन् मुहुरपायभयेन दैवं
सम्प्रार्थयन् पथि न किञ्चिदपि व्यजानात् ॥ ७२-३ ॥

द्रक्ष्यामि वेदशतगीतगतिं पुमांसं
स्प्रक्ष्यामि किंस्विदपिनाम परिष्वजेयम् ।
किं वक्ष्यते स खलु मां क्वनु वीक्षितः स्या-
-दित्थं निनाय स भवन्मयमेव मार्गम् ॥ ७२-४ ॥

भूयः क्रमादभिविशन् भवदङ्घ्रिपूतं
वृन्दावनं हरविरिञ्चसुराभिवन्द्यम् ।
आनन्दमग्न इव लग्न इव प्रमोहे
किं किं दशान्तरमवाप न पङ्कजाक्ष ॥ ७२-५ ॥

पश्यन्नवन्दत भवद्विहृतिस्थलानि
पांसुष्ववेष्टत भवच्चरणाङ्कितेषु ।
किं ब्रूमहे बहुजना हि तदापि जाता
एवं तु भक्तितरला विरलाः परात्मन् ॥ ७२-६ ॥

सायं स गोपभवनानि भवच्चरित्र-
-गीतामृतप्रसृतकर्णरसायनानि ।
पश्यन् प्रमोदसरितेव किलोह्यमानो
गच्छन् भवद्भवनसन्निधिमन्वयासीत् ॥ ७२-७ ॥

तावद्ददर्श पशुदोहविलोकलोलं
भक्तोत्तमागतिमिव प्रतिपालयन्तम् ।
भूमन् भवन्तमयमग्रजवन्तमन्त-
-र्ब्रह्मानुभूतिरससिन्धुमिवोद्वमन्तम् ॥ ७२-८ ॥

सायन्तनाप्लवविशेषविविक्तगात्रौ
द्वौ पीतनीलरुचिराम्बरलोभनीयौ ।
नातिप्रपञ्चधृतभूषणचारुवेषौ
मन्दस्मितार्द्रवदनौ स युवां ददर्श ॥ ७२-९ ॥

दूराद्रथात् समवरुह्य नमन्तमेन-
-मुत्थाप्य भक्तकुलमौलिमथोपगूहन् ।
हर्षान्मिताक्षरगिरा कुशलानुयोगी
पाणिं प्रगृह्य सबलोऽथ गृहं निनेथ ॥ ७२-१० ॥

नन्देन साकममितादरमर्चयित्वा
तं यादवं तदुदितां निशमय्य वार्ताम् ।
गोपेषु भूपतिनिदेशकथां निवेद्य
नानाकथाभिरिह तेन निशामनैषीः ॥ ७२-११ ॥

चन्द्रागृहे किमुत चन्द्रभगागृहे नु
राधागृहे नु भवने किमु मैत्रविन्दे ।
धूर्तो विलम्बत इति प्रमदाभिरुच्चै-
-राशङ्कितो निशि मरुत्पुरनाथ पायाः ॥ ७२-१२ ॥

इति द्विसप्ततितमदशकं समाप्तम् ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed