Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
यस्मिन् जगत्सर्वमिदं विभाति
यश्चाप्यनन्यः सकलप्रपञ्चात् ।
तिलेषु तैलोपममास्थितं त्वां
श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ १ ॥
पश्यन्ति यन्न श्रुतयः शिरस्थं
शिरःस्थितं वस्त्विव सर्वलोकाः ।
त्वामात्मभूतं जगतां त्रयाणां
श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ २ ॥
अणोरणीयान् महतो महीया-
-नात्मा गुहायां निहितोऽस्य जन्तोः ।
त्वं सर्वभूतस्थितमात्मरूपं
श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ३ ॥
यः सर्वसाक्षी तमसः परस्ता-
-द्विभाति सर्वं किल यस्य भासा ।
त्वामागमान्तैरपि दुर्निरूपं
श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ४ ॥
पुमानविज्ञाय शिवं कदाचि-
-द्दुःखस्य नान्तं समुपैति धीरः ।
त्वां सच्चिदानन्दमयं प्रशान्तं
श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ५ ॥
अजं पुराणं पुरुषं महान्तं
अनश्वरं वाङ्मनसाऽति दूरम् ।
ज्ञानात्मनां हृद्यवभासमानं
श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ६ ॥
वदन्त्यमी यत्पदमेव वेदा
ज्ञाते तु यास्मिन् सकलं विबुद्धम् ।
त्वां प्रत्यगात्मनमचिन्त्यशक्तिं
श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ७ ॥
यं निर्विकल्पेन समाधिनैव
तपस्विनश्चेतसि वीतरागाः ।
ध्यायन्ति तेजोमयमद्भुतं त्वां
श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ८ ॥
त्रिलोचनं चन्द्रकलावतंसं
गङ्गातरङ्गोल्लसदुत्तमाङ्गम् ।
स्मेरास्यमिष्टप्रदमष्टमूर्तिं
श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ९ ॥
अपारसच्चित्सुखराशिमेक-
-मनादिमध्यान्तमनन्तरूपम् ।
त्रिलोचनं नीलगलं प्रशान्तं
श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ १० ॥
कैलासशैलेन्द्रशिरस्तटेषु
नगेन्द्रपुत्र्या सह संवसन्तम् ।
विभूति रुद्राक्षविभूषिताङ्गं
श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ११ ॥
इति शिवरहस्यान्तर्गते गणैः कृत श्री चन्द्रमौलीश्वर स्तुतिः ॥
इतर श्री शिव स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

