Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीदेव्युवाच ।
कैलासवासिन् भगवन् प्राणेश्वर कृपानिधे ।
भक्तवत्सल भैरव्या नाम्नामष्टोत्तरं शतम् ॥ १ ॥
न श्रुतं देवदेवेश वद मां दीनवत्सल ।
श्रीशिव उवाच ।
शृणु प्रिये महागोप्यं नाम्नामष्टोत्तरं शतम् ॥ २ ॥
भैरव्याश्शुभदं सेव्यं सर्वसम्पत्प्रदायकम् ।
यस्यानुष्ठानमात्रेण किं न सिद्ध्यति भूतले ॥ ३ ॥
ओं भैरवी भैरवाराध्या भूतिदा भूतभावना ।
आर्या ब्राह्मी कामधेनुस्सर्वसम्पत्प्रदायिनी ॥ ४ ॥
त्रैलोक्यवन्दिता देवी महिषासुरमर्दिनी ।
मोहघ्नी मालती माला महापातकनाशिनी ॥ ५ ॥
क्रोधिनी क्रोधनिलया क्रोधरक्तेक्षणा कुहूः ।
त्रिपुरा त्रिपुराधारा त्रिनेत्रा भीमभैरवी ॥ ६ ॥
देवकी देवमाता च देवदुष्टविनाशिनी ।
दामोदरप्रिया दीर्घा दुर्गा दुर्गतिनाशिनी ॥ ७ ॥
लम्बोदरी लम्बकर्णा प्रलम्बितपयोधरा ।
प्रत्यङ्गिरा प्रतिपदा प्रणतक्लेशनाशिनी ॥ ८ ॥
प्रभावती गुणवती गणमाता गुहेश्वरी ।
क्षीराब्धितनया क्षेम्या जगत्त्राणविधायिनी ॥ ९ ॥
महामारी महामोहा महाक्रोधा महानदी ।
महापातकसंहर्त्री महामोहप्रदायिनी ॥ १० ॥
विकराला महाकाला कालरूपा कलावती ।
कपालखट्वाङ्गधरा खड्गखर्परधारिणी ॥ ११ ॥
कुमारी कुङ्कुमप्रीता कुङ्कुमारुणरञ्जिता ।
कौमोदकी कुमुदिनी कीर्त्या कीर्तिप्रदायिनी ॥ १२ ॥
नवीना नीरदा नित्या नन्दिकेश्वरपालिनी ।
घर्घरा घर्घरारावा घोरा घोरस्वरूपिणी ॥ १३ ॥
कलिघ्नी कलिधर्मघ्नी कलिकौतुकनाशिनी ।
किशोरी केशवप्रीता क्लेशसङ्घनिवारिणी ॥ १४ ॥
महोन्मत्ता महामत्ता महाविद्या महीमयी ।
महायज्ञा महावाणी महामन्दरधारिणी ॥ १५ ॥
मोक्षदा मोहदा मोहा भुक्तिमुक्तिप्रदायिनी ।
अट्टाट्टहासनिरता क्वणन्नूपुरधारिणी ॥ १६ ॥
दीर्घदम्ष्ट्रा दीर्घमुखी दीर्घघोणा च दीर्घिका ।
दनुजान्तकरी दुष्टा दुःखदारिद्र्यभञ्जिनी ॥ १७ ॥
दुराचारा च दोषघ्नी दमपत्नी दयापरा ।
मनोभवा मनुमयी मनुवंशप्रवर्धिनी ॥ १८ ॥
श्यामा श्यामतनुश्शोभा सौम्या शम्भुविलासिनी ।
इति ते कथितं दिव्यं नाम्नामष्टोत्तरं शतम् ॥ १९ ॥
भैरव्या देवदेवेश्यास्तव प्रीत्यै सुरेश्वरि ।
अप्रकाश्यमिदं गोप्यं पठनीयं प्रयत्नतः ॥ २० ॥
देवीं ध्यात्वा सुरां पीत्वा मकारैः पञ्चकैः प्रिये ।
पूजयेत्सततं भक्त्या पठेत् स्तोत्रमिदं शुभम् ॥ २१ ॥
षण्मासाभ्यन्तरे सोऽपि गणनाथसमो भवेत् ।
किमत्र बहुनोक्तेन त्वदग्रे प्राणवल्लभे ॥ २२ ॥
सर्वं जानासि सर्वज्ञे पुनर्मां परिपृच्छसि ।
न देयं परशिष्येभ्यो निन्दकेभ्यो विशेषतः ॥ २३ ॥
इति श्रीत्रिपुरभैरवी अष्टोत्तरशतनामस्तोत्रम् ।
इतर दशमहाविद्या स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.