Sri Vishnu Sahasranama Stotram (Garuda Purane) – श्री विष्णु सहस्रनाम स्तोत्रम् (गरुडपुराणे)


रुद्र उवाच ।
संसारसागराद्घोरान्मुच्यते किं जपन् प्रभो ।
नरस्तन्मे परं जप्यं कथय त्वं जनार्दन ॥ १ ॥

हरिरुवाच ।
परेश्वरं परं ब्रह्म परमात्मानमव्ययम् ।
विष्णुं नामसहस्रेण स्तुवन्मुक्तो भवेन्नरः ॥ २ ॥

यत्पवित्रं परं जप्यं कथयामि वृषध्वज ।
शृणुष्वावहितो भूत्वा सर्वपापविनाशनम् ॥ ३ ॥

ओम् ॥ वासुदेवो महाविष्णुर्वामनो वासवो वसुः ।
बालचन्द्रनिभो बालो बलभद्रो बलाधिपः ॥ ४ ॥

बलिबन्धनकृद्वेधा वरेण्यो वेदवित् कविः ।
वेदकर्ता वेदरूपो वेद्यो वेदपरिप्लुतः ॥ ५ ॥

वेदाङ्गवेत्ता वेदेशो बलाधारो बलार्दनः ।
अविकारो वरेशश्च वरुणो वरुणाधिपः ॥ ६ ॥

वीरहा च बृहद्वीरो वन्दितः परमेश्वरः ।
आत्मा च परमात्मा च प्रत्यगात्मा वियत्परः ॥ ७ ॥

पद्मनाभः पद्मनिधिः पद्महस्तो गदाधरः ।
परमः परभूतश्च पुरुषोत्तम ईश्वरः ॥ ८ ॥

पद्मजङ्घः पुण्डरीकः पद्ममालाधरः प्रियः ।
पद्माक्षः पद्मगर्भश्च पर्जन्यः पद्मसंस्थितः ॥ ९ ॥

अपारः परमार्थश्च पराणां च परः प्रभुः ।
पण्डितः पण्डितेड्यश्च पवित्रः पापमर्दकः ॥ १० ॥

शुद्धः प्रकाशरूपश्च पवित्रः परिरक्षकः ।
पिपासावर्जितः पाद्यः पुरुषः प्रकृतिस्तथा ॥ ११ ॥

प्रधानं पृथिवीपद्मं पद्मनाभः प्रियप्रदः ।
सर्वेशः सर्वगः सर्वः सर्ववित् सर्वदः सुरः ॥ १२ ॥

सर्वस्य जगतो धाम सर्वदर्शी च सर्वभृत् ।
सर्वानुग्रहकृद्देवः सर्वभूतहृदिस्थितः ॥ १३ ॥

सर्वपूज्यश्च सर्वाद्यः सर्वदेवनमस्कृतः ।
सर्वस्य जगतो मूलं सकलो निष्कलोऽनलः ॥ १४ ॥

सर्वगोप्ता सर्वनिष्ठः सर्वकारणकारणम् ।
सर्वध्येयः सर्वमित्रः सर्वदेवस्वरूपधृक् ॥ १५ ॥

सर्वाध्यक्षः सुराध्यक्षः सुरासुरनमस्कृतः ।
दुष्टानां चासुराणां च सर्वदा घातकोऽन्तकः ॥ १६ ॥

सत्यपालश्च सन्नाभः सिद्धेशः सिद्धवन्दितः ।
सिद्धसाध्यः सिद्धसिद्धः साध्यसिद्धो हृदीश्वरः ॥ १७ ॥

शरणं जगतश्चैव श्रेयः क्षेमस्तथैव च ।
शुभकृच्छोभनः सौम्यः सत्यः सत्यपराक्रमः ॥ १८ ॥

सत्यस्थः सत्यसङ्कल्पः सत्यवित् सत्यदस्तथा ।
धर्मो धर्मी च कर्मी च सर्वकर्मविवर्जितः ॥ १९ ॥

कर्मकर्ता च कर्मैव क्रिया कार्यं तथैव च ।
श्रीपतिर्नृपतिः श्रीमान् सर्वस्य पतिरूर्जितः ॥ २० ॥

सदेवानां पतिश्चैव वृष्णीनां पतिरीडितः ।
पतिर्हिरण्यगर्भस्य त्रिपुरान्तपतिस्तथा ॥ २१ ॥

पशूनां च पतिः प्रायो वसूनां पतिरेव च ।
पतिराखण्डलस्यैव वरुणस्य पतिस्तथा ॥ २२ ॥

वनस्पतीनां च पतिरनिलस्य पतिस्तथा ।
अनलस्य पतिश्चैव यमस्य पतिरेव च ॥ २३ ॥

कुबेरस्य पतिश्चैव नक्षत्राणां पतिस्तथा ।
ओषधीनां पतिश्चैव वृक्षाणां च पतिस्तथा ॥ २४ ॥

नागानां पतिरर्कस्य दक्षस्य पतिरेव च ।
सुहृदां च पतिश्चैव नृपाणां च पतिस्तथा ॥ २५ ॥

गन्धर्वाणां पतिश्चैव असूनां पतिरुत्तमः ।
पर्वतानां पतिश्चैव निम्नगानां पतिस्तथा ॥ २६ ॥

सुराणां च पतिः श्रेष्ठः कपिलस्य पतिस्तथा ।
लतानां च पतिश्चैव वीरुधां च पतिस्तथा ॥ २७ ॥

मुनीनां च पतिश्चैव सूर्यस्य पतिरुत्तमः ।
पतिश्चन्द्रमसः श्रेष्ठः शुक्रस्य पतिरेव च ॥ २८ ॥

ग्रहाणां च पतिश्चैव राक्षसानां पतिस्तथा ।
किन्नराणां पतिश्चैव द्विजानां पतिरुत्तमः ॥ २९ ॥

सरितां च पतिश्चैव समुद्राणां पतिस्तथा ।
सरसां च पतिश्चैव भूतानां च पतिस्तथा ॥ ३० ॥

वेतालानां पतिश्चैव कूष्माण्डानां पतिस्तथा ।
पक्षिणां च पतिः श्रेष्ठः पशूनां पतिरेव च ॥ ३१ ॥

महात्मा मङ्गलो मेयो मन्दरो मन्दरेश्वरः ।
मेरुर्माता प्रमाणं च माधवो मलवर्जितः ॥ ३२ ॥

मालाधरो महादेवो महादेवेन पूजितः ।
महाशान्तो महाभागो मधुसूदन एव च ॥ ३३ ॥

महावीर्यो महाप्राणो मार्कण्डेयर्षिवन्दितः ।
मायात्मा मायया बद्धो मायया तु विवर्जितः ॥ ३४ ॥

मुनिस्तुतो मुनिर्मैत्रो महानासो महाहनुः ।
महाबाहुर्महादान्तो मरणेन विवर्जितः ॥ ३५ ॥

महावक्त्रो महात्मा च महाकायो महोदरः ।
महापादो महाग्रीवो महामानी महामनाः ॥ ३६ ॥

महागतिर्महाकीर्तिर्महारूपो महासुरः ।
मधुश्च माधवश्चैव महादेवो महेश्वरः ॥ ३७ ॥

मखेज्यो मखरूपी च माननीयो मखेश्वरः ।
महावातो महाभागो महेशोऽतीतमानुषः ॥ ३८ ॥

मानवश्च मनुश्चैव मानवानां प्रियङ्करः ।
मृगश्च मृगपूज्यश्च मृगाणां च पतिस्तथा ॥ ३९ ॥

बुधस्य च पतिश्चैव पतिश्चैव बृहस्पतेः ।
पतिः शनैश्चरस्यैव राहोः केतोः पतिस्तथा ॥ ४० ॥

लक्ष्मणो लक्षणश्चैव लम्बोष्ठो ललितस्तथा ।
नानालङ्कारसम्युक्तो नानाचन्दनचर्चितः ॥ ४१ ॥

नानारसोज्ज्वलद्वक्त्रो नानापुष्पोपशोभितः ।
रामो रमापतिश्चैव सभार्यः परमेश्वरः ॥ ४२ ॥

रत्नदो रत्नहर्ता च रूपी रूपविवर्जितः ।
महारूपोग्ररूपश्च सौम्यरूपस्तथैव च ॥ ४३ ॥

नीलमेघनिभः शुद्धः कालमेघनिभस्तथा ।
धूमवर्णः पीतवर्णो नानारूपो ह्यवर्णकः ॥ ४४ ॥

विरूपो रूपदश्चैव शुक्लवर्णस्तथैव च ।
सर्ववर्णो महायोगी यज्ञो यज्ञकृदेव च ॥ ४५ ॥

सुवर्णवर्णवांश्चैव सुवर्णाख्यस्तथैव च ।
सुवर्णावयवश्चैव सुवर्णः स्वर्णमेखलः ॥ ४६ ॥

सुवर्णस्य प्रदाता च सुवर्णेशस्तथैव च ।
सुवर्णस्य प्रियश्चैव सुवर्णाढ्यस्तथैव च ॥ ४७ ॥

सुपर्णी च महापर्णी सुपर्णस्य च कारणम् ।
वैनतेयस्तथादित्य आदिरादिकरः शिवः ॥ ४८ ॥

कारणं महतश्चैव प्रधानस्य च कारणम् ।
बुद्धीनां कारणं चैव कारणं मनसस्तथा ॥ ४९ ॥

कारणं चेतसश्चैव अहङ्कारस्य कारणम् ।
भूतानां कारणं तद्वत्कारणं च विभावसोः ॥ ५० ॥

आकाशकारणं तद्वत्पृथिव्याः कारणं परम् ।
अण्डस्य कारणं चैव प्रकृतेः कारणं तथा ॥ ५१ ॥

देहस्य कारणं चैव चक्षुषश्चैव कारणम् ।
श्रोत्रस्य कारणं तद्वत्कारणं च त्वचस्तथा ॥ ५२ ॥

जिह्वायाः कारणं चैव प्राणस्यैव च कारणम् ।
हस्तयोः कारणं तद्वत्पादयोः कारणं तथा ॥ ५३ ॥

वाचश्च कारणं तद्वत्पायोश्चैव तु कारणम् ।
इन्द्रस्य कारणं चैव कुबेरस्य च कारणम् ॥ ५४ ॥

यमस्य कारणं चैव ईशानस्य च कारणम् ।
यक्षाणां कारणं चैव रक्षसां कारणं परम् ॥ ५५ ॥

नृपाणां कारणं श्रेष्ठं धर्मस्यैव तु कारणम् ।
जन्तूनां कारणं चैव वसूनां कारणं परम् ॥ ५६ ॥

मनूनां कारणं चैव पक्षिणां कारणं परम् ।
मुनीनां कारणं श्रेष्ठ योगिनां कारणं परम् ॥ ५७ ॥

सिद्धानां कारणं चैव यक्षाणां कारणं परम् ।
कारणं किन्नराणां च गन्धर्वाणां च कारणम् ॥ ५८ ॥

नदानां कारणं चैव नदीनां कारणं परम् ।
कारणं च समुद्राणां वृक्षाणां कारणं तथा ॥ ५९ ॥

कारणं वीरुधां चैव लोकानां कारणं तथा ।
पाताल कारणं चैव देवानां कारणं तथा ॥ ६० ॥

सर्पाणां कारणं चैव श्रेयसां कारणं तथा ।
पशूनां कारणं चैव सर्वेषां कारणं तथा ॥ ६१ ॥

देहात्मा चेन्द्रियात्मा च आत्मा बुद्धेस्तथैव च ।
मनसश्च तथैवात्मा चात्माहङ्कारचेतसः ॥ ६२ ॥

जाग्रतः स्वपतश्चात्मा महदात्मा परस्तथा ।
प्रधानस्य परात्मा च आकाशात्मा ह्यपां तथा ॥ ६३ ॥

पृथिव्याः परमात्मा च रसस्यात्मा तथैव च ।
गन्धस्य परमात्मा च रूपस्यात्मा परस्तथा ॥ ६४ ॥

शब्दात्मा चैव वागात्मा स्पर्शात्मा पुरुषस्तथा ।
श्रोत्रात्मा च त्वगात्मा च जिह्वात्मा परमस्तथा ॥ ६५ ॥

घ्राणात्मा चैव हस्तात्मा पादात्मा परमस्तथा ।
उपस्थस्य तथैवात्मा पाय्वात्मा परमस्तथा ॥ ६६ ॥

इन्द्रात्मा चैव ब्रह्मात्मा रुद्रात्मा च मनोस्तथा ।
दक्षप्रजापतेरात्मा सत्यात्मा परमस्तथा ॥ ६७ ॥

ईशात्मा परमात्मा च रौद्रात्मा मोक्षविद्यतिः ।
यत्नवांश्च तथा यत्नश्चर्मी खड्गी मुरान्तकः ॥ ६८ ॥

ह्रीप्रवर्तनशीलश्च यतीनां च हिते रतः ।
यतिरूपी च योगी च योगिध्येयो हरिः शितिः ॥ ६९ ॥

संविन्मेधा च कालश्च ऊष्मा वर्षा मतिस्तथा ।
संवत्सरो मोक्षकरो मोहप्रध्वंसकस्तथा ॥ ७० ॥

मोहकर्ता च दुष्टानां माण्डव्यो वडवामुखः ।
संवर्तः कालकर्ता च गौतमो भृगुरङ्गिराः ॥ ७१ ॥

अत्रिर्वसिष्ठः पुलहः पुलस्त्यः कुत्स एव च ।
याज्ञवल्क्यो देवलश्च व्यासश्चैव पराशरः ॥ ७२ ॥

शर्मदश्चैव गाङ्गेयो हृषीकेशो बृहच्छ्रवाः ।
केशवः क्लेशहन्ता च सुकर्णः कर्णवर्जितः ॥ ७३ ॥

नारायणो महाभागः प्राणस्य पतिरेव च ।
अपानस्य पतिश्चैव व्यानस्य पतिरेव च ॥ ७४ ॥

उदानस्य पतिः श्रेष्ठः समानस्य पतिस्तथा ।
शब्दस्य च पतिः श्रेष्ठः स्पर्शस्य पतिरेव च ॥ ७५ ॥

रूपाणां च पतिश्चाद्यः खड्गपाणिर्हलायुधः ।
चक्रपाणिः कुण्डली च श्रीवत्साङ्कस्तथैव च ॥ ७६ ॥

प्रकृतिः कौस्तुभग्रीवः पीताम्बरधरस्तथा ।
सुमुखो दुर्मुखश्चैव मुखेन तु विवर्जितः ॥ ७७ ॥

अनन्तोऽनन्तरूपश्च सुनखः सुरमन्दरः ।
सुकपोलो विभुर्जिष्णुर्भ्राजिष्णुश्चेषुधीस्तथा ॥ ७८ ॥

हिरण्यकशिपोर्हन्ता हिरण्याक्षविमर्दकः ।
निहन्ता पूतनायाश्च भास्करान्तविनाशनः ॥ ७९ ॥

केशिनो दलनश्चैव मुष्टिकस्य विमर्दकः ।
कंसदानवभेत्ता च चाणूरस्य प्रमर्दकः ॥ ८० ॥

अरिष्टस्य निहन्ता च अक्रूरप्रिय एव च ।
अक्रूरः क्रूररूपश्च अक्रूरप्रियवन्दितः ॥ ८१ ॥

भगहा भगवान् भानुस्तथा भागवतः स्वयम् ।
उद्धवश्चोद्धवस्येशो ह्युद्धवेन विचिन्तितः ॥ ८२ ॥

चक्रधृक् चञ्चलश्चैव चलाचलविवर्जितः ।
अहङ्कारोपमश्चित्तं गगनं पृथिवी जलम् ॥ ८३ ॥

वायुश्चक्षुस्तथा श्रोत्रं जिह्वा च घ्राणमेव च ।
वाक्पाणिपादजवनः पायूपस्थस्तथैव च ॥ ८४ ॥

शङ्करश्चैव सर्वश्च क्षान्तिदः क्षान्तिकृन्नरः ।
भक्तप्रियस्तथा भर्ता भक्तिमान् भक्तिवर्धनः ॥ ८५ ॥

भक्तस्तुतो भक्तपरः कीर्तिदः कीर्तिवर्धनः ।
कीर्तिर्दीप्तिः क्षमाकान्तिर्भक्तश्चैव दया परा ॥ ८६ ॥

दानं दाता च कर्ता च देवदेवप्रियः शुचिः ।
शुचिमान् सुखदो मोक्षः कामश्चार्थः सहस्रपात् ॥ ८७ ॥

सहस्रशीर्षा वैद्यश्च मोक्षद्वारं तथैव च ।
प्रजाद्वारं सहस्राक्षः सहस्रकर एव च ॥ ८८ ॥

शुक्रश्च सुकिरीटी च सुग्रीवः कौस्तुभस्तथा ।
प्रद्युम्नश्चानिरुद्धश्च हयग्रीवश्च सूकरः ॥ ८९ ॥

मत्स्यः परशुरामश्च प्रह्लादो बलिरेव च ।
शरण्यश्चैव नित्यश्च बुद्धो मुक्तः शरीरभृत् ॥ ९० ॥

खरदूषणहन्ता च रावणस्य प्रमर्दनः ।
सीतापतिश्च वर्धिष्णुर्भरतश्च तथैव च ॥ ९१ ॥

कुम्भेन्द्रजिन्निहन्ता च कुम्भकर्णप्रमर्दनः ।
नरान्तकान्तकश्चैव देवान्तकविनाशनः ॥ ९२ ॥

दुष्टासुरनिहन्ता च शम्बरारिस्तथैव च ।
नरकस्य निहन्ता च त्रिशीर्षस्य विनाशनः ॥ ९३ ॥

यमलार्जुनभेत्ता च तपोहितकरस्तथा ।
वादित्रं चैव वाद्यं च बुद्धश्चैव वरप्रदः ॥ ९४ ॥

सारः सारप्रियः सौरः कालहन्तृनिकृन्तनः ।
अगस्त्यो देवलश्चैव नारदो नारदप्रियः ॥ ९५ ॥

प्राणोऽपानस्तथा व्यानो रजः सत्त्वं तमः शरत् ।
उदानश्च समानश्च भेषजं च भिषक् तथा ॥ ९६ ॥

कूटस्थः स्वच्छरूपश्च सर्वदेहविवर्जितः ।
चक्षुरिन्द्रियहीनश्च वागिन्द्रियविवर्जितः ॥ ९७ ॥

हस्तेन्द्रियविहीनश्च पादाभ्यां च विवर्जितः ।
पायूपस्थविहीनश्च मरुतापविवर्जितः ॥ ९८ ॥ [महाताप]

प्रबोधेन विहीनश्च बुद्ध्या चैव विवर्जितः ।
चेतसा विगतश्चैव प्राणेन च विवर्जितः ॥ ९९ ॥

अपानेन विहीनश्च व्यानेन च विवर्जितः ।
उदानेन विहीनश्च समानेन विवर्जितः ॥ १०० ॥

आकाशेन विहीनश्च वायुना परिवर्जितः ।
अग्निना च विहीनश्च उदकेन विवर्जितः ॥ १०१ ॥

पृथिव्या च विहीनश्च शब्देन च विवर्जितः ।
स्पर्शेन च विहीनश्च सर्वरूपविवर्जितः ॥ १०२ ॥

रागेण विगतश्चैव अघेन परिवर्जितः ।
शोकेन रहितश्चैव वचसा परिवर्जितः ॥ १०३ ॥

रजोविवर्जितश्चैव विकारैः षड्भिरेव च ।
कामेन वर्जितश्चैव क्रोधेन परिवर्जितः ॥ १०४ ॥

लोभेन विगतश्चैव दम्भेन च विवर्जितः ।
सूक्ष्मश्चैव सुसूक्ष्मश्च स्थूलात्स्थूलतरस्तथा ॥ १०५ ॥

विशारदो बलाध्यक्षः सर्वस्य क्षोभकस्तथा ।
प्रकृतेः क्षोभकश्चैव महतः क्षोभकस्तथा ॥ १०६ ॥

भूतानां क्षोभकश्चैव बुद्धेश्च क्षोभकस्तथा ।
इन्द्रियाणां क्षोभकश्च विषयक्षोभकस्तथा ॥ १०७ ॥

ब्रह्मणः क्षोभकश्चैव रुद्रस्य क्षोभकस्तथा ।
अगम्यश्चक्षुरादेश्च श्रोत्रागम्यस्तथैव च ॥ १०८ ॥

त्वचा न गम्यः कूर्मश्च जिह्वाऽग्राह्यस्तथैव च ।
घ्राणेन्द्रियागम्य एव वाचाऽग्राह्यस्तथैव च ॥ १०९ ॥

अगम्यश्चैव पाणिभ्यां पदागम्यस्तथैव च ।
अग्राह्यो मनसश्चैव बुद्ध्याऽग्राह्यो हरिस्तथा ॥ ११० ॥

अहं बुद्ध्या तथाऽग्राह्यश्चेतसाऽग्राह्य एव च ।
शङ्खपाणिश्चाव्ययश्च गदापाणिस्तथैव च ॥ १११ ॥

शार्ङ्गपाणिश्च कृष्णश्च ज्ञानमूर्तिः परन्तपः ।
तपस्वी ज्ञानगम्यो हि ज्ञानी ज्ञानविदेव च ॥ ११२ ॥

ज्ञेयश्च ज्ञेयहीनश्च ज्ञप्तिश्चैतन्यरूपकः ।
भावो भाव्यो भवकरो भावनो भवनाशनः ॥ ११३ ॥

गोविन्दो गोपतिर्गोपः सर्वगोपीसुखप्रदः ।
गोपालो गोगतिश्चैव गोमतिर्गोधरस्तथा ॥ ११४ ॥

उपेन्द्रश्च नृसिंहश्च शौरिश्चैव जनार्दनः ।
आरणेयो बृहद्भानुर्बृहद्दीप्तिस्तथैव च ॥ ११५ ॥

दामोदरस्त्रिकालश्च कालज्ञः कालवर्जितः ।
त्रिसन्ध्यो द्वापरं त्रेता प्रजाद्वारं त्रिविक्रमः ॥ ११६ ॥

विक्रमो दण्डहस्तश्च ह्येकदण्डी त्रिदण्डधृक् ।
सामभेदस्तथोपायः सामरूपी च सामगः ॥ ११७ ॥

सामवेदो ह्यथर्वश्च सुकृतः सुतरूपणः ।
अथर्ववेदविच्चैव ह्यथर्वाचार्य एव च ॥ ११८ ॥

ऋग्रूपी चैव ऋग्वेद ऋग्वेदेषु प्रतिष्ठितः ।
यजुर्वेत्ता यजुर्वेदो यजुर्वेदविदेकपात् ॥ ११९ ॥

बहुपाच्च सुपाच्चैव तथैव च सहस्रपात् ।
चतुष्पाच्च द्विपाच्चैव स्मृतिर्न्यायो यमो बली ॥ १२० ॥

सन्न्यासी चैव सन्न्यासश्चतुराश्रम एव च ।
ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः ॥ १२१ ॥

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वर्णस्तथैव च ।
शीलदः शीलसम्पन्नो दुःशीलपरिवर्जितः ॥ १२२ ॥

मोक्षोऽध्यात्मसमाविष्टः स्तुतिः स्तोता च पूजकः ।
पूज्यो वाक्करणं चैव वाच्यं चैव तु वाचकः ॥ १२३ ॥

वेत्ता व्याकरणं चैव वाक्यं चैव च वाक्यवित् ।
वाक्यगम्यस्तीर्थवासी तीर्थस्तीर्थी च तीर्थवित् ॥ १२४ ॥

तीर्थादिभूतः साङ्ख्यश्च निरुक्तं त्वधिदैवतम् ।
प्रणवः प्रणवेशश्च प्रणवेन प्रवन्दितः ॥ १२५ ॥

प्रणवेन च लक्ष्यो वै गायत्री च गदाधरः ।
शालग्रामनिवासी च शालग्रामस्तथैव च ॥ १२६ ॥

जलशायी योगशायी शेषशायी कुशेशयः ।
महीभर्ता च कार्यं च कारणं पृथिवीधरः ॥ १२७ ॥

प्रजापतिः शाश्वतश्च काम्यः कामयिता विराट् ।
सम्राट् पूषा तथा स्वर्गो रथस्थः सारथिर्बलम् ॥ १२८ ॥

धनी धनप्रदो धन्यो यादवानां हिते रतः ।
अर्जुनस्य प्रियश्चैव ह्यर्जुनो भीम एव च ॥ १२९ ॥

पराक्रमो दुर्विषहः सर्वशास्त्रविशारदः ।
सारस्वतो महाभीष्मः पारिजातहरस्तथा ॥ १३० ॥

अमृतस्य प्रदाता च क्षीरोदः क्षीरमेव च ।
इन्द्रात्मजस्तस्य गोप्ता गोवर्धनधरस्तथा ॥ १३१ ॥

कंसस्य नाशनस्तद्वद्धस्तिपो हस्तिनाशनः ।
शिपिविष्टः प्रसन्नश्च सर्वलोकार्तिनाशनः ॥ १३२ ॥

मुद्रो मुद्राकरश्चैव सर्वमुद्राविवर्जितः ।
देही देहस्थितश्चैव देहस्य च नियामकः ॥ १३३ ॥

श्रोता श्रोत्रनियन्ता च श्रोतव्यः श्रवणं तथा ।
त्वक्-स्थितश्च स्पर्शयित्वा स्पृश्यं च स्पर्शनं तथा ॥ १३४ ॥

रूपद्रष्टा च चक्षुःस्थो नियन्ता चक्षुषस्तथा ।
दृश्यं चैव तु जिह्वास्थो रसज्ञश्च नियामकः ॥ १३५ ॥

घ्राणस्थो घ्राणकृद्घ्राता घ्राणेन्द्रियनियामकः ।
वाक्-स्थो वक्ता च वक्तव्यो वचनं वाङ्नियामकः ॥ १३६ ॥

प्राणिस्थः शिल्पकृच्छिल्पो हस्तयोश्च नियामकः ।
पदव्यश्चैव गन्ता च गन्तव्यं गमनं तथा ॥ १३७ ॥

नियन्ता पादयोश्चैव पाद्यभाक् च विसर्गकृत् ।
विसर्गस्य नियन्ता च ह्युपस्थस्थः सुखं तथा ॥ १३८ ॥

उपस्थस्य नियन्ता च तदानन्दकरश्च ह ।
शत्रुघ्नः कार्तवीर्यश्च दत्तात्रेयस्तथैव च ॥ १३९ ॥

अलर्कस्य हितश्चैव कार्तवीर्यनिकृन्तनः ।
कालनेमिर्महानेमिर्मेघो मेघपतिस्तथा ॥ १४० ॥

अन्नप्रदोऽन्नरूपी च ह्यन्नादोऽन्नप्रवर्तकः ।
धूमकृद्धूमरूपश्च देवकीपुत्र उत्तमः ॥ १४१ ॥

देवक्यानन्दनो नन्दो रोहिण्याः प्रिय एव च ।
वसुदेवप्रियश्चैव वसुदेवसुतस्तथा ॥ १४२ ॥

दुन्दुभिर्हासरूपश्च पुष्पहासस्तथैव च ।
अट्‍टहासप्रियश्चैव सर्वाध्यक्षः क्षरोऽक्षरः ॥ १४३ ॥

अच्युतश्चैव सत्येशः सत्यायाश्च प्रियो वरः ।
रुक्मिण्याश्च पतिश्चैव रुक्मिण्यावल्लभस्तथा ॥ १४४ ॥

गोपीनां वल्लभश्चैव पुण्यश्लोकश्च विश्रुतः ।
वृषाकपिर्यमो गुह्यो मुकुलश्च बुधस्तथा ॥ १४५ ॥

राहुः केतुर्ग्रहो ग्राहो गजेन्द्रमुखमेलकः ।
ग्राहस्य विनिहन्ता च ग्रामणी रक्षकस्तथा ॥ १४६ ॥

किन्नरश्चैव सिद्धश्च छन्दः स्वच्छन्द एव च ।
विश्वरूपो विशालाक्षो दैत्यसूदन एव च ॥ १४७ ॥

अनन्तरूपो भूतस्थो देवदानवसंस्थितः ।
सुषुप्तिस्थः सुषुप्तिश्च स्थानं स्थानान्त एव च ॥ १४८ ॥

जगत्स्थश्चैव जागर्ता स्थानं जागरितं तथा ।
स्वप्नस्थः स्वप्नवित्स्वप्नस्थानं स्वप्नस्तथैव च ॥ १४९ ॥

जाग्रत्स्वप्नसुषुप्तेश्च विहीनो वै चतुर्थकः ।
विज्ञानं वेद्यरूपं च जीवो जीवयिता तथा ॥ १५० ॥

भुवनाधिपतिश्चैव भुवनानां नियामकः ।
पातालवासी पातालं सर्वज्वरविनाशनः ॥ १५१ ॥

परमानन्दरूपी च धर्माणां च प्रवर्तकः ।
सुलभो दुर्लभश्चैव प्राणायामपरस्तथा ॥ १५२ ॥

प्रत्याहारो धारकश्च प्रत्याहारकरस्तथा ।
प्रभा कान्तिस्तथा ह्यर्चिः शुद्धस्फटिकसन्निभः ॥ १५३ ॥

अग्राहश्चैव गौरश्च सर्वः शुचिरभिष्टुतः ।
वषट्कारो वषड्वौषट् स्वधा स्वाहा रतिस्तथा ॥ १५४ ॥

पक्ता नन्दयिता भोक्ता बोद्धा भावयिता तथा ।
ज्ञानात्मा चैव देहात्मा भूमा सर्वेश्वरेश्वरः ॥ १५५ ॥

नदी नन्दी च नन्दीशो भारतस्तरुनाशनः ।
चक्रपः श्रीपतिश्चैव नृपाणां चक्रवर्तिनाम् ॥ १५६ ॥

ईशश्च सर्वदेवानां द्वारकासंस्थितस्तथा ।
पुष्करः पुष्कराध्यक्षः पुष्करद्वीप एव च ॥ १५७ ॥

भरतो जनको जन्यः सर्वाकारविवर्जितः ।
निराकारो निर्निमित्तो निरातङ्को निराश्रयः ॥ १५८ ॥

इति नामसहस्रं ते वृषभध्वज कीर्तितम् ।
देवस्य विष्णोरीशस्य सर्वपापविनाशनम् ॥ १५९ ॥

पठन् द्विजश्च विष्णुत्वं क्षत्रियो जयमाप्नुयात् ।
वैश्यो धनं सुखं शूद्रो विष्णुभक्तिसमन्वितः ॥ १६० ॥

इति श्रीगारुडे महापुराणे आचारकाण्डे श्री विष्णु सहस्रनाम स्तोत्रं नाम पञ्चदशोऽध्यायः ॥


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed