Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पायय जनमिमममृतं
दुर्लभमितरस्य लोकस्य ।
नतजनपालनदीक्षित
मेधाधीदक्षिणामूर्ते ॥ १ ॥
स्तोतुं वा नन्तुं वा
जडविषयासक्तहृन्न शक्नोमि ।
नैसर्गिकीं कुरु कृपां
मयि वटतटवास दक्षिणामूर्ते ॥ २ ॥
स्फुरतु मम हृदि तनुस्ते
पुस्तकमुद्राक्षमालिकाकुम्भान् ।
दधती चन्द्रार्धलस-
-च्छीर्षा श्रीदक्षिणामूर्ते ॥ ३ ॥
सहमान दक्षिणानन
सहमानविहीनमत्कमन्तुततीः ।
सहमानत्वं त्यज वा
युक्तं कुर्वत्र यद्विभाति तव ॥ ४ ॥
मेधाप्रज्ञे जन्ममूकोऽपि लोकः
प्राप्नोत्यङ्घ्रिं पूजयन्यस्य लोके ।
तं पादाम्भोजातनम्रामरालिं
मेधाप्रज्ञादक्षिणामूर्तिमीडे ॥ ५ ॥
गङ्गानिर्झरिणी हिमाद्रिकुहराद्यद्वत्सुधांशोः प्रभा
निर्गच्छत्यतिवेगतः कमपि च त्यक्त्वा प्रयत्नं मुहुः ।
तद्वद्यत्पदभक्तवक्त्रकुहराद्वाणी जवान्निःसरेत्
तं वन्दे मुनिबृन्दवन्द्यचरणं श्रीदक्षिणास्यं मुदा ॥ ६ ॥
अप्पित्तार्कशशाङ्कनेत्रमगजासंलिङ्गिताङ्गं कृपा-
-वाराशिं विधिविष्णुमुख्यदिविजैः संसेविताङ्घ्रिं मुदा ।
नन्दीशप्रमुखैर्गणैः परिवृतं नागास्यषड्वक्त्रयु-
-क्पार्श्वं नीलगलं नमामि वटभूरुण्मूलवासं शिवम् ॥ ७ ॥
शीतांशुप्रतिमानकान्तिवपुषं पीताम्बुराश्यादिभि-
-र्मौनीन्द्रैः परिचिन्त्यमानमनिशं मोदाद्धृदम्भोरुहे ।
शान्तानङ्गकटाक्षिभासिनिटिलं कान्तार्धकायं विभुं
वन्दे चित्रचरित्रमिन्दुमुकुटं न्यग्रोधमूलाश्रयम् ॥ ८ ॥
इति श्रीजगद्गुरु श्रीसच्चिदानन्द शिवाभिनव नृसिंह भारती स्वामिभिः विरचितं श्री दक्षिणामूर्त्यष्टकम् ॥
इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.