Sri Hanuman Manasika Puja – श्री हनुमान् मानसिक पूजा



मैत्रेय उवाच ।
कथमाराध्यते चित्ते हनुमान् मारुतात्मजः ।
कीदृशैरुपचारैर्वा वद मे विस्तरान्मुने ॥ १ ॥

श्रीपराशर उवच ।
हनुमन्तं महात्मानं पिङ्गाक्षं हेमसन्निभम् ।
मन्दस्मितं सुखासीनं ध्यायेदीप्सितसिद्धये ॥ २ ॥

तापत्रयपरिव्याप्तं चित्तं कृत्वा सुनिर्मलम् ।
भावयेन्मनसा देवं भवशापविमुक्तये ॥ ३ ॥

प्रातःकाले समुत्थाय हनूमन्तं हृदिस्मरन् ।
शुचौदेशे समासीनः कृत प्राभातकीक्रियाः ॥ ४ ॥

विजनं देशमाश्रित्य कदलीवनमध्यगः ।
चित्तविक्षेपरहितः पूजाविधिमुपक्रमेत् ॥ ५ ॥

पूजा च पञ्चधाज्ञेया कपीन्द्रस्य महात्मनः ।
जले च प्रतिमायां च शिलायां सूर्यमण्डले ।
निश्चले मानसे वापि पूजयेज्जगतां पतिम् ॥ ६ ॥

आद्ये सर्वोपचारान् वै जलेनैव प्रकल्पयेत् ।
द्वितीये तु यथाशास्त्रं तथा द्रव्यं निवेदयेत् ॥ ७ ॥

तृतीये न विशेषोऽस्ति द्वितीय इव पूजयेत् ।
तुरीये निश्चलां दृष्टिं कृत्वा भास्करमण्डले ॥ ८ ॥

पूजाद्रव्यं समानीय चक्षुषा सन्निधापयेत् ।
पञ्चमी मानसीपूजा सर्वेषामुत्तमोत्तमम् ॥ ९ ॥

तत्तद्रव्याणि सर्वाणि पूजायाः साधनानि वै ।
निश्चले नान्तरङ्गेण कपीन्द्राय निवेदयेत् ॥ १० ॥

दलैर्द्वादशभिर्युक्तं हैमं हृदयपङ्कजम् ।
भावये द्विकचं रम्यं कर्णिका केसरान्वितम् ॥ ११ ॥

तत्र सिंहासनं तत्र हैमं भास्करसन्निभम् ।
निरस्तान्तस्तमस्तोमं कल्पयेन्मुनिपुङ्गव ॥ १२ ॥

आवाहयेद्धनूमन्तं तत्र सिंहासने सुधीः ।
अथ ध्यायेत् कपिश्रेष्ठं चतुरावरणान्वितम् ॥ १३ ॥

वामभागस्थितां पत्नीं सूर्यपुत्रीं सुवर्चलाम् ।
पश्यन्तं स्निग्धया दृष्ट्या स्मितयुक्त मुखाम्बुजाम् ॥ १४ ॥

छत्रचामरसम्युक्तं विनताद्यैः सुसेवितम् ।
युक्तहार गणोपेतं तत्र कुण्डलभूषितम् ॥ १५ ॥

ग्रैवेयभूषितग्रीवं कनकाङ्गदधारिणम् ।
नानामणिसमुत्कीर्णं किरीटोज्ज्वलशेखरम् ॥ १६ ॥

मेखलादामसंवीतं मणिनूपुरशोभितम् ।
रत्नकङ्कणविद्योतं पाणिं रक्ताम्बुजद्वयम् ॥ १७ ॥

क्वथित स्वर्णवर्णाङ्गमुष्ट्रध्वजसमन्वितम् ।
पद्मासने समासीनं पीताम्बरसमन्वितम् ॥ १८ ॥

चतुर्भुजधरं शान्तं सर्वव्यापिनमीश्वरम् ।
सर्वदेव परीवारं सर्वाभीष्टफलप्रदम् ॥ १९ ॥

(आवाहनाद्युपचार प्रारम्भः)
आवाहयामि सर्वेशं सूर्यपुत्रीप्रियं प्रभुम् ।
अञ्जनातनयं देवं मायातीतं जगद्गुरुम् ॥ २० ॥

देवदेव जगन्नाथ केसरिप्रियनन्दन ।
रत्नसिंहासनं तुभ्यं दास्यामि हनुमत् प्रभो ॥ २१ ॥

आगच्छ हनुमन् देव त्वं सुवर्चलया सह ।
पूजा समाप्तिपर्यन्तं भव सन्निहितो मुदा ॥ २२ ॥

भीमाग्रज महाप्राज्ञ त्वं ममाभिमुखो भव ।
सुवर्चलापते श्रीमन् प्रसीद जगतां पते ॥ २३ ॥

योगिध्येयाङ्घ्रिपद्माय जगतां पतये नमः ।
पाद्यं मयार्पितं देव गृहाण पुरुषोत्तम ॥ २४ ॥

लक्ष्मणप्राणसंरक्ष सीताशोकविनाशन ।
गृहाणार्घ्यं मया दत्तं पार्वती प्रियनन्दन ॥ २५ ॥

बालाग्र सेतुबन्धाय शताननवधाय च ।
तुभ्यमाचमनं दत्तं प्रतिगृह्णीष्व मारुते ॥ २६ ॥

अर्जुनध्वजसंवास दशानन मदापह ।
मधुपर्कं प्रदास्यामि हनुमन् प्रतिगृह्यताम् ॥ २७ ॥

गङ्गादि सर्वतीर्थेभ्यः समानीतैर्नवोदकैः ।
भवन्त स्नापयिष्यामि कपिनायक गृह्यताम् ॥ २८ ॥

पीताम्बरमिदं तुभ्यं तप्तहाटकसन्निभम् ।
दास्यामि वानरश्रेष्ठ सङ्गृहाण नमोऽस्तु ते ॥ २९ ॥

ब्रह्मसूत्रमिदं भव्यं मुक्तादामोपशोभितम् ।
स्वीकुरुष्वाञ्जनापुत्र भक्तरक्षण तत्पर ॥ ३० ॥

उत्तरीयं तु दास्यामि संसारोत्तारकारण ।
गृहाण परमप्रीत्या नतोऽस्मि तव पादयोः ॥ ३१ ॥

भूषणानि महार्हाणि किरीट प्रमुखान्यहम् ।
तुभ्यं दास्यामि सर्वेश गृहाण कपिनायक ॥ ३२ ॥

कस्तूरीकुङ्कुमोन्मिश्रं कर्पूरागरुवासितम् ।
श्रीचन्दनं तु दास्यामि गृह्यतां हनुमत् प्रभो ॥ ३३ ॥

सुगन्धीनि सुरूपाणि वन्यानि विविधानि च ।
चम्पकादीनि पुष्पाणि कमलान्युत्पलानि च ॥ ३४ ॥

तुलसीदलमादीनि मनसा कल्पयामि ते ।
गृहाण हनुमद्देव प्रणतोऽस्मि पदाम्बुजे ॥ ३५ ॥

शालीयानक्षतान्रम्यान् पद्मरागसमप्रभान् ।
अखण्डान् खण्डितध्वान्त स्वीकुरुष्व दयानिधे ॥ ३६ ॥

कपिलाघृतसम्युक्तः कृष्णागरुसमुद्भवः ।
मया समर्पितो धूपः हनुमन् प्रतिगृह्यताम् ॥ ३७ ॥

निरस्ताज्ञानतिमिरतेजोराशे जगत्पते ।
दीपं गृहाण देवेश गोघृतात्तं दशान्वितम् ॥ ३८ ॥

इदं दिव्यान्नममृतं सूपशाकफलान्वितम् ।
साज्यं सदधि सक्षीरं शर्करामधुसम्युतम् ॥ ३९ ॥

भक्ष्यं भोज्यं च लेह्यं च चोष्यं चापि चतुर्विधम् ।
गृहाण हनुमन् भक्त्या स्वर्णपात्रे निवेदितम् ॥ ४० ॥

समर्पयामि पानीयं मध्येमध्ये सुधोपमम् ।
सच्चिदानन्दरूपाय सृष्टिस्थित्यन्तहेतवे ॥ ४१ ॥

पूगीफलैः समायुक्तं कर्पूरादिसमन्वितम् ।
स्वर्णवर्णदलोपेतं ताम्बूलं गृह्यतां हरे ॥ ४२ ॥

नीराजनमिदं दिव्यं मङ्गलार्थं कपि प्रभो ।
मया समर्पितं तात गृहाण वरदो भव ॥ ४३ ॥

नृत्यं गीतं च वाद्यं च कृतं गन्धर्वसत्तमैः ।
प्रकल्पयामि मनसा रामदूताय ते नमः ॥ ४४ ॥

राजोपचारैः सततं पुराणपठनादिभिः ।
सन्तुष्टो भव सर्वात्मन् सर्वलिङ्गमयात्मक ॥ ४५ ॥

मेरावण महाप्राज्ञ प्राणवायु बिलेशय ।
पुनरर्घ्यं प्रदास्यामि पवनात्मज गृह्यताम् ॥ ४६ ॥

मन्दारपारिजातादि पुष्पाञ्जलिमिमं प्रभो ।
स्वर्णपुष्पसमाकीर्णमुष्ट्रध्वज गृहाण वै ॥ ४७ ॥

प्रदक्षिणनमस्कारान् साष्टाङ्गान् पञ्चसङ्ख्यया ।
दास्यामि कपिनाथाय गृहाणाभीष्टदायक ॥ ४८ ॥

देवदेव जगन्नाथ पुराणपुरुषोत्तम ।
अनेन पूजाविधिना सुप्रीतो भव सर्वदा ॥ ४९ ॥

सुवर्चलासमेतस्त्वं चतुरावरणान्वितम् ।
हंसतूलिकयोपेते मम हृत्पङ्कजे वस ॥ ५० ॥

श्रीपराशर उवाच ।
इत्येवं मानसीपूजा सर्वाभीष्टप्रदायिनी ।
शङ्करेण पुरा गौर्याः कथिता विस्तरान्मुने ॥ ५१ ॥

प्रातर्मध्याह्नयोश्चापि सायङ्काल निशीथयोः ।
यदा कदापि पूजेयं मानसी सर्वदोत्तमा ॥ ५१ ॥

एतस्य पूजनविधैः पठनेनापि मानवः ।
सर्वान् कामानवाप्नोति श्रवणेन विशेषतः ॥ ५२ ॥

ब्रह्म क्षत्र विशां स्त्रीणां बालानां च शुभावहम् ।
इदं पवित्रं पापघ्नं भुक्तिमुक्तिफलप्रदम् ॥ ५३ ॥

इति श्रीपराशरसंहितायां श्रीपराशरमैत्रेय संवादे श्री हनुमान् मासिक पूजा नाम द्विपञ्चाशत्पटलः ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed