Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीरामपादसरसीरुहभृङ्गराज
संसारवार्धिपतितोद्धरणावतार ।
दोःसाध्यराज्यधनयोषिददभ्रबुद्धे
पञ्चाननेश मम देहि करावलम्बम् ॥ १ ॥
आप्रातरात्रिशकुनाथनिकेतनालि-
-सञ्चारकृत्य पटुपादयुगस्य नित्यम् ।
मानाथसेविजनसङ्गमनिष्कृतं नः
पञ्चाननेश मम देहि करावलम्बम् ॥ २ ॥
षड्वर्गवैरिसुखकृद्भवदुर्गुहाया-
-मज्ञानगाढतिमिरातिभयप्रदायाम् ।
कर्मानिलेन विनिवेशितदेहधर्तुः
पञ्चाननेश मम देहि करावलम्बम् ॥ ३ ॥
सच्छास्त्रवार्धिपरिमज्जनशुद्धचित्ता-
-स्त्वत्पादपद्मपरिचिन्तनमोदसान्द्राः ।
पश्यन्ति नो विषयदूषितमानसं मां
पञ्चाननेश मम देहि करावलम्बम् ॥ ४ ॥
पञ्चेन्द्रियार्जितमहाखिलपापकर्मा
शक्तो न भोक्तुमिव दीनजनो दयालो ।
अत्यन्तदुष्टमनसो दृढनष्टदृष्टेः
पञ्चाननेश मम देहि करावलम्बम् ॥ ५ ॥
इत्थं शुभं भजकवेङ्कटपण्डितेन
पञ्चाननस्य रचितं खलु पञ्चरत्नम् ।
यः पापठीति सततं परिशुद्धभक्त्या
सन्तुष्टिमेति भगवानखिलेष्टदायी ॥ ६ ॥
इति श्रीवेङ्कटार्यकृत श्री पञ्चमुख हनुमत् पञ्चरत्नम् ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.