Mahanyasam 29. Uttara Shodasopachara Puja – २९. उत्तर पूजा



वस्त्रम् –
ओं ज्ये॒ष्ठाय॒ नम॑: । वस्त्रं समर्पयामि ।

उपवीतम् –
ओं श्रे॒ष्ठाय॒ नम॑: । यज्ञोपवीतं समर्पयामि ।

भस्मलेपनम् –
ओं त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान् मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ॥
भस्मलेपनं समर्पयामि ।

आभरणम् –
ओं रु॒द्राय॒ नम॒: । आभरणानि समर्पयामि ।

गंधम् –
ओं काला॑य॒ नम॑: । सुगन्धादि परिमळद्रव्याणि समर्पयामि ।

श्वेताक्षतान् –
ओं कल॑विकरणाय॒ नम॑: । श्वेताक्षतान् समर्पयामि ।

बिल्वदळम् –
त्रिदळं त्रिगुणाकारं त्रिणेत्रं च त्रियायुधम् ।
त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥
ओं बल॑ विकरणाय॒ नमः । बिल्वदळं समर्पयामि ।

अष्टोत्तरशतनाम पूजा –
अथ शिवाष्टोत्तरशतनामभिः पूजयित्वा ॥

श्री शिव अष्टोत्तरशतनामावळिः पश्यतु ॥

धूपम् –
ओं बला॑य॒ नमः । धूपं आघ्रापयामि ।

दीपम् –
ओं बल॑ प्रमथनाय॒ नमः । दीपं समर्पयामि ।

नैवेद्यम् –
ओं सर्व॑भूतदमनाय॒ नम॑: । नैवेद्यं समर्पयामि ।

ताम्बूलम् –
ओं म॒नोन्म॑नाय॒ नम॑: । ताम्बूलं समर्पयामि ।

नीराजनम् –
अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥
नीराजनम् समर्पयामि ।

मंत्रपुष्पम् –
ओं तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥
मंत्रपुष्पं समर्पयामि ।

प्रदक्षिण नमस्कारान् –
ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑ भूता॒नां॒
ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥
आत्म प्रदक्षिण नमस्कारान् समर्पयामि ।

पूष्पपूज –
ओं भ॒वाय॑ दे॒वाय॒ नमः – अर्क पुष्पं समर्पयामि ।
ओं श॒र्वाय॑ दे॒वाय॒ नमः – चम्पक पुष्पं समर्पयामि ।
ओं ईशा॑नाय दे॒वाय॒ नमः – पुन्नाग पुष्पं समर्पयामि ।
ओं पशु॒पत॑ये दे॒वाय॒ नमः – नन्द्यावर्त पुष्पं समर्पयामि ।
ओं रु॒द्राय॑ दे॒वाय॒ नमः – पाटल पुष्पं समर्पयामि ।
ओं उ॒ग्राय॑ दे॒वाय॒ नमः – बृहती पुष्पं समर्पयामि ।
ओं भी॒माय॑ दे॒वाय॒ नमः – करवीर पुष्पं समर्पयामि ।
ओं मह॑ते दे॒वाय॒ नमः – द्रोण पुष्पं समर्पयामि ।

ओं भ॒वस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: – अर्क पुष्पं समर्पयामि ।
ओं श॒र्वस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: – चम्पक पुष्पं समर्पयामि ।
ओं ईशा॑नस्य दे॒वस्य॒ पत्न्यै॒ नम॑: – पुन्नाग पुष्पं समर्पयामि ।
ओं पशु॒पते᳚र्दे॒वस्य पत्न्यै॒ नम॑: – नन्द्यावर्त पुष्पं समर्पयामि ।
ओं रु॒द्रस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: – पाटल पुष्पं समर्पयामि ।
ओं उ॒ग्रस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: – बृहती पुष्पं समर्पयामि ।
ओं भी॒मस्य॑ दे॒वस्य॒ पत्न्यै॒ नम॑: – करवीर पुष्पं समर्पयामि ।
ओं मह॑तो दे॒वस्य॒ पत्न्यै॒ नम॑: – द्रोण पुष्पं समर्पयामि ।

तर्पणम् –
भवं देवं तर्पयामि ।
शर्वं देवं तर्पयामि ।
ईशानं देवं तर्पयामि ।
पशुपतिं देवं तर्पयामि ।
रुद्रं देवं तर्पयामि ।
उग्रं देवं तर्पयामि ।
भीमं देवं तर्पयामि ।
महान्तं देवं तर्पयामि ।
– भवस्य देवस्य पत्नीं तर्पयामि ।
– शर्वस्य देवस्य पत्नीं तर्पयामि ।
– ईशानस्य देवस्य पत्नीं तर्पयामि ।
– पशुपतेर्देवस्य पत्नीं तर्पयामि ।
– रुद्रस्य देवस्य पत्नीं तर्पयामि ।
– उग्रस्य देवस्य पत्नीं तर्पयामि ।
– भीमस्य देवस्य पत्नीं तर्पयामि ।
– महतो देवस्य पत्नीं तर्पयामि ।

(अथास्याघोरतनूरुपतिष्ठते)

अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥

तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥

(तै.ब्रा.३-५-१०-४)
आशा᳚स्ते॒ऽयं यज॑मानो॒ऽसौ । आयु॒राशा᳚स्ते । सु॒प्र॒जा॒स्त्वमाशा᳚स्ते । स॒जा॒त॒व॒न॒स्यामाशा᳚स्ते । उत्त॑रां देवय॒ज्यामाशा᳚स्ते । भूयो॑ हवि॒ष्कर॑ण॒माशा᳚स्ते । दि॒व्यं धामाशा᳚स्ते । विश्वं॑ प्रि॒यमाशा᳚स्ते । यद॒नेन॑ ह॒विषाऽऽशा᳚स्ते । तद॑स्या॒त्त॒दृ॑ध्यात् । तद॑स्मै दे॒वा रा॑सन्ताम् । तद॒ग्निर्दे॒वो दे॒वेभ्यो॒ वन॑ते । व॒यम॒ग्नेर्मानु॑षाः । इ॒ष्टं च॑ वी॒तं च॑ । उ॒भे च॑ नो॒ द्यावा॑पृथि॒वी अग्ंह॑सः स्पाताम् । इ॒ह गति॑र्वा॒मस्ये॒दं च॑ । नमो॑ दे॒वेभ्य॑: ॥

// आशाः, ते, अयं, यजमानः, आयुः, आशाः, ते, सुप्रजाः, त्वं, आशाः, ते, सजातवनस्यां, आशाः, ते, उत्तरां, देवयज्यां, आशाः, ते, भूयः, हविष्करणं, आशाः, ते, दिव्यं, धामः, आशाः, ते, विश्वं, प्रियं, आशाः, ते, यत्, अनेन, हविषा, आशाः, ते, तत्, अस्यात्, तत्, धृत्यात्, तदस्मै, देवा, रासन्ताम्, तत्, अग्निः, देवः, देवेभ्यः, वनते, वयं, अग्नेः, मानुषाः, इष्टं, च, वीतं, च, उभे, च, नो, द्यावा पृथिवी, अंहसः, स्पाताम्, इह, गतिः, वामस्य, इदं, च, नमः, देवेभः //

अनया महान्यासपूर्वक एकादशवार रुद्राभिषेचनया भगवान् सर्वात्मकः श्रीरुद्रः सुप्रीणातु ।

उत्तरतश्चण्डीश्वराय नमः निर्माल्यं विसृज्य ॥

ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥

॥ स्वस्ति ॥


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed