Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(तै.ब्रा.२-६-५-१)
मि॒त्रो॑ऽसि॒ वरु॑णोऽसि । सम॒हं विश्वै᳚र्दे॒वैः । क्ष॒त्रस्य॒ नाभि॑रसि । क्ष॒त्रस्य॒ योनि॑रसि । स्यो॒नामासी॑द । सु॒षदा॒मासी॑द । मा त्वा॑ हिग्ंसीत् । मा मा॑ हिग्ंसीत् । निष॑साद धृ॒तव्र॑तो॒ वरु॑णः । प॒स्त्या᳚स्वा साम्रा᳚ज्याय सु॒क्रतु॑: ।
// मित्रः, असि, वरुणः, असि, समहं, विश्वैः, देवैः, क्षत्रस्य, न, अभिः, असि, क्षत्रस्य, योनिः, असि, स्योना, मा, आसीद, सुषदा, मा, आसीद, मा, त्वा, हिंसीत्, निषसाद, धृतव्रतः, वरुणः, पस्त्यासु, आ, साम्राज्याय, सुक्रतुः //
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र्बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्याम् । अ॒श्विनो॒र्भैष॑ज्येन । तेज॑से ब्रह्मवर्च॒साया॒भिषि॑ञ्चामि ।
// देवस्य, त्वा, सवितुः, प्रसवे, अश्विनः, बाहु-भ्यां, पूष्णः, हस्ता-भ्यां, अश्विनः, भैषज्येन, तेजसे, ब्रह्मवर्चसाय, अभिषिञ्चामि //
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र्बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्याम् । सर॑स्वत्यै॒ भैष॑ज्येन । वी॒र्या॑या॒न्नाद्या॑या॒भिषि॑ञ्चामि ।
// देवस्य, त्वा, सवितुः, प्रसवे, अश्विनः, बाहु-भ्यां, पूष्णः, हस्ता-भ्यां, सरस्वत्यै, भैषज्येन, वीर्याय, अन्नाद्याय, अभिषिञ्चामि //
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र्बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्याम् । इन्द्र॑स्येन्द्रि॒येण॑ । श्रि॒यै यश॑से॒ बला॑या॒भिषि॑ञ्चामि ॥
// देवस्य, त्वा, सवितुः, प्रसवे, अश्विनः, बाहु-भ्यां, पूष्णः, हस्ता-भ्यां, इन्द्रस्य, इन्द्रियेण, श्रियै, यशसे, बलाय, अभिषिञ्चामि //
(तै.सं.१-७-१०-४१)
अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय । वाचं॒ विष्णु॒ग्ं॒ सर॑स्वतीग्ं सवि॒तारं॑ च वा॒जिन᳚म् । सोम॒ग्ं॒ राजा॑नं॒ वरु॑णम॒ग्निम॒न्वार॑भामहे । आ॒दि॒त्यान् विष्णु॒ग्ं॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति᳚म् । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्या॒ग्ं॒ सर॑स्वत्यै वा॒चोय॒न्तुर्य॒न्त्रेणा॒ग्नेस्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीन्द्र॑स्य बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि ॥
// अर्यमणं, बृहस्पतिं, इन्द्रं, दानाय, चोदय, वाचं, विष्णुं, सरस्वतीं, सवितारं, च, वाजिनं, सोमं, राजानं, वरुणं, अग्निं, अनु-आरभामहे, आदित्यान्, विष्णुं, सूर्यं, ब्रह्माणं, च, बृहस्पतिं, देवस्य, त्वा, सवितुः, प्र-सवे, अश्विनोः, बाहु-भ्यां, पूष्णः, हस्ताभ्यां, सरस्वत्यै, वाचः, यन्तुः, यन्त्रेण, अग्नेः, त्वा, सां-राज्येन, अभि, सिञ्चामि, इन्द्रस्य, बृहस्पतेः, त्वा, सां-राज्येन, अभि, सिञ्चामि //
(तै.सं. ५-५-९-४१)
दे॒वास्त्वेन्द्र॑ज्येष्ठा॒ वरु॑णराजानो॒ऽधस्ता᳚च्चो॒परि॑ष्टाच्च पान्तु॒ न वा ए॒तेन॑ पू॒तो न मेध्यो॒ न प्रोक्षि॑तो॒ यदे॑न॒मत॑: प्रा॒चीनं॑ प्रो॒क्षति॒ यत्संचि॑त॒माज्ये॑न प्रो॒क्षति॒ तेन॑ पू॒तस्तेन॒ मेध्य॒स्तेन॒ प्रोक्षि॑तः ॥
// देवाः, त्वा, इन्द्र-ज्येष्ठाः, वरुण-राजानः, अधस्तात्, च, उपरिष्टात्, च, पान्तु, न, वै, एतेन, पूतः, न, मेध्यः, न, प्र-उक्षितः, यत्, एनं, अतः, प्राचीनं, प्र-उक्षति, यत्, सं-चितं, आज्येन, प्र-उक्षति, तेन, पूतः, तेन, मध्यः, तेन, प्र-उक्षितः //
(तै.ब्रा.२-७-१५-५-५३)
वस॑वस्त्वा पु॒रस्ता॑द॒भिषि॑ञ्चन्तु गाय॒त्रेण॒ छन्द॑सा । रु॒द्रास्त्वा॑ दक्षिण॒तो॑ऽभिषि॑ञ्चन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा । आ॒दि॒त्यास्त्वा॑ प॒श्चाद॒भिषि॑ञ्चन्तु॒ जाग॑तेन॒ छन्द॑सा । विश्वे᳚ त्वा दे॒वा उ॑त्तर॒तो॑ऽभिषि॑ञ्च॒न्त्वानु॑ष्टुभेन॒ छन्द॑सा । बृह॒स्पति॑स्त्वो॒परि॑ष्टाद॒भिषि॑ञ्चतु॒ पाङ्क्ते॑न॒ छन्द॑सा ॥
// वसवः, त्वा, पुरस्तात्, अभिषिञ्चन्तु, गायत्रेण, छन्दसा, रुद्रः, त्वा, दक्षिणतः, अभिषिञ्चन्तु, त्रैष्टुभेन, छन्दसा, आदित्याः, त्वा, पश्चात्, अभिषिञ्चन्तु, जागतेन, छन्दसा, विश्वे, त्वा, देवा, उत्तरतः, अभिषिञ्चन्तु, अनुष्टुभेन, छन्दसा, बृहस्पतिः, त्वा, उपरिष्टात्, अभिषिञ्चन्तु, पाङ्क्तेन, छन्दसा //
(तै.ब्रा.२-८-६-८-४७)
इ॒मा रु॒द्राय॑ स्थि॒रध॑न्वने॒ गिर॑: । क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाम्ने᳚ । अषा॑ढाय॒ सह॑मानाय मी॒ढुषे᳚ । ति॒ग्मायु॑धाय भरता शृ॒णोत॑न । त्वा द॑त्तेभी रुद्र॒ शन्त॑मेभिः । श॒तग्ं हिमा॑ अशीय भेष॒जेभि॑: । व्य॑स्मद्द्वेषो॑ वित॒रं व्यग्ंह॑: । व्यमी॑वाग्श्चातयस्वा॒ विषू॑चीः ॥
// इमा, रुद्राय, स्थिरधन्वने, गिरः, क्षिप्र, इषवे, देवाय, स्व-धाम्ने, अषाढाय, सहमानाय, मीढुषे, तिग्म, आयुधाय, भरता, शृणोतन, त्वा, दत्तेभिः, रुद्र, शंतं, एभिः, शतं, हिमाः, अशीय, भेषजेभिः, वि, अस्मत्, द्वेषः, वितरं, वि-अंहः, वि, अमीवान्, चातयस्वा, विषूचीः //
अर्ह॑न्बिभर्षि॒ मा न॑स्तो॒के । आ ते॑ पितर्मरुताग्ं सु॒म्नमे॑तु । मा न॒: सूर्य॑स्य स॒न्दृशो॑ युयोथाः । अ॒भि नो॑ वी॒रो अर्व॑ति क्षमेत । प्रजा॑येमहि रुद्र प्र॒जाभि॑: । ए॒वा ब॑भ्रो वृषभ चेकितान । यथा॑ देव॒ न हृ॑णी॒षे न हग्ंसि॑ । हा॒व॒न॒श्रूर्नो॑ रुद्रे॒ह बो॑धि । बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा᳚: । परि॑ णो रु॒द्रस्य॑ हे॒तिः स्तु॒हि श्रु॒तम् । मीढु॑ष्ट॒मार्ह॑न्बिभर्षि । त्वम॑ग्ने रु॒द्र आ वो॒ राजा॑नम् ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥
—
[*
अर्ह॑न्बिभर्षि॒ साय॑कानि॒ धन्वार्ह॑न्नि॒ष्कं य॑ज॒तं वि॒श्वरू॑पम् ।
अर्ह॑न्नि॒दं द॑यसे॒ विश्व॒मभ्वं॒ न वा ओजी॑यो रुद्र॒ त्वद॑स्ति ॥
// (ऋ.वे.२-३३-१०) अर्हन्, बिभर्षि, सायकानि, धन्व, अर्हन्, निष्कं, यजतं, विश्व-रूपं, अर्हन्, इदं, दयसे, विश्वं, अभ्वं, न, वै, ओजीयः, रुद्र, त्वत्, अस्ति //
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मानो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ॥
// (तै.सं.४-५) मा, नः, तोके, तनये, मा, नः, आयुषि, मा, नः, गोषु, मा, नः, अश्वेषु, रीरिषः, वीरान्, मा, नः, रुद्र, भामितः, वधीः, हविष्मन्तः, नमसा, विधेम, ते //
परि॑ णो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय ॥
// (तै.सं.४-५) परि, नः, रुद्रस्य, हेतिः, वृणक्तु, परि, त्वेषस्य, दुः-मतिः, अघ-योः, अव, स्थिरा, मघवत्-भ्यः, तनुष्व, मीढ्वः, तोकाय, तनयाय, मृडय //
स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम् ।
मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यं ते॑ अ॒स्मन्निव॑पन्तु॒ सेना᳚: ॥
// (तै.सं.४-५) स्तुहि, श्रुतम्, गर्त-सदम्, युवानम्, मृगम्, न, भीमम्, उपहत्नुम्, उग्रं, मृडा, जरित्रे, रुद्र, स्तवानः, अन्यम्, ते, अस्मत्, नि-वपन्तु, सेनाः //
मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑स्सु॒मना॑ भव । प॒र॒मे वृ॒क्ष आयु॑धन्नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आच॑र॒ पिना॑कं॒ बिभ्र॒दाग॑हि ॥
// मीढुः-तम, शिव-तम, शिवः, नः, सु-मनाः, भव, परमे, वृक्षे, आयुधम्, निधाय, कृत्तिं वसानः, आ, चर, पिनाक, बिभ्रत्, आ, गहि //
अर्ह॑न्बिभर्षि॒ साय॑कानि॒ धन्वार्ह॑न्नि॒ष्कं य॑ज॒तं वि॒श्वरू॑पम् ।
अर्ह॑न्नि॒दं द॑यसे॒ विश्व॒मभ्वं॒ न वा ओजी॑यो रुद्र॒ त्वद॑स्ति ॥
त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वग्ं शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे ।
त्वं वातै॑ररु॒णैर्या॑सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना᳚ ॥
// (तै.सं.१-३-१४-१) त्वं, अग्ने, रुद्रः, असुरः, महः, दिवः, त्वं, शर्धः, मारुतं, पृक्षः, ईशिषे, त्वं, वातैः, अरुणैः, यासि, शं-गायः, त्वं, पूषा, वि-धतः, पासि, नु, त्मना //
आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रग्ं होता॑रग्ं सत्य॒यज॒ग्ं॒ रोद॑स्योः । अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुध्वम् ॥
// (तै.सं.१-३-१४-२) आ, वः, राजानं, अध्वरस्य, रुद्रं, होतारं, सत्य-यजं, रोदस्योः, अग्निं, पुरा, तनयित्नोः, अचित्तात्, हिरण्य-रूपं, अवसे, कृणुध्वं //
*]
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.