Mahanyasam 28. Samrajya Pattabhisheka – २८) साम्राज्यपट्टाऽभिषेकः



(तै.ब्रा.२-६-५-१)
मि॒त्रो॑ऽसि॒ वरु॑णोऽसि । सम॒हं विश्वै᳚र्दे॒वैः । क्ष॒त्रस्य॒ नाभि॑रसि । क्ष॒त्रस्य॒ योनि॑रसि । स्यो॒नामासी॑द । सु॒षदा॒मासी॑द । मा त्वा॑ हिग्ंसीत् । मा मा॑ हिग्ंसीत् । निष॑साद धृ॒तव्र॑तो॒ वरु॑णः । प॒स्त्या᳚स्वा साम्रा᳚ज्याय सु॒क्रतु॑: ।

// मित्रः, असि, वरुणः, असि, समहं, विश्वैः, देवैः, क्षत्रस्य, न, अभिः, असि, क्षत्रस्य, योनिः, असि, स्योना, मा, आसीद, सुषदा, मा, आसीद, मा, त्वा, हिंसीत्, निषसाद, धृतव्रतः, वरुणः, पस्त्यासु, आ, साम्राज्याय, सुक्रतुः //

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र्बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्याम् । अ॒श्विनो॒र्भैष॑ज्येन । तेज॑से ब्रह्मवर्च॒साया॒भिषि॑ञ्चामि ।

// देवस्य, त्वा, सवितुः, प्रसवे, अश्विनः, बाहु-भ्यां, पूष्णः, हस्ता-भ्यां, अश्विनः, भैषज्येन, तेजसे, ब्रह्मवर्चसाय, अभिषिञ्चामि //

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र्बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्याम् । सर॑स्वत्यै॒ भैष॑ज्येन । वी॒र्या॑या॒न्नाद्या॑या॒भिषि॑ञ्चामि ।

// देवस्य, त्वा, सवितुः, प्रसवे, अश्विनः, बाहु-भ्यां, पूष्णः, हस्ता-भ्यां, सरस्वत्यै, भैषज्येन, वीर्याय, अन्नाद्याय, अभिषिञ्चामि //

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र्बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्याम् । इन्द्र॑स्येन्द्रि॒येण॑ । श्रि॒यै यश॑से॒ बला॑या॒भिषि॑ञ्चामि ॥

// देवस्य, त्वा, सवितुः, प्रसवे, अश्विनः, बाहु-भ्यां, पूष्णः, हस्ता-भ्यां, इन्द्रस्य, इन्द्रियेण, श्रियै, यशसे, बलाय, अभिषिञ्चामि //

(तै.सं.१-७-१०-४१)
अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय । वाचं॒ विष्णु॒ग्ं॒ सर॑स्वतीग्ं सवि॒तारं॑ च वा॒जिन᳚म् । सोम॒ग्ं॒ राजा॑नं॒ वरु॑णम॒ग्निम॒न्वार॑भामहे । आ॒दि॒त्यान् विष्णु॒ग्ं॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति᳚म् । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्या॒ग्ं॒ सर॑स्वत्यै वा॒चोय॒न्तुर्य॒न्त्रेणा॒ग्नेस्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीन्द्र॑स्य बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि ॥

// अर्यमणं, बृहस्पतिं, इन्द्रं, दानाय, चोदय, वाचं, विष्णुं, सरस्वतीं, सवितारं, च, वाजिनं, सोमं, राजानं, वरुणं, अग्निं, अनु-आरभामहे, आदित्यान्, विष्णुं, सूर्यं, ब्रह्माणं, च, बृहस्पतिं, देवस्य, त्वा, सवितुः, प्र-सवे, अश्विनोः, बाहु-भ्यां, पूष्णः, हस्ताभ्यां, सरस्वत्यै, वाचः, यन्तुः, यन्त्रेण, अग्नेः, त्वा, सां-राज्येन, अभि, सिञ्चामि, इन्द्रस्य, बृहस्पतेः, त्वा, सां-राज्येन, अभि, सिञ्चामि //

(तै.सं. ५-५-९-४१)
दे॒वास्त्वेन्द्र॑ज्येष्ठा॒ वरु॑णराजानो॒ऽधस्ता᳚च्चो॒परि॑ष्टाच्च पान्तु॒ न वा ए॒तेन॑ पू॒तो न मेध्यो॒ न प्रोक्षि॑तो॒ यदे॑न॒मत॑: प्रा॒चीनं॑ प्रो॒क्षति॒ यत्संचि॑त॒माज्ये॑न प्रो॒क्षति॒ तेन॑ पू॒तस्तेन॒ मेध्य॒स्तेन॒ प्रोक्षि॑तः ॥

// देवाः, त्वा, इन्द्र-ज्येष्ठाः, वरुण-राजानः, अधस्तात्, च, उपरिष्टात्, च, पान्तु, न, वै, एतेन, पूतः, न, मेध्यः, न, प्र-उक्षितः, यत्, एनं, अतः, प्राचीनं, प्र-उक्षति, यत्, सं-चितं, आज्येन, प्र-उक्षति, तेन, पूतः, तेन, मध्यः, तेन, प्र-उक्षितः //

(तै.ब्रा.२-७-१५-५-५३)
वस॑वस्त्वा पु॒रस्ता॑द॒भिषि॑ञ्चन्तु गाय॒त्रेण॒ छन्द॑सा । रु॒द्रास्त्वा॑ दक्षिण॒तो॑ऽभिषि॑ञ्चन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा । आ॒दि॒त्यास्त्वा॑ प॒श्चाद॒भिषि॑ञ्चन्तु॒ जाग॑तेन॒ छन्द॑सा । विश्वे᳚ त्वा दे॒वा उ॑त्तर॒तो॑ऽभिषि॑ञ्च॒न्त्वानु॑ष्टुभेन॒ छन्द॑सा । बृह॒स्पति॑स्त्वो॒परि॑ष्टाद॒भिषि॑ञ्चतु॒ पाङ्क्ते॑न॒ छन्द॑सा ॥

// वसवः, त्वा, पुरस्तात्, अभिषिञ्चन्तु, गायत्रेण, छन्दसा, रुद्रः, त्वा, दक्षिणतः, अभिषिञ्चन्तु, त्रैष्टुभेन, छन्दसा, आदित्याः, त्वा, पश्चात्, अभिषिञ्चन्तु, जागतेन, छन्दसा, विश्वे, त्वा, देवा, उत्तरतः, अभिषिञ्चन्तु, अनुष्टुभेन, छन्दसा, बृहस्पतिः, त्वा, उपरिष्टात्, अभिषिञ्चन्तु, पाङ्क्तेन, छन्दसा //

(तै.ब्रा.२-८-६-८-४७)
इ॒मा रु॒द्राय॑ स्थि॒रध॑न्वने॒ गिर॑: । क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाम्ने᳚ । अषा॑ढाय॒ सह॑मानाय मी॒ढुषे᳚ । ति॒ग्मायु॑धाय भरता शृ॒णोत॑न । त्वा द॑त्तेभी रुद्र॒ शन्त॑मेभिः । श॒तग्ं हिमा॑ अशीय भेष॒जेभि॑: । व्य॑स्मद्द्वेषो॑ वित॒रं व्यग्ंह॑: । व्यमी॑वाग्‍श्चातयस्वा॒ विषू॑चीः ॥

// इमा, रुद्राय, स्थिरधन्वने, गिरः, क्षिप्र, इषवे, देवाय, स्व-धाम्ने, अषाढाय, सहमानाय, मीढुषे, तिग्म, आयुधाय, भरता, शृणोतन, त्वा, दत्तेभिः, रुद्र, शंतं, एभिः, शतं, हिमाः, अशीय, भेषजेभिः, वि, अस्मत्, द्वेषः, वितरं, वि-अंहः, वि, अमीवान्, चातयस्वा, विषूचीः //

अर्ह॑न्बिभर्षि॒ मा न॑स्तो॒के । आ ते॑ पितर्मरुताग्ं सु॒म्नमे॑तु । मा न॒: सूर्य॑स्य स॒न्दृशो॑ युयोथाः । अ॒भि नो॑ वी॒रो अर्व॑ति क्षमेत । प्रजा॑येमहि रुद्र प्र॒जाभि॑: । ए॒वा ब॑भ्रो वृषभ चेकितान । यथा॑ देव॒ न हृ॑णी॒षे न हग्ंसि॑ । हा॒व॒न॒श्रूर्नो॑ रुद्रे॒ह बो॑धि । बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा᳚: । परि॑ णो रु॒द्रस्य॑ हे॒तिः स्तु॒हि श्रु॒तम् । मीढु॑ष्ट॒मार्ह॑न्बिभर्षि । त्वम॑ग्ने रु॒द्र आ वो॒ राजा॑नम् ॥

ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥

[*
अर्ह॑न्बिभर्षि॒ साय॑कानि॒ धन्वार्ह॑न्नि॒ष्कं य॑ज॒तं वि॒श्वरू॑पम् ।
अर्ह॑न्नि॒दं द॑यसे॒ विश्व॒मभ्वं॒ न वा ओजी॑यो रुद्र॒ त्वद॑स्ति ॥

// (ऋ.वे.२-३३-१०) अर्हन्, बिभर्षि, सायकानि, धन्व, अर्हन्, निष्कं, यजतं, विश्व-रूपं, अर्हन्, इदं, दयसे, विश्वं, अभ्वं, न, वै, ओजीयः, रुद्र, त्वत्, अस्ति //

मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मानो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ॥

// (तै.सं.४-५) मा, नः, तोके, तनये, मा, नः, आयुषि, मा, नः, गोषु, मा, नः, अश्वेषु, रीरिषः, वीरान्, मा, नः, रुद्र, भामितः, वधीः, हविष्मन्तः, नमसा, विधेम, ते //

परि॑ णो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय ॥

// (तै.सं.४-५) परि, नः, रुद्रस्य, हेतिः, वृणक्तु, परि, त्वेषस्य, दुः-मतिः, अघ-योः, अव, स्थिरा, मघवत्-भ्यः, तनुष्व, मीढ्वः, तोकाय, तनयाय, मृडय //

स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम् ।
मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यं ते॑ अ॒स्मन्निव॑पन्तु॒ सेना᳚: ॥

// (तै.सं.४-५) स्तुहि, श्रुतम्, गर्त-सदम्, युवानम्, मृगम्, न, भीमम्, उपहत्नुम्, उग्रं, मृडा, जरित्रे, रुद्र, स्तवानः, अन्यम्, ते, अस्मत्, नि-वपन्तु, सेनाः //

मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑स्सु॒मना॑ भव । प॒र॒मे वृ॒क्ष आयु॑धन्नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आच॑र॒ पिना॑कं॒ बिभ्र॒दाग॑हि ॥

// मीढुः-तम, शिव-तम, शिवः, नः, सु-मनाः, भव, परमे, वृक्षे, आयुधम्, निधाय, कृत्तिं वसानः, आ, चर, पिनाक, बिभ्रत्, आ, गहि //

अर्ह॑न्बिभर्षि॒ साय॑कानि॒ धन्वार्ह॑न्नि॒ष्कं य॑ज॒तं वि॒श्वरू॑पम् ।
अर्ह॑न्नि॒दं द॑यसे॒ विश्व॒मभ्वं॒ न वा ओजी॑यो रुद्र॒ त्वद॑स्ति ॥

त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वग्ं शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे ।
त्वं वातै॑ररु॒णैर्या॑सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना᳚ ॥

// (तै.सं.१-३-१४-१) त्वं, अग्ने, रुद्रः, असुरः, महः, दिवः, त्वं, शर्धः, मारुतं, पृक्षः, ईशिषे, त्वं, वातैः, अरुणैः, यासि, शं-गायः, त्वं, पूषा, वि-धतः, पासि, नु, त्मना //

आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रग्ं होता॑रग्ं सत्य॒यज॒ग्ं॒ रोद॑स्योः । अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुध्वम् ॥

// (तै.सं.१-३-१४-२) आ, वः, राजानं, अध्वरस्य, रुद्रं, होतारं, सत्य-यजं, रोदस्योः, अग्निं, पुरा, तनयित्नोः, अचित्तात्, हिरण्य-रूपं, अवसे, कृणुध्वं //
*]


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed