Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(तै.सं.१-३-१४)
त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वग्ं शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे ।
त्वं वातै॑ररु॒णैर्या॑सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना᳚ ॥ १
// त्वं, अग्ने, रुद्रः, असुरः, महः, दिवः, त्वं, शर्धः, मारुतं, पृक्षः, ईशिषे, त्वं, वातैः, अरुणैः, यासि, शं-गायः, त्वं, पूषा, वि-धतः, पासि, नु, त्मना //
आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रग्ं होता॑रग्ं सत्य॒यज॒ग्ं॒ रोद॑स्योः ।
अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुध्वम् ॥ २
// आ, वः, राजानं, अध्वरस्य, रुद्रं, होतारं, सत्य-यजं, रोदस्योः, अग्निं, पुरा, तनयित्नोः, अचित्तात्, हिरण्य-रूपं, अवसे, कृणुध्वं //
अ॒ग्निर्होता॒ निष॑सादा॒ यजी॑यानु॒पस्थे॑ मा॒तुः सु॑र॒भावु॑ लो॒के ।
युवा॑ क॒विः पुरु॑नि॒ष्ठः ऋ॒तावा॑ ध॒र्ता कृ॑ष्टी॒नामु॒त मध्य॑ इ॒द्धः ॥ ३
// अग्निः, होता, नि, ससाद, यजीयान्, उप-स्थे, मातुः, सुरभौ, उ, लोके, युवा, कविः, पुरु-निष्ठः, ऋत-वा, धर्ता, कृष्टीनां, उत, मध्ये, इद्धः //
सा॒ध्वीम॑कर्दे॒ववी॑तिं नो अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्या᳚म् ।
स आयु॒राऽगा᳚थ्सुर॒भिर्वसा॑नो भ॒द्राम॑कर्दे॒वहू॑तिं नो अ॒द्य ॥ ४
// साध्वीं, अकः, देव-वीतिं, नः, अद्य, यज्ञस्य, जिह्वां, अविदाम, गुह्यां, सः, आयुः, आ, अगात्, सुरभिः, वसानः, भद्रां, अकः, देवहूतिं, नः, अद्य //
अक्र॑न्दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुध॑: सम॒ञ्जन्न् ।
स॒द्यो ज॑ज्ञा॒नो विहीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ॥ ५
// अक्रन्दत्, अग्निः, स्तनयन्, इव, द्यौः, क्षामा, रेरिहत्, वीरुधः, सं-अञ्जन्, सद्यः, जज्ञानः, वि-हि, ईं, इद्धः, अख्यत्, आ, रोदसी, भानुना, भाति, अन्तः //
त्वे वसू॑नि पुर्वणीक होतर्दो॒षा वस्तो॒रेरि॑रे य॒ज्ञिया॑सः ।
क्षामे॑व॒ विश्वा॒ भुव॑नानि॒ यस्मि॒न्त्सग्ं सौभ॑गानि दधि॒रे पा॑व॒के ॥ ६
// त्वे, वसूनि, पुरु-अनीक, होतः, दोषा, वस्तोः, अ, ईरिरे, यज्ञियासः, क्षाम, इव, विश्वा, भुवनानि, यस्मिन्, सं, सौभगानि, दधिरे, पावके //
तुभ्यं॒ ता अ॑ङ्गिरस्तम॒ विश्वा᳚: सुक्षि॒तय॒: पृथ॑क् ।
अग्ने॒ कामा॑य येमिरे ॥ ७
// तुभ्यं, ताः, अङ्गिरः-तम, विश्वाः, सु-क्षितयः, पृथक्, अग्ने, कामाय, येमिरे //
अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒त्य॑श्याम॑र॒यिग्ं र॑यिवः सु॒वीर᳚म् ।
अ॒श्याम॒ वाज॑म॒भि वा॒जय॑न्तो॒ऽश्यामद्यु॒म्नमज॑रा॒जरं॑ ते ॥ ८
// अश्याम, तं, कामं, अग्ने, तव, ऊती, अश्याम, रयिं, रयि-वः, सु-वीरं, अश्याम, वाजं, अभि, वाजयन्तः, अश्याम, द्युम्नं, अजर, अजरं, ते //
श्रेष्ठं॑ यविष्ठ भार॒ताग्ने᳚ द्यु॒मन्त॒मा भ॑र ।
वसो॑ पुरु॒स्पृहग्ं॑ र॒यिम् ॥ ९
// श्रेष्ठं, यविष्ठ, भारत, अग्ने, द्यु-मन्तं, आ, भर, वसः, पुरु-स्पृहं, रयिं, //
स श्वि॑ता॒नस्त॑न्य॒तू रो॑चन॒स्था अ॒जेर॑भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः ।
यः पा॑व॒कः पु॑रु॒तम॑: पु॒रूणि॑ पृ॒थून्य॒ग्निर॑नु॒याति॒ भर्व॑न् ॥ १०
// सः, श्वितानः, तन्यतुः, रोचन-स्थाः, अजरेभिः, नानदत्-भिः, यविष्ठः, यः, पावकः, पुरु-तमः, पुरूणि, पृथूनि, अग्निः, अनु-याति, भर्वन् //
आयु॑ष्टे वि॒श्वतो दधद॒यम॒ग्निर्वरे᳚ण्यः ।
पुन॑स्ते प्रा॒ण आय॑ति॒ परा॒ यक्ष्म॑ग्ं सुवामि ते ॥ ११
// आयुः, ते, विश्वतः, दधत्, अयं, अग्निः, वरेण्यः, पुनः, ते, प्र-अनः, अ, अयति, पर, यक्ष्मं, सुवामि, ते //
आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि ।
घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रम॒भि र॒क्ष॒ता॒दि॒मम् ॥ १२
// आयुः-दाः, अग्ने, हविषः, जुषाणः, घृत-प्रतीकः, घृत-योनिः, एधि, घृतं, पीत्वा, मधु, चारु, गव्यं, पिता, इव, पुत्रं, अभि, रक्षतात्, इमं //
तस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्षणे ।
अग्ने॒ जना॑मि सुष्टु॒तिम् ॥ १३
// तस्मै, ते, प्रति-हर्यते, जात-वेदः, वि-चर्षणे, अग्ने, जनामि, सु-स्तुतिं //
दि॒वस्परि॑ प्रथमं॒ ज॑ज्ञे अ॒ग्निर॒स्मद्द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः ।
तृ॒तीय॑म॒प्सु नृ॒मणा॒ अज॑स्र॒मिन्धा॑न एनं जरते स्वा॒धीः ॥ १४
// दिवः, परि, प्रथमं, जज्ञे, अग्निः, अस्मत्, द्वितीयं, परि, जातवेदाः, तृतीयं, अप्सु, नृमणा, अजस्रं, इन्धान, एनं, जरते, स्व, अधीः //
शुचि॑: पावक॒ वन्द्योऽग्ने॑ बृ॒हद्विरो॑चसे ।
त्वं घृ॒तेभि॒राहु॑तः ॥ १५
// शुचिः, पावक, वन्द्यः, अग्ने, बृहत्, वि-रोचसे, त्वं, घृतेभिः, आहुतः //
दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दुर्मर्ष॒मायुः श्रि॒ये रु॑चा॒नः ।
अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भिर्यदे॑नं॒ द्यौरज॑नयत्सु॒रेता᳚: ॥ १६
// दृशानः, रुक्म, उर्व्या, व्यद्यौत्, दुर्मर्षं, आयुः, श्रिये, रुचानः, अग्निः, अमृतः, अभवत्, वयोभिः, यत्, एनं, द्यौः, अजनयत्, सुर-एताः //
आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट् शुचि॒रेतो॒ निषि॑क्तं॒ द्यौर॒भीके᳚ ।
अ॒ग्निः शर्ध॑मनव॒द्यं युवा॑नग्ग् स्वा॒धियं॑ जनयत् सू॒दय॑च्च ॥ १७
// आ, यत्, इषे, नृपतिं, तेजः, आनट्, शुचिः, एतः, निषिक्तं, द्यौः, अभीके, अग्निः, शर्धं, अनवद्यं, युवानं, सु-आधियं, जनयत्, सूदयत्, च //
स तेजी॑यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः ।
अग्ने॑रा॒यो नृत॑मस्य॒ प्रभू॑तौ भू॒याम॑ ते सुष्टु॒तय॑श्च॒ वस्व॑: ॥ १८
// स, तेजीयसा, मनसा, तु, ओत, उत, शिक्ष, स्व-पत्यस्य, शिक्षोः, अग्ने, रायः, नृतं, अस्य, प्रभूतौ, भूयाम, ते, सु-स्तुतयः, च, वस्वः //
अग्ने॒ सह॑न्त॒मा भ॑र द्यु॒म्नस्य॑ प्रा॒सहा॑ र॒यिम् ।
विश्वा॒ यश्च॒र्ष॒णीर॒भ्या॑सा वाजे॑षु सा॒सह॑त् ॥ १९
// अग्ने, सहन्तं, आ, भर, द्युम्नस्य, प्रासहा, रयिं, विश्वा, यः, चर्षणीः, अभि-आसा, वाजेषु, सासहत् //
त्वम॑ग्ने पृतना॒सहग्ं॑ र॒यिग्ं स॑हस्व॒ आ भ॑र ।
त्वग्ं हि स॒त्यो अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः ॥ २०
// त्वं, अग्ने, पृतनासहं, रयिं, सहस्व, आ, भर, त्वं, हि, सत्यः, अद्भुतः, दाता, वाजस्य, गोमतः //
उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे᳚ ।
स्तोमै᳚र्विधेमा॒ग्नये᳚ ॥ २१
// उक्षान्नाय, वशान्नाय, सोमपृष्ठाय, वेधसे, स्तोमैः, विधेम, अग्नये //
व॒द्माहि सू॑नो॒ अस्य॑द्म॒सद्वा॑ च॒क्रे अ॒ग्निर्ज॒नुषाऽज्मान्न᳚म् ।
स त्वं न॑ ऊर्जसन॒ ऊर्जं॑ धा॒राजे॑वजेरवृ॒के क्षे᳚ष्य॒न्तः ॥ २२
// वद्मा, हि, सूनः, असि, अद्मसत्, वा, चक्रे, अग्निः, जनुष, अज्म, अन्नं, स, त्वं, न, ऊर्जसन, ऊर्जं, धाराज, इव, जेरवृके, क्षेष्यन्तः //
अग्न॒ आयूग्ं॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः ।
आ॒रे बा॑धस्व दु॒च्छुना᳚म् ॥ २३
// अग्न, आयूंषि, पवस, आ, सुवः, ऊर्जं, इषं, च, नः, आरे, बाधस्व, दुच्छुनां //
अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्च॑: सु॒विर्य᳚म् ।
दध॒त्पोषग्ं॑ र॒यिं मयि॑ ॥ २४
// अग्ने, पवस्व, स्वपा, अस्मे, वर्चः, सु-वीर्यं, दधत्, पोषं, रयिं, मयि //
अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया᳚ ।
आ दे॒वान् व॑क्षि॒ यक्षि॑ च ॥ २५
// अग्ने, पावक, रोचिषा, मन्द्रया, देव, जिह्वया, आ, देवान्, वक्षि, यक्षि, च //
स न॑: पावक दीदि॒वोऽग्ने॑ दे॒वाग्ं इ॒हाऽऽव॑ह ।
उप॑ य॒ज्ञग्ं ह॒विश्च॑ नः ॥ २६
// स, नः, पावक, दीदिवः, अग्ने, देवां, इह, आ-वह, उप, यज्ञं, हविः, च, नः //
अ॒ग्निः शुचि॑व्रततम॒: शुचि॒र्विप्र॒: शुचि॑: क॒विः ।
शुची॑रोचत॒ आहु॑तः ॥ २७
// अग्निः, शुचिव्रततमः, शुचिः, विप्रः, शुचिः, कविः, शुचिः, रोचत, आहुतः //
उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज॑न्त ईरते ।
तव॒ ज्योतीग्ं॑ष्य॒र्चयः ॥ २८
// उत्, अग्ने, शुचयः, तव, शुक्रा, भ्राजन्त, ईरते, तव, ज्योतींषि, अर्चयः //
—
(तै.ब्रा.३-११-२-१)
त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वः । त्वग्ं शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे । त्वं वातै॑ररु॒णैर्या॑सि शङ्ग॒यः । त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना॑ ।
// त्वं, अग्ने, रुद्रः, असुरः, महः, दिवः, त्वं, शर्धः, मारुतं, पृक्षः, ईशिषे, त्वं, वातैः, अरुणैः, यासि, शं-गायः, त्वं, पूषा, वि-धतः, पासि, नु, त्मना //
देवा॑ दे॒वेषु॑ श्रयध्वम् ।
प्रथ॑मा द्वि॒तीये॑षु श्रयध्वम् ।
द्विती॑यास्तृ॒तीये॑षु श्रयध्वम् ।
तृती॑याश्चतु॒र्थेषु॑ श्रयध्वम् ।
च॒तु॒र्थाः प॑ञ्च॒मेषु॑ श्रयध्वम् ।
प॒ञ्च॒माः ष॒ष्ठेषु॑ श्रयध्वम् ॥ १
// देवाः, देवेषु, श्रयध्वं / प्रथमाः द्वितीयेषु / द्वितीयाः तृतीयेषु / तृतीयाः चतुर्थेषु / चतुर्थाः पञ्चमेषु / पञ्चमाः षष्ठेषु //
ष॒ष्ठाः स॑प्त॒मेषु॑ श्रयध्वम् ।
स॒प्त॒मा अ॑ष्ट॒मेषु॑ श्रयध्वम् ।
अ॒ष्ट॒मा न॑व॒मेषु॑ श्रयध्वम् ।
न॒व॒मा द॑श॒मेषु॑ श्रयध्वम् ।
द॒श॒मा ए॑काद॒शेषु॑ श्रयध्वम् ।
ए॒का॒द॒शा द्वा॑द॒शेषु॑ श्रयध्वम् ।
द्वा॒द॒शास्त्र॑योद॒शेषु॑ श्रयध्वम् ।
त्र॒यो॒द॒शाश्च॑तुर्द॒शेषु॑ श्रयध्वम् ।
च॒तु॒र्द॒शाः प॑ञ्चद॒शेषु॑ श्रयध्वम् ।
प॒ञ्च॒द॒शाः षो॑ड॒शेषु॑ श्रयध्वम् ॥ २
// षष्ठाः सप्तमेषु / सप्तमाः अष्टमेषु / अष्टमाः नवमेषु / नवमाः दशमेषु / दशमाः एकादशेषु / एकादशाः द्वादशेषु / द्वादशाः त्रयोदशेषु / त्रयोदशाः चतुर्दशेषु / चतुर्दशाः पञ्चदशेषु / पञ्चदशाः षोडशेषु //
षो॒ड॒शाः स॑प्तद॒शेषु॑ श्रयध्वम् ।
स॒प्त॒द॒शा अ॑ष्टाद॒शेषु॑ श्रयध्वम् ।
अ॒ष्टा॒द॒शा ए॑कान्नवि॒ग्ं॒शेषु॑ श्रयध्वम् ।
ए॒का॒न्न॒वि॒ग्ं॒शा वि॒ग्ं॒शेषु॑ श्रयध्वम् ।
वि॒ग्ं॒शा ए॑कवि॒ग्ं॒शेषु॑ श्रयध्वम् ।
ए॒क॒वि॒ग्ं॒शा द्वा॑वि॒ग्ं॒शेषु॑ श्रयध्वम् ।
द्वा॒वि॒ग्ं॒शास्त्र॑योवि॒ग्ं॒शेषु श्रयध्वम् ।
त्र॒यो॒वि॒ग्ं॒शाश्च॑तुर्वि॒ग्ं॒शेषु॑ श्रयध्वम् ।
च॒तु॒र्वि॒ग्ं॒शाः प॑ञ्चवि॒ग्ं॒शेषु॑ श्रयध्वम् ।
प॒ञ्च॒वि॒ग्ं॒शाः ष॑ड्वि॒ग्ं॒शेषु॑ श्रयध्वम् ॥ ३
// षोडशाः सप्तदशेषु / सप्तदशाः अष्टादशेषु / अष्टादशाः एकान्नविंशेषु / एकान्नविंशाः विंशेषु / विंशाः एकविंशेषु / एकविंशाः द्वाविंशेषु / द्वाविंशाः त्रयोविंशेषु / त्रयोविंशाः चतुर्विंशेषु / चतुर्विंशाः पञ्चविंशेषु / पञ्चविंशाः षड्विंशेषु //
ष॒ड्वि॒ग्ं॒शाः स॑प्तवि॒ग्ं॒शेषु॑ श्रयध्वम् ।
स॒प्त॒वि॒ग्ं॒शा अ॑ष्टावि॒ग्ं॒शेषु॑ श्रयध्वम् ।
अ॒ष्टा॒वि॒ग्ं॒शा ए॑कान्नत्रि॒ग्ं॒शेषु॑ श्रयध्वम् ।
ए॒का॒न्न॒त्रि॒ग्ं॒शास्त्रि॒ग्ं॒शेषु॑ श्रयध्वम् ।
त्रि॒ग्ं॒शा ए॑कत्रि॒ग्ं॒शेषु॑ श्रयध्वम् ।
ए॒क॒त्रि॒ग्ं॒शा द्वा᳚त्रि॒ग्ं॒शेषु॑ श्रयध्वम् ।
द्वा॒त्रि॒ग्ं॒शास्त्र॑यस्त्रि॒ग्ं॒शेषु॑ श्रयध्वम् ।
देवा᳚स्त्रिरेकादशा॒स्त्रिस्त्र॑यस्त्रि॒ग्ंशाः ।
// षड्विंशाः सप्तविंशेषु / सप्तविंशाः अष्टाविंशेषु / अष्टाविंशाः एकान्नत्रिंशेषु / एकान्नत्रिंशाः त्रिंशेषु / त्रिंशाः एकत्रिंशेषु / एकत्रिंशाः द्वात्रिंशेषु / द्वात्रिंशाः त्रयः त्रिंशेषु / देवाः, त्रिः, एकादशाः, त्रिः, त्रयः त्रिंशाः //
उत्त॑रे भवत । उत्त॑रवर्त्मान॒ उत्त॑रसत्वानः । यत्का॑म इ॒दं जु॒होमि॑ । तन्मे॒ समृ॑द्ध्यताम् । व॒यग्ग्.स्या॑म॒ पत॑यो रयी॒णाम् । भूर्भुव॒: स्व॑: स्वाहा᳚ ॥ ४
// उत्तरे, भवत, उत्तरवर्त्मान, उत्तरसत्वानः, यत्, काम, इदं, जुहोमि, तत्, मे, सं-ऋद्ध्यतां, वयं, स्याम पतयः, रयीणां, भूः, भुवः, स्वः, स्वाहा //
ओं नमो भगवते॑ रुद्रा॒य । त्वमग्ने त्वमग्ने शतरुद्रीयमित्यस्त्राय फट् ॥
(* भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ *)
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

