Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीदेव्युवाच ।
देव देव महादेव सर्वज्ञ करुणानिधे ।
प्रत्यङ्गिरायाः कवचं सर्वरक्षाकरं नृणाम् ॥ १ ॥
जगन्मङ्गलकं नाम प्रसिद्धं भुवनत्रये ।
सर्वरक्षाकरं नॄणां रहस्यमपि तद्वद ॥ २ ॥
श्रीशिव उवाच ।
शृणु कल्याणि वक्ष्यामि कवचं शत्रुनिग्रहम् ।
परप्रेषितकृत्यादि तन्त्रशल्यादिभक्षणम् ॥ ३ ॥
महाभिचारशमनं सर्वकार्यप्रदं नृणाम् ।
परसेनासमूहे च राज्ञामुद्दिश्य मण्डलात् ॥ ४ ॥
जपमात्रेण देवेशि सम्यगुच्चाटनं भवेत् ।
सर्वतन्त्रप्रशमनं कारागृहविमोचनम् ॥ ५ ॥
क्षयापस्मारकुष्ठादि तापज्वरनिवारणम् ।
पुत्रदं धनदं श्रीदं पुण्यदं पापनाशनम् ॥ ६ ॥
वश्यप्रदं महाराज्ञां विशेषाच्छत्रुनाशनम् ।
सर्वरक्षाकरं शून्यग्रहपीडाविनाशनम् ॥ ७ ॥
बिन्दुत्रिकोणं त्वथ पञ्चकोणं
दलाष्टकं षोडशपत्रयुक्तम् ।
महीपुरेणावृतमम्बुजाक्षी
लिखेन्मनोरञ्जनमग्रतोपि ॥ ८ ॥
महीपुरात्वूर्वमेव द्वात्रिंशत्पत्रमालिखेत् ।
अन्तरे भूपुरं लेख्यं कोणाग्रे क्षां समालिखेत् ॥ ९ ॥
भद्रकालीमनुं लेख्यं मन्त्रं प्रत्यङ्गिरात्मकम् ।
भद्रकाल्युक्तमार्गेण पूज्यां प्रत्यङ्गिरां शिवाम् ॥ १० ॥
रक्तपुष्पैः समभ्यर्च्य कवचं जपमाचरेत् ।
सकृत्पठनमात्रेण सर्वशत्रून् विनाशयेत् ॥ ११ ॥
शत्रवश्च पलायं ते तस्य दर्शनमात्रतः ।
मासमात्रं जपेद्देवि सर्वशत्रून् विनाशयेत् ॥ १२ ॥
अथ कवचम् –
यां कल्पयन्ती प्रदिशं रक्षेत्काली त्वथर्वणी ।
रक्षेत्करालात्वाग्नेय्यां सदा मां सिंहवाहिनी ॥ १३ ॥
याम्यां दिशं सदा रक्षेत्कक्षज्वालास्वरूपिणी ।
नैरृत्यां रक्षतु सदा मास्मानृच्छो अनागसः ॥ १४ ॥
वारुण्यां रक्षतु मम प्रजां च पुरुषार्थिनी ।
वायव्यं रक्षातु सदा यातुधान्यो ममाखिलाः ॥ १५ ॥
दंष्ट्राकरालवदना कौबेर्यां बडबनला ।
ईशान्यां मे सदा रक्षेद्वीरांश्चान्यान्निबर्हय ॥ १६ ॥
उग्रा रक्षेदधोभागे मायामन्त्रस्वरूपिणी ।
ऊर्ध्वं कपालिनी रक्षेत् क्षं ह्रीं हुं फट् स्वरूपिणी ॥ १७ ॥
अधो मे विदशं रक्षेत्कुरुकुल्ला कपालिनी ।
विप्रचित्ता सदा रक्षेत् दिवारात्रं विरोधिनी ॥ १८ ॥
कुरुकुल्ला तु मे पुत्रान् बान्धवानुग्ररूपिणी ।
प्रभादीप्त गृहा रक्षेत् मातापुत्रान् समातृकान् ॥ १९ ॥
स्वभृत्यान् मे सदा रक्षेत्पायात् सा मे पशून् सदा ।
अजिता मे सदा रक्षेदपराजित कामदा ॥ २० ॥
कृत्या रक्षेत्सदाप्राणान् त्रिनेत्रा कालरात्रिका ।
फालं पातु महाक्रूरा पिङ्गकेशी शिरोरुहान् ॥ २१ ॥
भ्रुवौ मे क्रूरवदना पायाच्चण्डी प्रचण्डिका ।
श्रोत्रयोर्युगलं पातु तदा मे शङ्खकुण्डला ॥ २२ ॥
प्रेतचित्यासना देवी पायान्नेत्रयुग्मं मम ।
मम नासापुटद्वन्द्वं ब्रह्मरोचिष्ण्वमित्रहा ॥ २३ ॥
कपोलं मे सदा पातु भृगवश्चाप सेधिरे ।
ऊर्ध्वोष्ठं तु सदा पातु रथस्येव विभुर्धिया ॥ २४ ॥
अधरोष्ठं सदा पातु आज्ञातस्ते वशो जनः ।
दन्तपङ्क्तिद्वयं पातु ब्रह्मरूपा करालिनी ॥ २५ ॥
वाचं वागीश्वरी रक्षेद्रसनां जननी मम ।
चुबुकं पातु मेन्द्राणी तनूं ऋच्छस्व हेलिका ॥ २६ ॥
कर्णस्थानं मम सदा रक्षतां कम्बुकन्धरा ।
कण्ठध्वनिं सदा पातु नादब्रह्ममयी मम ॥ २७ ॥
जठरं मेङ्गिरः पुत्री मे वक्षः पातु काञ्चनी ।
पातु मे भुजयोर्मूलं जातवेदस्वरूपिणी ॥ २८ ॥
दक्षिणं मे भुजं पातु सततं कालरात्रिका ।
वामं भुजं वामकेशी परायन्ती परावती ॥ २९ ॥
पातु मे कूर्परद्वन्द्वं मनस्तत्वाभिधा सती ।
वाचं वागीश्वरी रक्षेद्रसनां जननी मम ॥ ३० ॥
वज्रेश्वरी सदा पातु प्रकोष्ठयुगलं मम ।
मणिद्वयं सदा पातु धूम्रा शत्रुजिघांसया ॥ ३१ ॥
पायात्करतलद्वन्द्वं कदम्बवनवासिनी ।
वामपाण्यङ्गुली पातु हिनस्ति परशासनम् ॥ ३२ ॥
सव्यपाण्यङ्गुली पातु यदवैषि चतुष्पदी ।
नाभिं नित्या सदा पातु ज्वालाभैरवरूपिणी ॥ ३३ ॥
पञ्चास्यपीठनिलया पातु मे पार्श्वयोर्युगम् ।
पृष्ठं प्रज्ञेश्वरी पातु कटिं पृथुनितम्बिनी ॥ ३४ ॥
गुह्यमानन्दरूपाव्यादण्डं ब्रह्माण्डनायकी ।
पायान्मम गुदस्थानमिन्दुमौलिमनः शुभा ॥ ३५ ॥
बीजं मम सदा पातु दुर्गा दुर्गार्तिहारिणी ।
ऊरू मे पातु क्षान्तात्मा त्वं प्रत्यस्य स्वमृत्यवे ॥ ३६ ॥
वनदुर्गा सदा पातु जानुनी वनवासिनी ।
जङ्घिकाण्डद्वयं पातु यश्चजामीश पातु नः ॥ ३७ ॥
गुल्फयोर्युगलं पातु योऽस्मान्द्वेष्टि वधस्व तम् ।
पदद्वन्द्वं सदाव्यान्मे पदाविस्फार्य तच्छिरः ॥ ३८ ॥
अभिप्रेहि सहस्राक्षं पादयोर्युगलं मम ।
पायान्मम पदद्वन्द्वं दहन्नग्निरिव ह्रदम् ॥ ३९ ॥
सर्वाङ्गं सर्वदा पातु सर्वप्रकृतिरूपिणी ।
मन्त्रं प्रत्यङ्गिरा देवी कृत्याश्च सहृदो सुहृत् ॥ ४० ॥
पराभिचारकृत्यात्म समिद्धं जातवेदसम् ।
परप्रेषितशल्यात्मे तमितो नाशयामसि ॥ ४१ ॥
वृक्षादि प्रतिरूपात्मा शिवं दक्षिणतः कृधि ।
अभयं सततं पश्चाद्भद्रमुत्तरतो गृहे ॥ ४२ ॥
भूतप्रेतपिशाचाद्यान् प्रेषितान् जहि मां प्रति ।
भूतप्रेतपिशाचादि परतन्त्रविनाशिनी ॥ ४३ ॥
पराभिचारशमनी धारणात्सर्वसिद्धिदाम् ।
भूर्जपत्रे स्वर्णपत्रे लिखित्वा धारयेद्यदि ॥ ४४ ॥
सर्वसिद्धिमवाप्नोति सर्वत्र विजयी भवेत् ।
एकावृत्तिं जपेद्देवि सर्वऋग्जपदा भवेत् ॥ ४५ ॥
भद्रकाली प्रसन्नाऽभूदभीष्टफलदा भवेत् ।
बन्दीगृहे सप्तरात्रं चोरद्रव्येऽष्टरात्रकम् ॥ ४६ ॥
महाज्वरे सप्तरात्रं उच्चाटे मासमात्रकम् ।
महाव्याधिनिवृत्तिः स्यान्मण्डलं जपमाचरेत् ॥ ४७ ॥
पुत्रकार्ये मासमात्रं महाशत्रुत्वमण्डलात् ।
युद्धकार्ये मण्डलं स्याद्धार्यं सर्वेषु कर्मसु ॥ ४८ ॥
अस्मिन्यज्ञे समावाह्य रक्तपुष्पैः समर्चयेत् ।
नत्वा न कुर्तु मर्हासि इषुरूपे गृहात्सदा ॥ ४९ ॥
शास्तालये चतुष्पथे स्वगृहे गेहलीस्थले ।
निखनेद्यं त्रिशल्यादि तदर्थं प्रापयाशुमे ॥ ५० ॥
मासोच्छिष्टश्च द्विपदमेतत्किञ्चिच्चतुष्पदम् ।
माज्ञातिरनुजानस्यान्मासावेशि प्रवेशिनः ॥ ५१ ॥
बले स्वप्नस्थले रक्षेद्यो मे पापं चिकीर्षति ।
आपादमस्तकं रक्षेत्तमेव प्रतिधावतु ॥ ५२ ॥
प्रतिसर प्रतिधाव कुमारीव पितुर्गृहम् ।
मूर्धानमेषां स्फोटय वधाम्येषां कुले जही ॥ ५३ ॥
ये मे मनसा वाचा यश्च पापं चिकीर्षति ।
तत्सर्वं रक्षतां देवी जहि शत्रून् सदा मम ॥ ५४ ॥
खट् फट् जहि महाकृत्ये विधूमाग्नि समप्रभे ।
देवि देवि महादेवि मम शत्रून्विनाशय ॥ ५५ ॥
त्रिकालं रक्ष मां देवि पठतां पापनाशनम् ।
सर्वशत्रुक्षयकरं सर्वव्याधिविनाशनम् ॥ ५६ ॥
इदं तु कवचं ज्ञात्वा जपेत्प्रत्यङ्गिरा ऋचम् ।
शतलक्षं प्रजप्त्वापि तस्य विद्या न सिध्यति ॥ ५७ ॥
मन्त्रस्वरूपकवचमेककालं पठेद्यदि ।
भद्रकाली प्रसन्नात्मा सर्वभीष्टं ददाति हि ॥ ५८ ॥
महापन्नो महारोगी महाग्रन्थ्यादिपीडिने ।
कवचं प्रथमं जप्त्वा पश्चादृग्जपमाचरेत् ॥ ५९ ॥
पक्षमात्रात् सर्वरोगा नश्यन्त्येव हि निश्चयम् ।
महाधनप्रदं पुंसां महादुःस्वप्ननाशनम् ॥ ६० ॥
सर्वमङ्गलदं नित्यं वाञ्छितार्थफलप्रदम् ।
कृत्यादि प्रेषिते ग्रस्ते पुरस्ताज्जुहुयाद्यदि ॥ ६१ ॥
प्रेषितं प्राप्य झडिति विनाशं प्रददाति हि ।
स्वगृह्योक्तविधानेन प्रतिष्ठाप्य हूताशनम् ॥ ६२ ॥
त्रिकोणकुण्डे चावाह्य षोडशैरुपचारतः ।
यो मे करोति मन्त्रेण खट् फट् जहीति मन्त्रतः ॥ ६३ ॥
हुनेदयुतमात्रेण यन्त्रस्य पुरतो द्विजः ।
क्षणादावेशमाप्नोति भूतग्रस्तकलेबरे ॥ ६४ ॥
विभीतकमपामार्गं विषवृक्षसमुद्भवम् ।
गुलूचीं विकतं कान्तमङ्कोलं निम्बवृक्षकम् ॥ ६५ ॥
त्रिकटुं सर्षपं शिग्रुं लशुनं भ्रामकं फलम् ।
पञ्च ऋग्भिः सुसम्पाद्य आचार्यसहितः शुचिः ॥ ६६ ॥
दिनमेक सहस्रं तु हुनेद्ध्यान पुरः सरः ।
सर्वारिष्टः सर्वशान्तिः भविष्यति न संशयः ॥ ६७ ॥
शत्रुकृत्ये चैवमेव हुनेद्यदि समाहितः ।
स शत्रुर्मित्रपुत्रादियुक्तो यमपुरीं व्रजेत् ॥ ६८ ॥
ब्रह्माऽपि रक्षितुं नैव शक्तिः प्रतिनिवर्तने ।
महत्कार्यसमायोगे एवमेवं समाचरेत् ॥ ६९ ॥
तत्कार्यं सफलं प्राप्य वाञ्छितान् लभते सुधीः ।
इदं रहस्यं देवेशि मन्त्रयुक्तं तवानघे ॥ ७० ॥
शिष्याय भक्तियुक्ताय वक्तव्यं नान्यमेव हि ।
निकुम्भिलामिन्द्रजिता कृतं जय रिपुक्षये ॥ ७१ ॥
इति श्रीमहालक्ष्मीतन्त्रे प्रत्यक्षसिद्धिप्रदे उमामहेश्वर संवादे श्री शङ्करेण विरचिते श्री प्रत्यङ्गिरा कवचम् ॥
इतर श्री प्रत्यङ्गिरा स्तोत्राणि पश्यतु ।
इतर देवी स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

